श्रीशङ्करभगवत्पादकृता
पार्थिवः कठिनो धातुर्द्रवो देहे स्मृतोऽम्मयः ।
पक्तिचेष्टावकाशाः स्युर्वह्निवाय्वम्बरोद्भवाः ॥
॥१॥घ्राणादीनि तदर्थाश्च पृथिव्यादिगुणाः क्रमात् ।
रूपालोकवदिष्टं हि सजातीयार्थमिन्द्रियम् ॥
॥२॥बुद्ध्यर्थान्याहुरेतानि वाक्पाण्यादीनि कर्मणे ।
तद्विकल्पार्थमन्तस्थं मन एकादशं भवेत् ॥
॥३॥निश्चयार्था भवेद् बुद्धिस्तां सर्वार्थानुभाविनीम् ।
ज्ञातामोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन् सदा ॥
॥४॥व्यञ्जकस्तु यथालोको व्यङ्ग्यस्याकारतां गतः ।
व्यतिकीर्णोऽप्यसंकीर्नस्तद्वज् ज्ञः प्रत्ययैः सदा ॥
॥५॥स्थितो दीपो यथायत्नः प्राप्तं सर्वं प्रकाशयेत् ।
शब्दाद्याकारबुद्धीर्ज्ञः प्राप्तास्तद्वत् प्रपश्यति ॥
॥६॥शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् ।
नित्यात्मज्योतिषा दीप्तां विशिंशन्ति सुखादयः ॥
॥७॥शिरोदुःखादिनात्मानं दुःख्यस्मीति हि पश्यति ।
द्रष्टान्यो दुःखिनो दृश्याद् द्रष्टृत्वाच् च न दुःख्यसौ ॥
॥८॥दुःखी स्याद् दुःख्यहंमानाद् दुःखिनो दर्शनान् न वा ।
संहतेऽङ्गादिभिर्द्रष्टा दुःखी दुःखस्य नैव सः ॥
॥९॥चक्षुर्वत् कर्मकर्तृत्वं स्याच् चेन् नानेकमेव तत् ।
संहतं च ततो नात्मा द्रष्टृत्वात् कर्मतां व्रजेत् ॥
॥१०॥ज्ञानयत्नाद्यनेकत्वमात्मनोऽपि मतं यदि ।
नैकज्ञानगुणत्वात् तु ज्योतिर्वत् तस्य कर्मता ॥
॥११॥ज्योतिषो द्योतकत्वेऽपि यद्वन् नात्मप्रकाशनम् ।
भेदेऽप्येवं समत्वाज् ज्ञ आत्मानं नैव पश्यति ॥
॥१२॥यद्धर्मा यः पदार्थो न तस्यैवेयात् स कर्मताम् ।
न ह्यात्मानं दहत्यग्निस्तथा नैव प्रकाशयेत् ॥
॥१३॥एतेनैवात्मनात्मनो ग्रहो बुद्धेर्निराकृतः ।
अंशोऽप्येवं समत्वाद् धि निर्भेदत्वान् न युज्यते ॥
॥१४॥शून्यतापि न युक्तैवं बुद्धेरन्येन दृश्यता ।
उक्तातो घटवत् तस्याः प्राक् सिद्धेश्च विकल्पतः ॥
॥१५॥अविकल्पं तदस्त्येव यत् पूर्वं स्याद् विकल्पतः ।
विकल्पोत्पत्तिहेतुत्वाद् यद्यस्यैव च कारणम् ॥
॥१६॥अज्ञानं कल्पनामूलं संसारस्य नियामकम् ।
हित्वात्मानं परं ब्रह्म वियान् मुक्तं सदाभयम् ॥
॥१७॥जाग्रत्स्वप्नौ तयोर्बीजं सुषुप्ताख्यं तमोमयम् ।
अन्योन्यस्मिन्नसत्त्वाच् च नास्तीत्येतत् त्रयं त्यजेत् ॥
॥१८॥आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात् ।
भ्रान्तिः स्यादात्मकर्मेति क्रियाणां संनिपाततः ॥
॥१९॥निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः ।
प्रकाशत्वान् मनस्येवं बुद्धौ न स्तः प्राकाशतः ॥
॥२०॥संकल्पाध्यवसायौ तु मनोबुद्ध्योर्यथाक्रमात् ।
नेतरेतरधर्मत्वं सर्वं चात्मनि कल्पितम् ॥
॥२१॥स्थानावच्छेददृष्टिः स्यादिन्द्रियाणां तदात्मताम् ।
गता धीस्तां हि पश्यञ् ज्ञो देहमात्र इवेक्ष्यते ॥
॥२२॥क्षणिकं हि तदत्यर्थं धर्ममात्रं निरन्तरम् ।
सादृश्याद् दीपवत् तद्धीस्तच्छान्तिः पुरुषार्थता ॥
॥२३॥स्वाकारन्यावभासं च येषां रूपादि विद्यते ।
येषां नास्ति ततश्चान्यत् पूर्वासंगतिरुच्यते ॥
॥२४॥बाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात् ।
क्षणिकत्वाच् च संस्कारं नैवाधत्ते क्वचित् तु धीः ॥
॥२५॥आधारस्यापि असत्त्वाच् च तुल्यतानिर्निमित्ततः ।
स्थाने वा क्षणिकत्वस्य हानं स्यान् न तदिष्यते ॥
॥२६॥शान्तेश्चायत्नसिद्धत्वात् साधनोक्तिरनर्थिका ।
एकैकस्मिन् समाप्तत्वाच्छान्तेरन्यानपेक्षता ॥
॥२७॥अपेक्षा यदि भिन्नेऽपि परसंतान इष्यताम् ।
सर्वार्थे क्षणिके कस्मिंस्तथाप्यन्यानपेक्षता ॥
॥२८॥तुल्यकालसमुद्भूतावितरेतरयोगिनौ ।
योगाच् च संस्कृतो यस्तु सोऽन्यं हीक्षितुमर्हति ॥
॥२९॥मृषाध्यासस्तु यत्र स्यात् तन्नाशस्तत्र नो मतः ।
सर्वनाशो भवेद् यस्य मोक्षः कस्य फलं वद ॥
॥३०॥अस्ति तावत् स्वयं नाम ज्ञानं वात्मन्यदेव वा ।
भावाभावज्ञतस्तस्य नाभावस्त्वधिगम्यते ॥
॥३१॥येनाधिगम्यतेऽभावस्तत् सत् स्यात् तन् न चेद् भवेत् ।
भावाभावानभिज्ञत्वं लोकस्य स्यान् न चेष्यते ॥
॥३२॥सदसत् सदसच् चेति विकल्पात् प्राग् यदिष्यते ।
तदद्वैतं समत्वात् तु नित्यं चान्यद् विकल्पितात् ॥
॥३३॥विकल्पोद्भवतोऽसत्त्वं स्वप्नदृश्यवदिष्यताम् ।
द्वैतस्य प्रागसत्त्वाच् च सदसत्त्वादिकल्पनात् ॥
॥३४॥वाचारम्भणशास्त्राच् च विकाराणां ह्यभावता ।
मृत्योः स मृत्युमित्यादेर्मम मयेति च स्मृतेः ॥
॥३५॥विशुद्धिश्चात एवास्य विकल्पाच् च विलक्षणात् ।
उपादेयो न हेयोऽत आत्मा नान्यैरकल्पितः ॥
॥३६॥अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः ।
नित्यबोधस्वरूपत्वान् नाज्ञानं तद्वदात्मनि ॥
॥३७॥तथाविक्रियरूपत्वान् नावस्थान्तरमात्मनः ।
अवस्थान्तरवत्त्वे हि नाशोऽस्य स्यान् न संशयः ॥
॥३८॥मोक्षोऽवस्थान्तरं यस्य कृतकः स चलो ह्यतः ।
न संयोगो वियोगो वा मोक्षो युक्तः कथंचन ॥
॥३९॥संयोगस्याप्यनित्यत्वाद् वियोगस्य तथैव च ।
गमनागमने चैव स्वरूपं तु न हीयते ॥
॥४०॥स्वरूपस्यानिमित्तत्वात् सनिमित्ता हि चापरे ।
अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च ॥
॥४१॥स्वरूपत्वान् न सर्वस्य त्यक्तुं शक्यो ह्यनन्यतः ।
गृहीतुं वा ततो नित्योऽविषयत्वापृथक्त्वतः ॥
॥४२॥आत्मार्थत्वाच् च सर्वस्य नित्य आत्मैव केवलः ।
त्यजेत् तस्मात् क्रियाः सर्वाः साधनैः सह मोक्षवित् ॥
॥४३॥आत्मलाभः परो लाभ इति शास्त्रोपत्तयः ।
अलाभोऽन्यात्मलाभस्तु त्यजेत् तस्मादनात्मताम् ॥
॥४४॥गुणानां समभावस्य भ्रंशो न ह्युपपद्यते ।
अविद्यादेः प्रसुप्तत्वान् न चान्यो हेतुरिष्यते ॥
॥४५॥इतरेतरहेतुत्वे प्रवृत्तिः स्यात् सदा न वा ।
नियमो न प्रवृत्तीनां गुणेष्वात्मनि वा भवेत् ॥
॥४६॥विशेषो मुक्तबद्धानां तादर्थ्ये च न युज्यते ।
अर्थार्थिनोश्च संबन्धो नार्थी ज्ञो नेतरोऽपि वा ॥
॥४७॥प्रधानस्य च पारार्थ्यं पुरुषस्याविकारतः ।
न युक्तं संख्यशास्त्रेऽपि विकारेऽपि न युज्यते ॥
॥४८॥संबन्धानुपपत्तेश्च प्रकृतेः पुरुषस्य च ।
मिथोऽयुक्तं तदर्थत्वं प्रधानस्याचितित्वतः ॥
॥४९॥क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत् ।
निर्मित्ते त्वनिर्मोक्षः प्रधानस्य प्रसज्यते ॥
॥५०॥न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः ।
एकनीडत्वतोऽग्राह्याः स्युः कणादादिवर्तमनाम् ॥
॥५१॥युगपच् चासमेतत्वात् सुखविज्ञानयोरपि ।
मनोयोगैकहेतुत्वादग्राह्यत्वं सुखस्य च ॥
॥५२॥तथान्येषां च भिन्नत्वाद् युगपज्जन्म नेष्यते ।
गुणानां समवेतत्वं ज्ञानं चेन् न विशेषणात् ॥
॥५३॥ज्ञानेनैव विशेष्यत्वाज् ज्ञानाप्यत्वं स्मृतेश्तथा ।
सुखं ज्ञातं मयेत्येवं तवाज्ञानात्मकत्वतः ॥
॥५४॥सुखादेर्नात्मधर्मत्वमात्मनस्तेऽविकारतः ।
भेदादन्यस्य कस्मान् न मनसो वाऽविशेषतः ॥
॥५५॥स्यान् मालापरिहार्या तु ज्ञानं चेज् ज्ञेयतां व्रजेत् ।
युगपद् वापि चोत्पत्तिरभ्युपेतेऽन्त इष्यते ॥
॥५६॥अनवस्थान्तरत्वाच् च बन्धो नात्मनि विद्यते ।
नाशुद्धिश्चाप्यसङ्गत्वादसङ्गो हीति च श्रुतेः ॥
॥५७॥सूक्ष्मैकागोचारेभ्यश् च न लिप्यत इति श्रुतेः ।
एवं तर्हि न मोक्षोऽस्ति बन्धाभावात् कथंचन ॥
॥५८॥शास्त्रानर्थक्यमेवं स्यान् न बुद्धेर्भ्रान्तिरिष्यते ।
बन्धो मोक्षश्च तन्नाशः स यथोक्तो न चान्यथा ॥
॥५९॥बोधात्मज्योतिषा दीप्ता बोधमात्मनि मन्यते ।
बुद्धिर्नान्योऽस्ति बोद्धेति सेयं भ्रान्तिर्हि धीगता ॥
॥६०॥बोधस्यात्मस्वरूपत्वान् नित्यं तत्रोपचर्यते ।
अविवेकोऽप्यनाद्योऽयं संसारो नान्य इष्यते ॥
॥६१॥मोक्षस्तन्नाश एव स्यान् नान्यथानुपपत्तितः ।
येषां वस्त्वन्तरापत्तिर्मोक्षो नाशस्तु तैर्मतः ॥
॥६२॥अवस्थान्तरमप्येवमविकारान् न युज्यते ।
विकारेऽवयवित्वं स्यात् ततो नाशो घटादिवत् ॥
॥६३॥तस्माद् भ्रान्तिरतोऽन्या हि बन्धमोक्षादिकल्पनाः ।
सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः ॥
॥६४॥शास्त्रयुक्तिविरोधात् ता नादर्तव्याः कदाचन ।
शक्यन्ते शतशो वक्तुं दोषास्तासां सहस्रशः ॥
॥६५॥अपि निन्दोपपत्तेश्च यान्यतोऽन्यानि चेत्यतः ।
त्यक्त्वातो ह्यन्यशात्रोक्तीर्मतिं कुर्याद् दृढां बुधः ॥
॥६६॥श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वमनार्जवम् ।
वेदान्तस्यैव तत्त्वार्थे व्यासस्यापि मतौ तथा ॥
॥६७॥इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश्च तथा हि युक्तितः ।
व्यपेतशङ्काः परवादतः स्थिरा मुमुक्षवो ज्ञानपथे स्युरित्युत ॥
॥६८॥स्वसाक्षिकं ज्ञानमतीव निर्मलं विकल्पनाभ्यो विपरीतमद्वयम् ।
अवाप्य सम्यग् यदि निश्चितो भवेन् निरन्वयो निर्वृतिमेति शाश्वतीम् ॥
॥६९॥इदं रहस्यं परमं परायणं व्यपेतदोषैरभिमानवर्जितैः ।
समीक्ष्य कार्या मतिरार्जवे सदा न तत्त्वदृक् स्वान्यमतिर्हि कश्चन ॥
॥७०॥अनेकजन्मान्तरसंचितैर्नरो विमुच्यतेऽज्ञाननिमित्तपातकैः ।
इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः ॥
॥७१॥प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे ।
गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे ॥
॥७२॥परस्य देहे न यथाभिमानिता परस्य तद्वत् परमार्थमीक्ष्य च ।
इदं हि विज्ञानमतीव निर्मलं सम्प्राप्य मुक्तोऽथ भवेच् च सर्वतः ॥
॥७३॥न हीह लाभोऽभ्यधिकोऽस्ति कश्चन स्वरूपलाभात् स इतो हि नान्यतः ।
न देयमैन्द्रादपि राजतोऽधिकं स्वरूपलाभं त्वपरीक्ष्य यत्नतः ॥
॥७४॥