मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

जीवन्मुक्तानन्दलहरी

3

सम्प्रदायतः श्रीशङ्करकृता

पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान्

सुवेषान्स्वर्णालङ्करणकलितांश्चित्रसदृशान् ।

स्वयं साक्षाद्द्रष्टेत्यपि च कलयंस्तैः सह रमन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥१॥

वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखान्

घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् ।

भजन्घस्रेरात्राववनितलकल्पैकशयनो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥२॥

कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां

कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।

कुटीरे दान्तानां मुनिजनवराणामपि वसन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥३॥

क्वचिद्बालैः सार्धं करतलजतालैः सहसितैः

क्वचित्तारुण्यालङ्कृतनरवधूभिः सह रमन् ।

क्वचिद्वृद्धैश्चिन्ताकुलित हृदयैश्चापि विलपन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥४॥

कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः

कदाचित्काव्यालङ्कृतिरसरसालैः कविवरैः ।

कदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरै-

र्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥५॥

कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः

सुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलैः ।

प्रकुर्वन्देवस्य प्रमुदितमनाः सन्नतिपरो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥६॥

शिवायाः शम्भोर्वा क्वचिदपि च विष्णोरपि कदा

गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा ।

पठन्वै नामालिं नयनरचितानन्दसलिलो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥७॥

कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः

क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।

भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥८॥

कदाचिज्जागर्त्यां विषयकरणैः संव्यवहरन्

कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।

कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥९॥

कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः

क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।

मनस्वी निःसङ्गः सुजनहृदयानन्दजनको

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥१०॥

कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत-

स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।

कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥११॥

कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः

कदाचित्स्वानन्दं हसितरभसस्त्यक्तवचनः ।

कदाचिल्लोकानां व्यवहृतिसमालोकनपरो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥१२॥

कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं

क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।

तदद्वैतं रूपं निजपरविहीनं प्रकटयन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥१३॥

क्वचिच्छैवैः सार्थं क्वचिदपि च शाक्तैः सह वसन्

कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।

कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥१४॥

निराकारं क्वापि क्वचिदपि च साकारममलं

निजं शैव रूपं विविधगुणभेदेन बहुधा ।

कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥१५॥

कदाऽद्वैतं पश्यन्नखिलमपि सत्यं शिवमयं

महावाक्यार्थानामवगतिसमभ्यासवशतः ।

गतद्वैताभासः शिव शिव शिवेत्येव विलपन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥

॥१६॥

इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा-

सुधापाङ्गाव्याप्यां सहजसुखव्याप्यामनुदिनम् ।

मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः

तदा त्यागी योगी कविरिति वदन्तीह कवयः ॥

॥१७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ जीवन्मुक्तानन्दलहरी सम्पूर्णा