मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

मायापञ्चकम्

3

सम्प्रदायतः श्रीशङ्करकृता

निरुपमनित्यनिरंशकेऽप्यखण्डे

मयि चिति सर्वविकल्पनादिशून्ये ।

घटयति जगदीशजीवभेदं

त्वघटितघटनापटीयसी माया ॥

॥१॥

श्रुतिशतनिगमान्तशोधकान-

प्यहह धनादिनिदर्शनेन सद्यः ।

कलुषयति चतुष्पदाद्यभिन्ना-

नघटितघटनापटीयसी माया ॥

॥२॥

सुखचिदखण्डविबोधमद्वितीयं

वियदनलादिविनिर्मिते नियोज्य ।

भ्रमयति भवसागरे नितान्तं

त्वघटितघटनापटीयसी माया ॥

॥३॥

अपगतगुणवर्णजातिभेदे

सुखचिति विप्रविडाद्यहंकृतिं च ।

स्फुटयति सुतदारगेहमोहं

त्वघटितघटनापटीयसी माया ॥

॥४॥

विधिहरिहरविभेदमप्यखण्डे

बत विरचय्य बुधानपि प्रकामम् ।

भ्रमयति हरिहरभेदभावा-

नघटितघटनापटीयसी माया ॥

॥५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मायापञ्चकम् सम्पूर्णम्