चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम्
अगम्या गमने चैव शुद्ध्यै चान्द्रायणं चरेत्
॥१॥एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्
अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः
॥२॥कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत्
अन्याथा भावदोषेण न धर्मो न च शुध्यति
॥३॥प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्रह्मणभोजनम्
गोद्वयं वस्त्रयुग्मं च दद्याद्विप्रेषु दक्षिणाम्
॥४॥चण्डालीं वा श्वपाकीं वा ह्यभिगच्छति यो द्विजः
त्रिरात्रमुपवासित्वा विप्राणामनुशासनम्
॥५॥सशिखं पवनं कृत्वा प्राजापत्यद्वयं चरेत्
गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत्
॥६॥क्षत्रियो वाथ वैश्यो वा चण्डालीं गच्छतो यदि
प्राजापत्यद्वयं कुर्याद्दद्याद्गोमिथुनद्वयम्
॥७॥श्वपाकीं वाथ चण्डालीं शूद्रो वा यदि गच्छति
प्राजापत्यं चरेत्कृच्छ्रं चतुर्गोमिथुनं ददेत्
॥८॥मातरं यदि गच्छेत्तु भगिनीं स्वसुतां तथा
एतास्तु मोहितो गत्वा त्रीणि कृच्छ्राणि संचरेत्
॥९॥चान्द्रायणत्रयं कुर्याच्छिश्नच्छेदेन शुध्यति
मातृष्वसृगमे चैवमात्ममेढ्रनिकर्तनम्
॥१०॥अज्ञानेन तु यो गच्छेत्कुर्याच्चान्द्रायणद्वयम्
दश गोमिथुनं दद्याच्छुद्धिं पारशरोऽब्रवीत्
॥११॥पितृदारान्समारुह्य मातुराप्तां तु भ्रातृजाम्
गुरुपात्नीं स्नुषां चैव भ्रातृभार्यां तथैव च
॥१२॥मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत्
गोद्वयं दक्षिणां दद्याच्छुध्यते नात्र संशयः
॥१३॥पशुवेष्यादिगमने महिष्युष्ट्रीकपीस्तथा
खरीं च सूकरीं गत्वा प्राजापत्यव्रतं चरेत्
॥१४॥गोगामी च त्रिरात्रेण गामेकां ब्राह्मणे ददन्
महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुध्यति
॥१५॥डामरे समरे वापि दुर्भिक्षे वा जनक्षये
बन्दिग्राहे भयार्ता वा सदा स्वस्त्रीं निरीक्षयेत्
॥१६॥चण्डालैः सह संपर्कं या नारी कुरुते ततः
विप्रान्दश वरान्कृत्वा स्वकं दोषं प्रकाशयेत्
॥१७॥आकण्ठसंमिते कूपे गोमयोदककर्दमे
तत्र स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत्
॥१८॥सशिखं वपनं कृत्वा भुञ्जीयाद्यावकौदनम्
त्रिरात्रमुपवासित्वा त्वेकरात्रं जले वसेत्
॥१९॥शंखपुष्पीलतामूलं पत्रं वा कुसुमं फलम्
सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज्जलम्
॥२०॥एकभक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत्
व्रतं चरति तद्यावत्तावत्संवसते बहिः
॥२१॥प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम्
गोद्वयं दक्षिणां दद्यच्छुद्धिं पाराशरोऽब्रवीत्
॥२२॥चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं व्रतम्
यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत्
॥२३॥बन्दिग्राहेण या भुक्ता हत्वा बद्ध्वा बलाद्भयात्
कृत्वा सांतपनं कृच्छ्रं शुध्येत्पाराशरोऽब्रवीत्
॥२४॥सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः
प्राजापत्येन शुध्येत ऋतुप्रस्रवणेन च
॥२५॥पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत्
पतितार्धशरीरस्य निष्कृतिर्न विधीयते
॥२६॥गायत्रीं जपमानस्तु कृच्छ्रं सांतपनं चरेत्
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्
॥२७॥एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्
जारेण जनयेद्गर्भं मृतेऽव्यक्ते गते पतौ
॥२८॥तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम्
ब्राह्मणी तु यदा गच्छेत्परपुंसा समन्विता
॥२९॥सा तु नष्टा विनिर्दिष्टा न तस्यागमनं पुनः
कामान्मोहात्तु या गच्छेत्त्यक्त्वा बन्धून्सुतान्पतिम्
॥३०॥सा तु नष्टा परे लोके मानुषेषु विशेषतः
मदमोहगता नारी क्रोधाद्दण्डादिताडिता
॥३१॥अद्वितीया गता चैव पुनरागमनं भवेत्
दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते
॥३२॥दशाहं न त्यजेन्नारीं त्यजेन्नष्टश्रुतां तथा
भर्ता चैव चरेत्कृच्छ्रं कृच्छार्धं चैव बान्धवाः
॥३३॥तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति
ब्राह्मणी तु यदा गच्छेत्परपुंसा विवर्जिता
॥३४॥गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोत्रिणः
पुंसो यदि गृहे गच्छेत्तदशुद्धं गृहं भवेत्
॥३५॥पतिमातृगृहं यच्च जारस्यैव तु तद्गृहम्
उल्लिख्य तद्गृहं पश्चात्पञ्चगव्येन सेचयेत्
॥३६॥त्यजेच्च मृण्मयं पात्रं वस्त्रं काष्ठं च शोधयेत्
संभारान्शोधयेत्सर्वान्गोबालैश्च फलोद्भवान्
॥३७॥ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः
प्रायश्चित्तं चरेद्विप्रो ब्राह्मणैरुपपादितम्
॥३८॥गोद्वयं दक्षिणां दद्यात्प्राजापत्यद्वयं चरेत्
इतरेषामहोरात्रं पञ्चगव्यं च शोधनम्
॥३९॥उपवासैर्व्रतैः पुण्यैः स्नानसंध्यार्चनादिभिः
जपहोमदयादानैः शुध्यन्ते ब्राह्मणादयः
॥४०॥आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम्
न प्रदुष्यन्ति दर्भाश्च यज्ञेषु चमसा यथा
॥४१॥