बोधायन ब्रह्मयज्ञम्
Baudhāyana (Bodhayana) brahmayajñam (brahmayagyam) — Veda openings and the full deva-ṛṣi-pitṛ tarpaṇam list.
ब्रह्मयज्ञः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामं कृत्वा सङ्कल्पं करोति ।
ब्रह्मयज्ञेन यक्ष्ये ॥
विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि ॥
इति हस्तयोः अवनेजनम् । त्रिराचम्य द्विः परिमृजति ।
सकृदुपस्पृश्य शिरश्चक्षुषी श्रोत्रे नासिके मुखं हृदयं चालभ्य, सव्यं पाणिं पादौ च प्रोक्ष्य, दक्षिणोत्तरौ पाणी पादौ कृत्वा जपति ।
वेदाध्ययनम्
ॐ भूः । तत्सवितुर्वरेण्यम् ।
ॐ भुवः । भर्गो देवस्य धीमहि ।
ॐ स्वः । धियो यो नः प्रचोदयात् ।
ॐ भूः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ॐ भुवः । धियो यो नः प्रचोदयात् ।
ॐ स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥
ॐ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्थोपा॒यव॑स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥
ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ ॐ
ॐ अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢ गृणा꣣नो꣢ ह꣣व्य꣡दा꣢तये । नि꣡ होता꣢꣯ सत्सि ब꣣र्हि꣡षि꣢ ॥
ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ ॐ
ॐ आमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमाणो भवति ।
पुरस्तादेव हविरातञ्चनमुपकल्पयते ॥ हरिः ॐ ॥
भूर्भुवस्सुवः सत्यं तपः श्रद्धायां जुहोमि ॥
इति आत्मानं परिषिञ्चति । अथ साञ्जलिबन्धः जपति ।
ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नम॑ः पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
(त्रिः)
वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् ॥
इति जलेन हस्तयोः अवनेजनम् । आचमनम् ।
देवतर्पणम्
देवर्षिपितृतर्पणं करिष्ये ॥
देवतीर्थेन तर्पणं कुर्यात् ।
| अग्निः प्रजापतिस्सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि |
| वसूंश्च तर्पयामि |
| पितरोऽर्यमा भगस्सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि |
| रुद्रांश्च तर्पयामि |
| मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्मविष्णू इत्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि |
| आदित्यांश्च तर्पयामि |
| वसवो वरुणोऽज एकपादहिर्बुध्न्यः पूषाश्विनौ यम इत्येतानि उदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि |
| साध्यांश्च तर्पयामि |
| ब्रह्माणं तर्पयामि | प्रजापतिं तर्पयामि |
| परमेष्ठिनं तर्पयामि | हिरण्यगर्भं तर्पयामि |
| चतुर्मुखं तर्पयामि | स्वयम्भुवं तर्पयामि |
| ब्रह्मपारिषदान् तर्पयामि | ब्रह्मपारिषदीः तर्पयामि |
| अग्निं तर्पयामि | वायुं तर्पयामि |
| वरुणं तर्पयामि | सोमं तर्पयामि |
| सूर्यं तर्पयामि | चन्द्रमसं तर्पयामि |
| नक्षत्राणि तर्पयामि | ज्योतींषि तर्पयामि |
| सद्योजातं तर्पयामि | ॐ भूः पुरुषं तर्पयामि |
| ॐ भुवः पुरुषं तर्पयामि | ॐ सुवः पुरुषं तर्पयामि |
| ॐ भूर्भुवस्सुवः पुरुषं तर्पयामि | ॐ भूः तर्पयामि |
| ॐ भुवः तर्पयामि | ॐ सुवः तर्पयामि |
| ॐ महः तर्पयामि | ॐ जनः तर्पयामि |
| ॐ तपः तर्पयामि | ॐ सत्यं तर्पयामि |
| भवं देवं तर्पयामि | शर्वं देवं तर्पयामि |
| ईशानं देवं तर्पयामि | पशुपतिं देवं तर्पयामि |
| रुद्रं देवं तर्पयामि | उग्रं देवं तर्पयामि |
| भीमं देवं तर्पयामि | महान्तं देवं तर्पयामि |
| भवस्य देवस्य पत्नीः तर्पयामि | शर्वस्य देवस्य पत्नीः तर्पयामि |
| ईशानस्य देवस्य पत्नीः तर्पयामि | पशुपतेः देवस्य पत्नीः तर्पयामि |
| रुद्रस्य देवस्य पत्नीः तर्पयामि | उग्रस्य देवस्य पत्नीः तर्पयामि |
| भीमस्य देवस्य पत्नीः तर्पयामि | महतो देवस्य पत्नीः तर्पयामि |
| भवस्य देवस्य सुतं तर्पयामि | शर्वस्य देवस्य सुतं तर्पयामि |
| ईशानस्य देवस्य सुतं तर्पयामि | पशुपतेः देवस्य सुतं तर्पयामि |
| रुद्रस्य देवस्य सुतं तर्पयामि | उग्रस्य देवस्य सुतं तर्पयामि |
| भीमस्य देवस्य सुतं तर्पयामि | महतो देवस्य सुतं तर्पयामि |
| रुद्रान् तर्पयामि | रुद्रपारिषदान् तर्पयामि |
| रुद्रपारिषदीः तर्पयामि | सनकं तर्पयामि |
| सनातनं तर्पयामि | सनत्कुमारं तर्पयामि |
| सनत्सुजातं तर्पयामि | स्कन्दं तर्पयामि |
| इन्द्रं तर्पयामि | षष्ठीं तर्पयामि |
| षण्मुखं तर्पयामि | विशाखं तर्पयामि |
| जयन्तं तर्पयामि | सुब्रह्मण्यं तर्पयामि |
| महासेनं तर्पयामि | स्कन्दपारिषदान् तर्पयामि |
| स्कन्दपारिषदीः तर्पयामि | विघ्नं तर्पयामि |
| विनायकं तर्पयामि | वीरं तर्पयामि |
| शूरं तर्पयामि | वरदं तर्पयामि |
| हस्तिमुखं तर्पयामि | एकदन्तं तर्पयामि |
| लम्बोदरं तर्पयामि | वक्रतुण्डं तर्पयामि |
| गणपतिं तर्पयामि | शूर्पकर्णं तर्पयामि |
| इभवक्त्रं तर्पयामि | विघ्नपारिषदान् तर्पयामि |
| विघ्नपारिषदीः तर्पयामि | केशवं तर्पयामि |
| नारायणं तर्पयामि | माधवं तर्पयामि |
| गोविन्दं तर्पयामि | विष्णुं तर्पयामि |
| मधुसूदनं तर्पयामि | त्रिविक्रमं तर्पयामि |
| वामनं तर्पयामि | श्रीधरं तर्पयामि |
| हृषीकेशं तर्पयामि | पद्मनाभं तर्पयामि |
| दामोदरं तर्पयामि | श्रियं देवीं तर्पयामि |
| ह्रियं देवीं तर्पयामि | पुष्टिं देवीं तर्पयामि |
| वैनतेयं तर्पयामि | कालं तर्पयामि |
| नीलं तर्पयामि | मृत्युं तर्पयामि |
| अन्तकं तर्पयामि | यमं तर्पयामि |
| यमराजं तर्पयामि | धर्मं तर्पयामि |
| धर्मराजं तर्पयामि | चित्रं तर्पयामि |
| चित्रगुप्तं तर्पयामि | वैवस्वतं तर्पयामि |
| वैवस्वतपारिषदान् तर्पयामि | वैवस्वतपारिषदीः तर्पयामि |
| विष्णुं तर्पयामि | विष्णुपारिषदान् तर्पयामि |
| विष्णुपारिषदीः तर्पयामि | भरद्वाजं तर्पयामि |
| गौतमं तर्पयामि | अत्रिं तर्पयामि |
| आङ्गिरसं तर्पयामि | विद्यां तर्पयामि |
| दुर्गां तर्पयामि | ज्येष्ठां तर्पयामि |
| धन्वन्तरिं तर्पयामि | धन्वन्तरिपारिषदान् तर्पयामि |
| धन्वन्तरिपारिषदीः तर्पयामि |
ऋषितर्पणम्
निवीती ऋषितीर्थेन कुर्यात् ।
| ऋषीन् तर्पयामि | महर्षीन् तर्पयामि |
| परमर्षीन् तर्पयामि | देवर्षीन् तर्पयामि |
| ब्रह्मर्षीन् तर्पयामि | राजर्षीन् तर्पयामि |
| वैश्यर्षीन् तर्पयामि | सूतर्षीन् तर्पयामि |
| श्रुतर्षीन् तर्पयामि | जनर्षीन् तर्पयामि |
| तपर्षीन् तर्पयामि | सत्यर्षीन् तर्पयामि |
| सप्तर्षीन् तर्पयामि | काण्डर्षीन् तर्पयामि |
| ऋषीकान् तर्पयामि | ऋषिपत्नीः तर्पयामि |
| ऋषिपुत्रान् तर्पयामि | ऋषिपौत्रान् तर्पयामि |
| काण्वं बोधायनं तर्पयामि | आपस्तम्बं सूत्रकारं तर्पयामि |
| सत्याषाढं हिरण्यकेशिनं तर्पयामि | वाजसनेयिनं याज्ञवल्क्यं तर्पयामि |
| आश्वलायनं शौनकं तर्पयामि | व्यासं तर्पयामि |
| वसिष्ठं तर्पयामि | प्रणवं तर्पयामि |
| व्याहृतीः तर्पयामि | सावित्रीं तर्पयामि |
| गायत्रीं तर्पयामि | छन्दांसि तर्पयामि |
| सदसस्पतिं तर्पयामि |
उपवीती देवतीर्थेन —
| ऋग्वेदं तर्पयामि | यजुर्वेदं तर्पयामि |
| सामवेदं तर्पयामि | अथर्ववेदं तर्पयामि |
| अथर्वाङ्गिरसः तर्पयामि | इतिहासपुराणानि तर्पयामि |
| सर्पदेवजनान् तर्पयामि | सर्वभूतानि तर्पयामि |
पितृतर्पणम्
प्राचीनावीती पितृतीर्थेन कुर्यात् ।
| सोमः पितृमान् यमोऽङ्गिरस्वान् अग्निः कव्यवाहनः अर्यमा इत्यादयो ये पितरः तान् पितॄन् तर्पयामि | अग्निष्वात्तान् पितॄन् तर्पयामि |
| सोमपान् पितॄन् तर्पयामि | बर्हिषदः पितॄन् तर्पयामि |
| सर्वान् पितॄन् तर्पयामि | सर्वपितृगणान् तर्पयामि |
| सर्वपितृपत्नीः तर्पयामि | सर्वपितृगणपत्नीः तर्पयामि |
मृतपितृकश्चेत् —
| पितॄन् स्वधा नमस्तर्पयामि | पितामहान् स्वधा नमस्तर्पयामि |
| प्रपितामहान् स्वधा नमस्तर्पयामि | मातॄः स्वधा नमस्तर्पयामि |
| पितामहीः स्वधा नमस्तर्पयामि | प्रपितामहीः स्वधा नमस्तर्पयामि |
| मातामहान् स्वधा नमस्तर्पयामि | प्रमातामहान् स्वधा नमस्तर्पयामि |
| वृद्धप्रमातामहान् स्वधा नमस्तर्पयामि | मातामहीः स्वधा नमस्तर्पयामि |
| प्रमातामहीः स्वधा नमस्तर्पयामि | वृद्धप्रमातामहीः स्वधा नमस्तर्पयामि |
| आचार्यान् स्वधा नमस्तर्पयामि | आचार्यपत्नीः स्वधा नमस्तर्पयामि |
| गुरून् स्वधा नमस्तर्पयामि | गुरुपत्नीः स्वधा नमस्तर्पयामि |
| सखीन् स्वधा नमस्तर्पयामि | सखिपत्नीः स्वधा नमस्तर्पयामि |
| ज्ञातीन् स्वधा नमस्तर्पयामि | ज्ञातिपत्नीः स्वधा नमस्तर्पयामि |
| अमात्यान् स्वधा नमस्तर्पयामि | अमात्याः स्वधा नमस्तर्पयामि |
| सर्वान् स्वधा नमस्तर्पयामि | सर्वाः स्वधा नमस्तर्पयामि |
ऊर्जं वहन्तीरमृतं घृतं मधु पयः कीलालं परिस्रुतम् ।
स्वधा स्थ तर्पयत मे पितॄन् ॥
उपवीती आचामेत् ॥