मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौथुम ब्रह्मयज्ञम्

Kauthuma śākhā brahmayajñam (brahmayagyam) — daily svādhyāya with the opening of all four Vedas, followed by tarpaṇam.

3
ब्रह्मयज्ञं

माध्याह्निक गायत्रीजपानन्तरम् आचम्य, दक्षिणं पादं वामोरौ निधाय सङ्कल्पयेत् ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

ॐ भू: — ॐ भुव: — ॐ सुव: — ॐ मह: —

ॐ जन: — ॐ तप: — ॐ सत्यम् —

ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात् —

ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं ब्रह्मयज्ञं करिष्ये, ब्रह्मयज्ञेन यक्ष्ये ॥

विद्युदसि विद्य मे पाप्मानं ऋतात् सत्यमुपैमि ॥

हस्ते जलं गृहीत्वा त्रिराचम्य, मुखं नेत्रे नासिके श्रोत्रे हृदयं स्कन्धौ च स्पृष्ट्वा, वामहस्तोपरि दक्षिणहस्तं निधाय पठेत् ।

वेदाद्य: — अध्ययनं

ॐ | तत्सवितुर्वरेण्यं | ॐ भर्गो देवस्य धीमहि |

ॐ धियो यो न: प्रचोदयात् ॥

ॐ भू: — ॐ भुव: — ॐ सुव: — ॐ मह: —

ॐ जन: — ॐ तप: — ॐ सत्यम् —

ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात् —

ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥

॥ ऋग्वेदादि: ॥

ॐ अग्निमीळे पुरोहितं — यज्ञस्य देवमृत्विजम् —

होतारं रत्नधातमम् ॥

॥ यजुर्वेदादि: ॥

ॐ इषेत्वोर्जे त्वा — वायवस्थ उपायवस्थ —

देवो व: सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे — हरि: ॐ ॥

॥ सामवेदादि: ॥

ॐ अग्न आ याहि वीतये गृणानो हव्यदातये —

नि होता सत्सि बर्हिषि — हरि: ॐ ॥

॥ अथर्ववेदादि: ॥

ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये —

शं योरभिस्रवन्तु न: — ॐ ॥

ॐ सत्यं तप: श्रद्धायां जुहोमि ॥

इति पठित्वा आत्मानं प्रदक्षिणं जलेन परिषिञ्चेत् ।

ॐ नमो ब्रह्मणे — नमो अस्त्वग्नये — नम: पृथिव्यै —

नम ओषधीभ्य: — नमो वाचे — नमो वाचस्पतये —

नमो विष्णवे बृहते करोमि ॥

इमं मन्त्रं त्रिः पठेत् ।

वृष्टिरसि वृश्च मे — पाप्मानं ऋतात् सत्यमुपैमि ॥

इति पठित्वा हस्तं जलेन प्रक्षाल्य देव-ऋषि-पितृ तर्पणं कुर्यात् ।

देव तर्पणं

सकृदाचम्य सङ्कल्पयेत् ।

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं देव-ऋषि-पितृ तर्पणं करिष्ये ॥

उपवीती भूत्वा अङ्गुल्यग्रैः (देवतीर्थेन) तर्पयेत् ।

ब्रह्मादयो ये देवा:

तान् देवांस्तर्पयामिसर्वान् देवांस्तर्पयामि
सर्वदेवगणांस्तर्पयामिसर्वदेवपत्नीस्तर्पयामि
सर्वदेवगणपत्नीस्तर्पयामिसर्वदेवपुत्रांस्तर्पयामि
सर्वदेवगणपुत्रांस्तर्पयामि
ऋषि तर्पणं

निवीती भूत्वा कनिष्ठिकामूलेन (ऋषितीर्थेन) तर्पयेत् ।

कृष्णद्वैपायनादयो ये ऋषय:

तान् ऋषींस्तर्पयामिसर्वान् ऋषींस्तर्पयामि
सर्वऋषिगणांस्तर्पयामिसर्वऋषिपत्नीस्तर्पयामि
सर्वऋषिगणपत्नीस्तर्पयामिसर्वऋषिपुत्रांस्तर्पयामि
सर्वऋषिगणपुत्रांस्तर्पयामि

पुनरुपवीती भूत्वा तर्पयेत् ।

ऋग्वेदं तर्पयामियजुर्वेदं तर्पयामि
सामवेदं तर्पयामिअथर्वणवेदं तर्पयामि
इतिहासपुराणं तर्पयामिकल्पं तर्पयामि
पितृ तर्पणं

अपितृकः प्राचीनावीती भूत्वा दक्षिणाभिमुखः तर्जनीअङ्गुष्ठयोर्मध्येन (पितृतीर्थेन) तर्पयेत् ।

सोम: पितृमान् — यमो अङ्गिरस्वान् — अग्नि: कव्यवाहनादयो ये पितर:

तान् पितॄंस्तर्पयामिसर्वान् पितॄंस्तर्पयामि
सर्वपितृगणांस्तर्पयामिसर्वपितृपत्नीस्तर्पयामि
सर्वपितृगणपत्नीस्तर्पयामिसर्वपितृपुत्रांस्तर्पयामि
सर्वपितृगणपुत्रांस्तर्पयामि

ऊर्जं वहन्तीरमृतं घृतं पय: कीलालं परिस्रुतम् ।

स्वधास्थ तर्पयत मे पितॄन् — तृप्यत — तृप्यत — तृप्यत ॥

उपवीती भूत्वा सकृदाचामेत् । इति ब्रह्मयज्ञः समाप्तः ।