अग्निचयनम्
प्रथमा कण्डिका
श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य द्वितीयां चितिं चिनोति
॥१॥ध्रुवक्षितिरिति पञ्चाश्विनीरुपदधाति
॥२॥सजूरृतुभिरिति पञ्चर्तव्या आश्विनीरनूपधाय
॥३॥प्राणं मे पाहीति पञ्च प्राणभृत ऋतव्या अनूपधाय
॥४॥अपस्पिन्वेति पञ्चापस्या अनुपरिहारम्
॥५॥वायोर्यान्यसीति द्वे संयान्यौ
॥६॥शुक्रश्च शुचिश्चेति द्वे ऋतव्ये समानतयादेवते
॥७॥त्र्यविर्वय इति पञ्च दक्षिणस्यां श्रोण्याम् । पष्ठवाड्वय इति पञ्चोत्तरस्याम् । बस्तो वय इति दक्षिणेऽंसे । वृष्णिर्वय इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्षे । सिंहो वय इत्युत्तरे । एतद्वा विपरीतम् । पुरुषो वय इति मध्ये । विष्टम्भो वय इति चतस्रो वयस्याः पुरस्तात्प्रतीचीः
॥८॥यं कामयेतापशुः स्यादिति वयस्यास्तस्येत्युक्तम्
॥९॥ऋषभादिश्चित्यन्तः
॥१०॥श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य तृतीयां चितिं चिनोति
॥११॥इन्द्राग्नी अव्यथमानामिति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति । भुव इति चैतया व्याहृत्या
॥१२॥चित्तिं जुहोमीति स्वयमातृणायां हुत्वा व्यनिति
॥१३॥ज्योतिरसि ज्योतिर्मे यच्छेति हिरण्येष्टकाम्
॥१४॥अधिद्यौरिति मण्डलेष्टकाम्
॥१५॥अत्र रेतःसिचो विवयसः
॥१६॥विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम्
॥१७॥अन्तरिक्षस्य यान्यसीति द्वे संयान्यौ
॥१८॥द्वितीया कण्डिका
नभश्च नभस्यश्चेति चतस्र ऋतव्याः । द्वेद्वे समानतयादेवते
॥१॥राज्ञ्यसि प्राची दिगिति पञ्च दिश्याः प्रतिदिशमेकां मध्ये
॥२॥आयुर्मे पाहीति दश प्राणभृतः पुरस्तादुपधाय
॥३॥षट्त्रिंशतं बृहतीः । मा छन्द इति द्वादश दक्षिणतः । पृथिवी छन्द इति द्वादश पश्चात् । अग्निर्देवतेति द्वादशोत्तरतः
॥४॥मूर्धासि राडिति सप्त वालखिल्याः पुरस्तात्प्रतीचीः । यन्त्री राडिति सप्त पश्चात्प्राचीः
॥५॥अक्ष्णया द्वेष्यस्य प्रसवाय त्वोपयामाय त्वा काटाय त्वार्णवाय त्वा धर्णसाय त्वा द्रविणाय त्वा सिन्धवे त्वा समुद्राय त्वा सरस्वते त्वा विश्वव्यचसे त्वा सुभूताय त्वान्तरिक्षाय त्वेति द्वादश भूतेष्टकाः
॥६॥ऋषभादिश्चित्यन्तः
॥७॥श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य चतुर्थीं चितिं चिनोति
॥८॥आशुस्त्रिवृदग्नेर्भागोऽसीत्येताभ्यामनुवाकाभ्यां यथाब्राह्मणमुपधायान्तरिक्षमस्यन्तरिक्षाय त्वेति द्वे संयान्यौ
॥९॥सहश्च सहस्यश्चेति द्वे ऋतव्ये समानतयादेवते
॥१०॥एकयास्तुवतेति सप्तदश सृष्टीः
॥११॥इयमेव सा या प्रथमा व्यौच्छदिति षोडश व्युष्टीः
॥१२॥ऋषभादिश्चित्यन्तः
॥१३॥तृतीया कण्डिका
श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चमीं चितिं चिनोति
॥१॥अग्ने जातान्प्र णुदा नः सपत्नानिति पुरस्तादुपदधाति । सहसा जातानिति पश्चात् । चतुश्चत्वारिंश स्तोम इति दक्षिणतः । षोडश स्तोम इत्युत्तरतः
॥२॥इष्टकायां पुरीषमध्यूह्य पृथिव्याः पुरीषमसीति मध्येऽग्नेः पुरीषवतीम्
॥३॥एवश्छन्दो वरिवश्छन्द इति चत्वारिंशतं विराजो दशदश प्रतिदिश मक्ष्णया
॥४॥रश्मिरसि क्षयाय त्वा क्षयं जिन्वेति स्तोमभागाः । सप्तसप्त प्रतिदिशम् । अवशिष्टा मध्ये
॥५॥राज्ञ्यसि प्राची दिगिति पञ्च नाकसदः प्रतिदिशमेकां मध्ये
॥६॥तासु पुरीषमध्यूह्यायं पुरो हरिकेश इति पञ्चचोडा अभ्युपदधाति । द्वेष्यं मनसा ध्यायन्पश्चात्प्राचीमुत्तमाम्
॥७॥आयोस्त्वा सदने सादयामीति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य परमेष्ठी त्वा सादयतु दिवः पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति । सुवरिति चैतया व्याहृत्या
॥८॥चित्तिं जुहोमीति स्वयमातृणायां हुत्वापान्य प्रोथदश्व इत्युत्तरेऽंसे विकर्णीम्
॥९॥तेनान्याभिरिष्टकाभिरभ्युपदधाति
॥१०॥चतुर्थी कण्डिका
सुवरसि सुवर्मे यच्छेति हिरण्येष्टकाम्
॥१॥द्यौरपराजितेति मण्डलेष्टकाम्
॥२॥अत्रैकां रेतःसिचं स्थविरस्य
॥३॥प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम्
॥४॥तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतयादेवते
॥५॥देवानां यान्यसि देवानां देवयान्यसीति द्वे संयान्यौ
॥६॥संयान्यावृतव्ये विश्वज्योतिषं रेतःसिचं हिरण्येष्टकां मण्डलेष्टकां विकर्णीं स्वयमातृणामित्येवमनुपूर्वा एके समामनन्ति
॥७॥आपराह्णिकीभ्यां प्रचर्यौदुम्बरीः समिधो घृते वासयति
॥८॥श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति
॥९॥अग्निर्मूर्धेति तिस्रो गायत्रीः पुरस्तादुपदधाति । एवमुत्तराणि त्रीणित्रीणि । त्रिष्टुभो दक्षिणतः । जगतीः पश्चात् । अनुष्टुभ उत्तरतः । बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दांसि यथावकाशम् । अतिच्छन्दसं मध्ये । द्विपदा अन्ततः
॥१०॥अन्यत्र साहस्रात्पशुकामस्य गोचितिं चिनोति
॥११॥सहस्रं पादमात्रीरिष्टकाः
॥१२॥ताः प्रथमायां चित्यां मध्यमायामुत्तमायां वोपदध्यात्
॥१३॥पञ्चमी कण्डिका
अग्ने गोभिर्न आ गहीत्यनुवाकेन प्रतिमन्त्रं पुनःपुनरभ्यासम्
॥१॥इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मीत्यष्टौ सयुजः
॥२॥रोहितेषु त्वा जीमूतेषु सादयाम्यरुणेषु त्वा कृष्णेषु त्वा नीलेषु त्वा सितेषु त्वा जीमूतेषु सादयामीति पञ्च जीमूताः
॥३॥अम्बा नामासीति सप्त कृत्तिकाः
॥४॥पुरोवातसनिरसीति पञ्च वृष्टिसनीरनुपरिहारम्
॥५॥सलिलाय त्वेत्यष्टावादित्येष्टकाः
॥६॥ऋचे त्वा रुचे त्वेति पञ्च घृतेष्टका अनुपरिहारम्
॥७॥आदित्येष्टकाभिघृतपिण्डान्व्यतिषक्तानिति वाजसनेयकम्
॥८॥यशोदां त्वेति पञ्च यशोदाः
॥९॥भूयस्कृदसीति पञ्च भूयस्कृतः
॥१०॥अप्सुषदसीति पञ्चाग्निरूपाणि
॥११॥पृथिव्यास्त्वा द्रविणे सादयामीति पञ्च द्रविणोदाः
॥१२॥प्राणं मे पाहीति षडायुष्याः
॥१३॥अग्ने यत्ते परं हृन्नामेत्यग्नेर्हृदयम्
॥१४॥यावा अयावा इति सप्तर्तव्याः
॥१५॥या देव्यसीष्टक आयुर्दा उपशीवरी । सा मामुपशेष्व जायेव पतिमित्सदा । या देव्यसीष्टके प्राणदा अपानदा व्यानदाश्चक्षुर्दा श्रोत्रदा वाग्दा आत्मदाः पृथिविदा अन्तरिक्षदा द्यौर्दा स्वर्दाः कुमारीदाः प्रफर्विदाः प्रथमौपशदा युवतिदा उपशीवरी । सा मामुपशेष्व जायेव पतिमित्सदेति षोडशोपशीवरीः
॥१६॥षष्ठी कण्डिका
अभीषाच्चाभिषवी चाभिवयाश्चोर्ध्ववयाश्च बृहद्वयाश्च सवयाश्च सह्वांश्च सहमानश्च सहस्वांश्च सहीयांश्चेति दशेन्द्रनामानि
॥१॥अग्निना विश्वाषाडिति द्वाविंशतिमिन्द्रतनूः
॥२॥प्रजापतिर्मनसान्धोऽच्छेत इति त्रयस्त्रिंशतं यज्ञतनूः
॥३॥ज्योतिष्मतीं त्वा सादयामीति द्वादश ज्योतिष्मतीः
॥४॥पूर्णा पश्चादिति पौर्णमासीं पुरस्तादुपधाय कृत्तिका नक्षत्रमिति नक्षत्रेष्टकाः पुरस्तात्प्रतीचीरसंस्पृष्टाः
॥५॥पूर्वामुपधायापरामपरामा विशाखाभ्याम्
॥६॥दक्षिणेन स्वयमातृणां रीतिं प्रतिपादयति
॥७॥यत्ते देवा अदधुरित्यमावास्यां पश्चादुपधायावशिष्टानां पूर्वांपूर्वामापभरणीभ्यः
॥८॥उत्तरेण स्वयमातृणां रीतिं प्रतिपादयति
॥९॥पौर्णमासीमन्ततः
॥१०॥ऋचे त्वा रुचे त्वेति सर्वासु नक्षत्रेष्टकाक्स्वनुषजति
॥११॥सप्तमी कण्डिका
हिरण्यगर्भः समवर्तताग्र इत्यष्टौ सरितः
॥१॥विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाः प्रतिदिशमेकां मध्ये
॥२॥प्राणाय त्वा चक्षुषे त्वेति चतस्रः स्वयमातृणाः प्रतिदिशम्
॥३॥अग्न आ याहि वीतये । अग्निं दूतं वृणीमहे । अग्निनाग्निः समिध्यते । अग्निर्वृत्राणि जङ्घनत् । अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्य द्रविणस्यव इति पञ्चाह्नां रूपाणि
॥४॥अथ व्रतमुपदधाति
॥५॥प्राच्या त्वा दिशा सादयामीति पञ्चात्मेष्टकाः प्रतिदिशमेकां मध्ये
॥६॥संयच्च प्रचेताश्चेति पञ्च वैश्वदेवीरात्मनि द्वेष्यं मनसा ध्यायन्
॥७॥कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता । कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु । अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिरिति वामदेव्यम्
॥८॥अष्टमी कण्डिका
दक्षिणत आत्मनि
॥१॥इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । ववक्षुरुग्रो अस्तृत इत्यथर्वशिरो दशातिषक्ताः
॥२॥पूर्वार्धे विद्यते शिरसो निरूहणम् । न विद्यत इत्यपरम्
॥३॥अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमिन्द्र तस्थुषः । ईशानमिन्द्र तस्थुषः । न त्वावाँ अन्यो दिव्यो न पार्थिवः । न जातो न जनिष्यते अश्वायन्तो मघवन्निन्द्र वाजिनः । गव्यन्तस्त्वा हवामह इति रथंतरं दक्षिणे पक्षेऽध्यात्मन्नपवर्गः
॥४॥प्रथमामुपधाय द्वितीयामथ विशयाम्
॥५॥अर्धमात्मन्यर्धं पक्षे
॥६॥त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः । त्वां काष्ठास्वर्वतः । स त्वं नश्चित्र वज्रहस्त धृष्णुया । महस्तवानो अद्रिवः । मह स्तवानो अद्रिवः । गामश्वं रथ्यमिन्द्र सं किर । सत्रा वाजं न जिग्युष इति बृहदुत्तरे पक्षे
॥७॥तस्य रथंतरवत्कल्पः
॥८॥नवमी कण्डिका
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियम् मित्रं न शंसिषम् । प्रियं मित्रं न शंसिषम् । ऊर्जो नपातं स हिनायमस्मयुः । दाशेम हव्यदातये । दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृधः । उत त्राता तनूनामिति यज्ञायज्ञियं पुच्छे
॥१॥तस्य रथंतरवत्कल्पः
॥२॥त्वामग्ने वृषभमित्यृषभमुपधाय संवत्सरस्य प्रतिमामिति प्राजापत्याम्
॥३॥शतायुधाय शतवीर्यायेति पञ्चाज्यानीः प्रतिदिशमेकां मध्ये
॥४॥इन्द्रस्य वज्रोऽसीति चतस्रो वज्रिणीः प्रतिदिशमश्मन इषुहस्त उपदधाति
॥५॥इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो न उपरिष्टादघायुरभिदासत्येतं सोऽश्मानमृच्छत्विति मध्ये पञ्चमीमेके समामनन्ति
॥६॥पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति तिस्रो लोकेष्टकाः
॥७॥अग्नये त्वा पवमानायाग्नये त्वा पावकायाग्नये त्वा शुचय इति तिस्रः पावमानीः
॥८॥दशमी कण्डिका
ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयाम्युद्गीथेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामीति सप्त च्छन्दस्याः
॥१॥अग्ने यशस्विन्निति चतस्रो राष्ट्रभृतः पुरस्तादुपधाय हिरण्येष्टकाभिः सर्वतो मुखमुपदधाति
॥२॥गायत्रीं पुरस्तादुपदधातीत्युक्तम्
॥३॥अथैकेषाम् । गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये । इत्येताभिः सर्वाभिः सर्वतो मुखमुपदधाति
॥४॥गायत्र्यादयो भवन्ति पङ्क्त्युदयनाः
॥५॥अग्निर्मूर्धा । भुवः । जनस्य गोपाः । त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति
॥६॥अग्न आ याहि वीतय इति चैताभिः सर्वतो मुखमुपदधाति
॥७॥लोकंपृणाभिरित्येके
॥८॥अत्र वा विकर्णीं स्वयमातृणां चोपदध्यात्
॥९॥लोकंपृणादिश्चित्यन्तः
॥१०॥अग्ने युक्ष्वा हि ये तव । युक्ष्वा हि देवहूतमानिति द्वाभ्यां संचितमग्निमभिमृश्य वसवस्त्वा रुद्रैः पुरस्तात्पान्त्वित्येतैर्यथालिङ्गं संचितमग्निमाज्येन प्रोक्षति । मध्य उत्तमेन प्राङ्मुखः
॥११॥एकादशी कण्डिका
सहस्रस्य प्रमा असीति सहस्रेण हिरण्यशल्कैरूर्ध्वस्तिष्ठन्प्रतिदिशमग्निं प्रोक्षति द्वाभ्यांद्वाभ्यां शताभ्याम् । मध्य उत्तमाभ्यां प्राङ्मुखः
॥१॥इमा मे अग्न इष्टका धेनवः सन्त्वितीष्टका धेनूर्यजमानः कुरुते
॥२॥ऐडिक्या चित्याध्वर्युरग्निमभिमृश्य शतरुद्रीयं जुहोति जर्तिलयवाग्वा गवीधुकयवाग्वा वा जर्तिलैर्गवीधुकसक्तुभिः कुसयसर्पिषाजाक्षीरेण मृगीक्षीरेण वार्कपर्णेनोदङ्तिष्ठन् । उत्तरस्य पक्षस्योत्तरापरस्यां स्रक्त्यां विकर्ण्यां स्वयमातृणायामनुपरिचारं वा
॥३॥नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रैधं विभज्यापि वा प्रथमादुपक्रम्य नमस्तक्षभ्य इति जानुदघ्ने धारयमाणो रथकारेभ्यश्च व इत्युपक्रम्य नमः स्वायुधायेति नभिदघ्ने शेषेण प्रागवतानेभ्य आस्यदघ्ने हुत्वा सहस्राणि सहस्रश इति दशावतानान्हुत्वान्वारोहाञ्जुहोति
॥४॥नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने धारयमाणो नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने हुत्वैतानेव यजमानं वाचयित्वैतानेव विपरीतान्प्रत्यवरीहान्हुत्वा संचरे पशूनामर्कपर्णमुदस्यति
॥५॥यं द्विष्यात्तस्य संचरे यस्य रुद्रः प्रजां पशून्वाभिमन्येतोदङ् परेत्य रुद्राञ्जपंश्चरेदित्ययज्ञसंयुक्तः कल्पः
॥६॥द्वादशी कण्डिका
यो रुद्रो अग्नाविति रौद्रं गावीधुकं चरुम्
॥१॥एतेन यजुषा यस्यामिष्टकायां शतरुद्रीयं जुहोति तस्यां प्रतिष्ठापयति
॥२॥तिसृधन्वमयाचितं यजमानो ब्राह्मणाय दत्त्वा यत्ते रुद्र पुरो धनुरित्येतैर्यथालिङ्गमुपतिष्ठते
॥३॥उदकुम्भमादायाध्वर्युरश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन्पर्येति
॥४॥निधाय कुम्भमश्मंस्ते क्षुदमुं ते शुगृच्छतु यं द्विष्म इति त्रिरपरिषिञ्चन्प्रतिपर्येति
॥५॥यद्यभिचरेदिदमहममुष्यामुष्यायणस्यायुः प्रक्षिणोमीति दक्षिणस्यामुत्तरस्यां वा स्रक्त्यां कुम्भं प्रक्षिणुयात्
॥६॥अवका वेतसशाखां मण्डूकं च दीर्घवंशे प्रबध्य समुद्रस्य त्वावाकयेति सप्तभिरष्टाभिर्वाग्निं विकर्षति
॥७॥विकर्षन्नेवानुगमयित्वा मण्डूकस्य प्राणान्सर्वान्संलोभ्योत्कर उदस्येति
॥८॥यं द्विष्यात्तमेतैरुपस्पृशेत्
॥९॥पृष्ठैरुपतिष्ठते । गायत्रेण पुरस्तात् । बृहद्रथंतराभ्यां पक्षौ । ऋतुस्थायज्ञायज्ञियेन पुच्छम् । दक्षिणस्यां श्रोण्यां वारवन्तीयेन । उत्तरस्यां वामदेव्येन
॥१०॥अपिपक्षे प्रजापतेः सामानृचं गायति
॥११॥पिता मातरिश्वेति संचितोक्थ्येन होतानुशंसति
॥१२॥होतर्यकामयमानेऽध्वर्युः स्तुतशस्त्रयोर्दोहे यजमानं वाचयति
॥१३॥स्तुतस्य स्तुतमसीत्यत्र प्रवर्ग्यमुद्वासयति
॥१४॥त्रयोदशी कण्डिका
जुह्वां पञ्चगृहीतं गृहीत्वा स्वयं कृण्वान इति द्वे
॥१॥अतिसर्गं ददतो मानवायर्जुं पन्थामनुपश्यमानाः । अजुषन्त मरुतो यज्ञमेतं वृष्टिं देवानाममृतं स्वर्विदम् । आवर्तमानो भुवनस्य मध्ये प्रजा विकुर्वञ्जनयन्विरूपाः । संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः पुरस्तात् । प्रजां ददातु परिवत्सरो नो धाता ददातु सुमनस्यमानः । बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभिसंविशन्त्विति पञ्चान्वारोहान्हुत्वापरं पञ्चगृहीतं गृहीत्वा कार्ष्णी उपानहावुपमुञ्चते । एकां वा
॥२॥चिते त्वेति दक्षिणाम् । अनुचिते त्वेत्युत्तराम्
॥३॥एवं यजमानः
॥४॥अपामिदं न्ययनम् । नमस्ते हरसे शोचिष इति द्वाभ्यामग्निमधिरोहति । पृथिवीमाक्रमिषमित्येतैर्यजमानः
॥५॥नृषदे वडिति पञ्चभिरुत्तरवेदिवदग्निं स्वयमातृणां वा व्याघार्य ये देवा देवानामिति द्वाभ्यामनुपरिचारं दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाग्निं व्यवोक्ष्य कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरुह्याग्निस्तिग्मेनेति द्वाभ्यामग्नये ऽनीकवत एकामाहुतिं हुत्वा
॥६॥चतुर्दशी कण्डिका
षोडशगृहीतेन स्रुचं पूरयित्वा वैश्वकर्मणानि जुहोति
॥१॥य इमा विश्वा भुवनानि जुह्वत् । चक्षुषः पिता मनसा हि धीर इति नानासूक्ताभ्यां द्वे आहुती
॥२॥यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्येत्युक्तम्
॥३॥यद्येनमुदके भीर्विन्देदुदकाञ्जलिमादाय समुद्राय वयुनायेत्यप्सु जुहुयादित्ययज्ञसंयुक्तः कल्पः
॥४॥उदेनमुत्तरां नयेत्यौदुम्बरीः समिधो घृतोषितास्तिसृभिस्तिस्र आधाय पशुबन्धवदग्निं प्रणयति
॥५॥उदु त्वा विश्वे देवा इत्यग्निमुद्यम्य पञ्च दिशो दैवीरिति पञ्चभिर्हरत्याग्नीध्रात्
॥६॥आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनान्वेति । मैत्रावरुणः प्रतिप्रस्थाता वा
॥७॥यं कामयेत राष्ट्रं स्यादिति तमेतेन संनह्यान्वियात् । संग्रामे संयत्ते होतव्यम् । तैजनो मान्धुको वेध्मो भवतीत्ययज्ञसंयुक्तः कल्पः
॥८॥विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीध्रेऽश्मानं निधायेन्द्रं विश्वा अवीवृधन्निति चतसृभिरा पुच्छाद्गत्वा
॥९॥पञ्चदशी कण्डिका
प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य नक्तोषासाग्ने सहस्राक्षेति द्वाभ्यां संहिताभ्यां दध्नः पूर्णामौदुम्बरीं स्वयमातृणायां जुहोति
॥१॥नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति
॥२॥पयसा व्याघारयतीत्येके
॥३॥ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञाय पाशुकान्संभारान्न्युप्य सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयमातृणायामग्निं प्रतिष्ठाप्य प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति
॥४॥दिधेम ते परमे जन्मन्नग्न इति वैकङ्कतीम्
॥५॥तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम्
॥६॥चित्तिं जुहोमि । अग्ने तमद्याश्वमिति द्वे आहुती हुत्वा द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति
॥७॥तां जुह्वदिह सोऽस्त्विति दिग्भ्योऽग्निं मनसा ध्यायति
॥८॥षोडशी कण्डिका
आ वेदिप्रोक्षात्कृत्वा वैश्वानरस्य तन्त्रं प्रक्रमयति
॥१॥वेदं कृत्वाग्निं परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते
॥२॥यथार्थं पात्रयोगः
॥३॥निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्सप्तकपालान्निर्वपति
॥४॥तूष्णीमुपचरिता भवन्ति
॥५॥संप्रैषकाले पत्नीवर्जं संप्रेष्यति
॥६॥आज्यग्रहनकाले ध्रुवायामेव गृह्णाति
॥७॥प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते
॥८॥स्तरणकालेऽपरेणाग्निं बर्हिः स्तीर्त्वा ध्रुवां स्रुवं च सादयति
॥९॥एतावसदतामिति मन्त्रं संनमति
॥१०॥वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते
॥११॥न संप्रेष्यति न संमार्ष्टि न प्रयाजान्यजति
॥१२॥आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य कृत्स्नं वैश्वानरमवदाय द्विरभिघार्योच्चैर्वैश्वानरस्याश्रावयति
॥१३॥उपांशु मारुतान्सर्वहुताञ्जुहोति
॥१४॥ईदृङ् चान्यादृङ् चेति सप्तभिर्गुणैरासीनो हस्तेन गणेन गणमनुद्रुत्य मारुताञ्जुहोति
॥१५॥मध्येऽरण्येऽनुवाक्येन गणेनगणेन जुहोतीत्येके
॥१६॥मारुतैः सर्वतो वैश्वानरं परिचिनोतीत्येके
॥१७॥स्वतवांश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्येष षष्ठ आम्नातः
॥१८॥मितासश्च संमितासश्च न इति सर्वत्रानुषजति
॥१९॥सप्तदशी कण्डिका
यदि कामयेत क्षत्रं विश ओजीयः स्यादिति ग्रामेऽनुवाक्यस्य त्रीणि चत्वारि वा पदान्यनुद्रुत्यारण्येऽनुवाक्यमनुद्रुत्य ग्रामेऽनुवाक्यस्य शेषेण जुहुयात्
॥१॥एवमादितस्त्रिभिर्गणैर्हुत्वारण्येऽनुवाक्येन जुहुयात्
॥२॥यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः
॥३॥यदि कामयेत विट् क्षत्रादोजीयसी स्यादिति यथासमाम्नातमादितस्त्रिभिर्गणैर्हुत्वारण्येऽनुवाक्यस्य षट्सु पदान्तरालेषु षद्गणानोप्यारण्ये ऽनुवाक्येन जुहुयात्
॥४॥यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः
॥५॥न संप्रेष्यति न संमार्ष्टि नानूयाजान्यजति
॥६॥यं कामयेत क्षत्रेणास्य क्षत्रं हन्यात्प्र स्वादायतनाच्च्यवेतेति तस्यारण्येऽनुवाक्येनाग्निष्ठं रथवाहनं वा व्यङ्गयेदित्ययज्ञसंयुक्तः कल्पः
॥७॥अग्नाविष्णू सजोषसेति चतुर्गृहीतं हुत्वौदुम्बरीं स्रुचं व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवतीं घृतस्य पूरयित्वा वाजश्च मे प्रसवश्च म इति संततां वसोर्धारां जुहोत्या मन्त्रसमापनात्
॥८॥यं कामयेत प्राणानस्यान्नाद्यं वि छिन्द्यामिति विग्राहं तस्येत्युक्तम्
॥९॥यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् । चतुःशरावं वौदनं पक्त्वा तद्व्यञ्जनं भोजयेत्
॥१०॥प्राशितवद्भ्यश्चतस्रो धेनूर्दद्यात्
॥११॥समुद्रादूर्मिरिति तिस्रः
॥१२॥अष्टादशी कण्डिका
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः । एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् । सम्यक् स्र्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः । एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः । सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः । अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः । कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते । अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते । धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि । अपामनीके समिथे य आघृतस्तमश्याम मधुमन्तं त ऊर्मिमिति हुतां हूयमानां वा यजमानोऽनुमन्त्रयते
॥१॥एकोनविंशी कण्डिका
वाजप्रसवीयं जुहोति
॥१॥सप्त ग्राम्या ओषधयः सप्तारण्याः
॥२॥पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्या हुत्वारण्या जुहोति
॥३॥हुत्वाहुत्वा पात्र्यां संपातमवनयति
॥४॥दक्षिणं प्रत्यपिपक्षमौदुम्बरीमासन्दीं प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानमग्निमन्वारब्धं संपातैरभिषिञ्चति
॥५॥व्याघ्रचर्मणि राजन्यम् । बस्ताजिने वैश्यम् । कृष्णाजिने ब्रह्मवर्चसकामम्
॥६॥बस्ताजिने पुष्टिकाममित्येके
॥७॥देवस्य त्वेत्यनुद्रुत्याग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ब्राह्मणम् । इन्द्रस्येति राजन्यम् । बृहस्पतेरिति वैश्यम्
॥८॥राजन्यवैश्ययोर्मन्त्रविपर्यासमेके समामनन्ति
॥९॥प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठञ्शीर्षतोऽभिषिच्या मुखादन्ववस्रावयति
॥१०॥तदाहुर्होतव्यमेव नहि सुषुवाणः कम्चन प्रत्यवरोहतीति
॥११॥नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा हुत्वा षड्भिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोति
॥१२॥विंशी कण्डिका
ऋताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमामाहुतिं जुहोति । ताभ्यः स्वाहेत्युत्तराम्
॥१॥एवमितरान्पर्यायान्विभजति
॥२॥भुवनस्य पत इति पर्यायाणां सप्तम्याहुतीनां त्रयोदशी
॥३॥एतेन व्याख्यातम्
॥४॥भुवनस्य पत इति रथमुखे पञ्चाहुतीर्जुहोति । दश वा
॥५॥उपर्याहवनीये रथशिरो धार्यमाणमभिजुहोतीत्येके
॥६॥अभिहुतमुद्यम्याध्वर्योरावसथं हरन्ति
॥७॥अनुनयन्ति त्रीनश्वान् । चतुरो वा
॥८॥तान्सरथानध्वर्यवे ददाति
॥९॥वडबा इत्येकेषाम् । वडबे इत्येकेषाम्
॥१०॥समुद्रोऽसि नभस्वानित्यञ्जलिना त्रीणि वातनामानि जुहोति
॥११॥नह्येतस्यावदानमस्तीति विज्ञायते
॥१२॥कृष्णाजिनपुटेन वातं जुहोतीत्येके
॥१३॥अग्न उदधे या त इषुर्युवा नामेति पञ्चाज्याहुतीर्हुत्वा समीची नामासि प्राची दिगिति दध्ना मधुमिश्रेण षट् सर्पाहुतीरनुपरिचारम्
॥१४॥हेतयो नाम स्थेति षण्महाहुतीर्यथा सर्पाहुतीः
॥१५॥सुवर्न घर्म स्वाहेति पञ्चार्काहुतीः
॥१६॥यास्ते अग्ने सूर्ये रुच इति तिस्रो रुचः
॥१७॥वेद्यास्तरणादि सौमिकं कर्म प्रतिपद्यते
॥१८॥यत्प्राग्धिष्णियनिवपनात्तत्कृत्वा
॥१९॥एकविंशी कण्डिका
ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियांश्चिनोति
॥१॥अश्मनवमा आग्नीध्रीय उपदधाति
॥२॥द्वादश षोडशैकविंशतिं चतुर्विंशतिं वा होत्रीये । एकादश ब्राह्मणाच्छंसीये । षण्मार्जालीये
॥३॥अष्टावष्टावन्येषु धिष्णियेषूपदधातीति विज्ञायते
॥४॥चतुरश्राः परिमण्डला वा धिष्णियाः
॥५॥तेषां यावत्य इष्टकास्तावतीः शर्कराः परिश्रिताः
॥६॥तव श्रिये व्यजिहीति पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः । इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् । बृहस्पते अति यदर्यो अर्हात् । बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः । अपः सिषासन्त्सुवरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैरिति तिस्रो ब्रह्मसदने
॥७॥यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्तस्थे यत्प्राणद्वायुरक्षितम् । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः । यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते । त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप् छन्दांसि सर्वा ता यम आहितेति तिस्रो मार्जालीये
॥८॥द्वाविंशी कण्डिका
मृडा नो रुद्रेति नो मयस्कृधि । अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहुवाम ते हविः । त्वेषं वयं रुद्रं यज्ञसाधनं वङ्कुं कविमवसे नि ह्वयामहे । आरे अस्मदमतिं हेडो अस्यतु सुमतिमिद्वयमस्या वृणीमह इति तिस्रश्चात्वाले
॥१॥हव्यं प्रीणीहि हव्यं श्रीणीहि हव्यं पच हव्यं श्रपय हव्यमसि हव्याय त्वा हव्येभ्यस्त्वा हव्ये सीदेत्यष्टौ शामित्रे
॥२॥अव ते हेङः । उदुत्तमम् । तत्त्वा यामीति तिस्रोऽवभृथे
॥३॥तासु घ्रचरन्ति
॥४॥खण्डाः कृष्णा लक्ष्मणाश्चोत्कर उदस्यति
॥५॥अवशिष्टाश्च भित्त्वा यत्प्राग्यूपसंमानात्तत्कृत्वैकयूपमेकादश वा यूपान्संमिनोति
॥६॥तेषां पूर्वेद्युरग्निष्ठम् । अत्रैवेतरान् । श्वो वा
॥७॥एकयूपे वैकादशिनानुपाकरोति
॥८॥अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां हवींष्यनुनिर्वपति
॥९॥समानं तु स्विष्टकृदिडम्
॥१०॥त्रयोविंशी कण्डिका
पुरस्तात्प्रातरनुवाकादग्निं युनज्मीति तिसृभिरभिमृशन्नग्निं युनक्ति
॥१॥यद्येनं पूर्वो भ्रातृव्योऽभीव स्यादष्टौ गायत्रीः पुरस्ताद्वहिष्पवमानादुपदध्यात् । एकादश त्रिष्टुभः पुरस्तान्माध्यंदिनात् । द्वादश जगतीः पुरस्तादार्भवात्
॥२॥यदि वापर एतद्विपरीतम् । उपरिष्टात्पवमानेभ्य उपधीयन्ते
॥३॥पशुकाल आग्नेयं सवनीयं पशुमुपाकरोति । एकादशिनान्वा
॥४॥दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्याश्वेनावघ्राप्य ब्रह्मणे ददाति
॥५॥अध्वर्यवे कल्याणीर्दक्षिणा ददाति
॥६॥यद्यस्याग्निं चिनोति यज्ञायज्ञीयस्य स्तोत्र एकयाप्रस्तुतं भवति
॥७॥अथ नमस्ते अस्तु मा मा हिंसीरिति द्वाभ्यामग्निमभिमृश्यैकादश समिष्टयजूंषि जुहोति
॥८॥नवाध्वरिकाणि हुत्वेष्टो यज्ञो भृगुभिरिति दशमैकादशे जुहोति
॥९॥अनूबन्ध्यावपायां हुतायामौदुम्बरीं स्रुचं घृतस्य पूरयित्वेमं स्तनमूर्जस्वन्तं धयापामित्यग्नेर्विमोकं जुहोति
॥१०॥हुते सक्तुहोमे यदाकूतादिति दशाकूतीर्हुत्वा प्रत्यवरुह्य पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोऽन्तस्तिष्ठत्वमृतस्य गोपा इत्युपतिष्ठते
॥११॥येऽग्नयः पुरीष्या इति प्रयास्यन्नाप्तिभिरग्निं यजमान उपतिष्ठते
॥१२॥चतुर्विंशी कण्डिका
उप त्वाग्ने दिवेदिव इति तिसृभिरन्येषामग्नीन् दृष्ट्वाग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या चामिक्षया
॥१॥संवत्सरं न कंचन प्रत्यवरोहेन्न च रामामुपेयात् । न पक्षिणोऽश्नीयात्
॥२॥यावज्जीवं च मस्तिष्कस्य नाश्नीयान्न च वर्षति धावेत्
॥३॥यदि धावेदुपावर्तेत
॥४॥न द्वितीयं चित्वान्यस्य स्त्रियमुपेयात् । न तृतीयं चित्वा कांचन । भार्यां वोपेयात्
॥५॥अग्निं चित्वैतस्मिन्संवत्सरे यो नर्ध्नुयात्स क्रतुमाहरमाण एकचितीकं चिन्वीत
॥६॥सलिलाय त्वेत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् । यथार्थं लोकंपृणा अथ पुरीषम्
॥७॥अथ यो न प्रतितिष्ठेत्स क्रतुमाहरमाण एकचितीकमेव चिन्वीत
॥८॥संयच्च प्रवेताश्चेति पञ्च नानामन्त्रा उत्तरवेद्यामुपदध्यात् । यथार्थं लोकंपृणा अथ पुरीषम्
॥९॥विपरीतौ कामावेके समामनन्ति
॥१०॥पुनश्चितिस्त्रिष्वर्थेषु श्रूयते । श्रवणार्थे समृद्ध्यर्थे संतानार्थे वा
॥११॥श्रवणार्थां व्याख्यास्यामः
॥१२॥यदीष्ट्या यदि पशुना यदि सोमेन यजेति यो ऽस्य पुराग्निस्तमन्ववसाय यजेत
॥१३॥अपि वा येनर्षय इत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् । यथार्थं लोकंपृणा अथ पुरीषम्
॥१४॥पञ्चविंशी कण्डिका
अपि वोत्तरवेद्यामुपर्यग्रौ धार्यमाणे प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृशेत्
॥१॥अपि वा तिस्रः स्वयमातृणाः
॥२॥तासामुपधानकल्पः
॥३॥स्वयमातृणा सामपुरीषम् । एवं विहिता द्वितीया । अपुरीषा तृतीया
॥४॥अपि वा तिस्रः स्वयमातृणास्तिस्रश्च विश्वज्योतिषः
॥५॥तासामुपधानकल्पः
॥६॥स्वयमातृणा सामपुरीषमथ विश्वज्योतिः । एवं विहिता द्वितीया । तृतीयस्यां तु विश्वज्योतिः प्रथमाथ स्वयमातृणाथ सामपुरीषम्
॥७॥अपि वाष्टौ लोकंपृणाः पुरीषम् । एकादश लोकंपृणाः पुरीषम् । द्वादश लोकंपृणाः पुरीषम्
॥८॥अग्निं चित्वा यः सोमेन यजेत स एता एकत्रिंशतं लोकंपृणा उत्तरवेद्यामुपधाय यजेत
॥९॥समृद्ध्यर्थायां तु द्वितीयं चिन्वानो द्वितीयस्यां चितौ येनर्षय इत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् अष्टौ च लोकंपृणा अथ पुरीषम्
॥१०॥श्वो भूत एताश्चैव नानामन्त्रा एकादश च लोकंपृणा अथ पुरीषम्
॥११॥श्वो भूत एताश्चैव नानामन्त्रा द्वादश च लोकंपृणा अथ पुरीषम्
॥१२॥संतानार्थायां तु तृतीयं चिन्वानस्तृतीयस्यां चितौ येनर्षय इत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् यथार्थं लोकंपृणा अथ पुरीषम्
॥१३॥षड्विंशी कण्डिका
अथो खल्वाहुर्न चेतव्येति । रुद्रो वा एष यदग्निरित्युक्तम्
॥१॥छन्दश्चितमिति काम्याः । ते शुल्बेष्वनुक्रान्ताः
॥२॥तापश्चितेऽग्नौ संवत्सरं दीक्षाः । संवत्सरमुपसदः
॥३॥पुरस्तादुपसदामाग्नेयमष्टाकपालमिति पञ्च चतुरश्चतुरो मासानेकैकेनोपसन्मन्त्रेण जुहोति
॥४॥अनूपसदमग्निं चिनोति
॥५॥द्वौद्वौ मासावेकैका चितिः । चतुर उत्तमा
॥६॥चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्रींस्त्रीन्मासान्व्रतानि
॥७॥ऋषीणामाग्नेयेन संवत्सरमुपधान आस्ते
॥८॥विज्ञायत एतद्वा ऋषीणामाग्नेयं यद्याज्ञसेनी चितिरिति
॥९॥यानि वा दशतयीष्वाग्नेयानि सूक्तानि स्युस्तैरुपदध्यात्
॥१०॥सूक्तपरिमाणा नानामन्त्रा इष्टकाः । यथार्थं लोकंपृणा अथ पुरीषम्
॥११॥तृतीये संवत्सरेऽभिजिता विश्वजिता वा यजेत
॥१२॥सर्ववेदसं ददाति
॥१३॥उदवसाय रोहिणीं वत्सच्छवीं सकर्णपुच्छावच्छातां सखुरां सखुरिकां वा बहिर्लोमः परिधायोष्णीषेण प्रदक्षिणं शिरो वेष्टयित्वौदुम्बरं चमसमादत्ते । औदुम्बरीं चाभ्रीं वैणवीं वा कल्माषीं पूर्ववत्प्रमाणाम्
॥१४॥अरण्यौदुम्बरे तिस्रो रात्रीर्वसतो मूलफलभक्षौ । खनित्रेण वा जिवतः । मूलं म्परिखायैतस्मिन्पात्रेऽवधायान्योऽन्यमप्याददतः ह्पत्नी यजमानश्च
॥१५॥न मृन्मयेन पिबतः
॥१६॥समूहकेन खनातकेन वा यजमानो भक्षमिच्छेत । उपवीक्षायेणोपविकृन्तेन वा पत्नीत्येके
॥१७॥निषादे तिस्रो रात्रीर्वसतः । वैश्ये तिस्रः । राजन्ये तिस्रः । ब्राह्मणे वा तिस्रस्तिस्रः
॥१८॥संवत्सरं न याचेत् । न च दीयमानं प्रत्याचक्षीत
॥१९॥न चेत्संवत्सरं द्वादशाहं द्वादशाहम्
॥२०॥