एकाहाः, अहीनाः
प्रथमा कण्डिका
एकाहेष्वहीनेष्विति प्राकृतीर्दक्षिणा ददाति । यथासमाम्नातं वा
॥१॥सर्वक्रतूनां प्रकृतिरग्निष्टोमः । निकायिनां तु प्रथमः सर्वत्र । यथादिष्टं वा
॥२॥ज्योतिर्गौरायुरिति त्रिकद्रुकाः
॥३॥प्रथमोऽग्निष्टोम उक्थ्या वा सर्वे
॥४॥ज्योतिषि सहस्रं ददातीति । श्यैतनियमाद्बृहत्पृष्ठः
॥५॥गौर्भ्रातृव्यवतः । आयुः स्वर्गकामस्य । अग्निष्टोमस्तु भ्रातृव्यवतः । विश्वजिदग्निष्टोमः श्रैष्ट्यकामस्य
॥६॥सहस्रं दक्षिणा सर्ववेदसं वा यावतीर्वा क्रतोः स्तोत्रीयाः
॥७॥सर्ववेदसे ज्येष्ठं पुत्रमपभज्य संविदो विपरियाचेत
॥८॥यद्दक्षिणाकाले सर्वस्वं तद्दद्याद्यदन्यद्भूमेः पुरुषेभ्यश्च
॥९॥उत्तमां दक्षिणां नीत्वोदवसाय वा दक्षिणेनौदुम्बरीं प्राङ्निषद्य ब्रूयाद्यन्मेऽद ऋणं यददस्तत्सर्वं ददामीति
॥१०॥उदवसाय रोहिणीं वत्सच्छवीमिति समानम्
॥११॥इन्द्रस्याभिजिदग्निष्टोमो ऽनभिजितस्याभिजित्यै
॥१२॥उभे बृहद्रथंतरे भवतः परोऽक्षपृष्ठो वा
॥१३॥बृहत्तु होतुः पशवश्चैकादशैकयूपे
॥१४॥सहस्रं दक्षिणा वराणां वा द्वादशं शतम्
॥१५॥सर्वजिताग्निष्टोमेन सर्वमाप्नोति सर्वं जयति
॥१६॥द्वितीया कण्डिका
अन्नादश्च भवति
॥१॥तस्य महाव्रतं पृष्ट्यमर्क्यं शस्यते
॥२॥सहस्रं दक्षिणा विंशतिर्वाष्टाविंशतीनाम्
॥३॥चत्वारः साहस्राः
॥४॥ज्योतिरग्निष्टोमो रथंतरसामा प्रथमः । प्राणेष्वन्नाद्ये च प्रतितिष्ठति । गौरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठति । सर्वज्योतिरग्निष्टोम उभयसामा तृतीयः । सर्वमाप्नोति सर्वं जयति । त्रिरात्रसंमितोऽग्निष्टोमो बृहत्सामा चतुर्थः । त्रिरात्रस्य फलमाप्नोति
॥५॥चत्वारः साद्यस्क्राः
॥६॥तेषां विशेषः
॥७॥रथंतरसामा बृहत्सामोभयसामा वा प्रथमः
॥८॥तस्मिन्कामाः स्पर्धायां भ्रातृव्यतिस्तीर्षा स्वर्गः पशवो वा
॥९॥तेषां पूर्वेद्युराग्नेयः सौम्यो बार्हस्पत्यश्च पशवः
॥१०॥तेषामेकादशिन्यां रूपाणि
॥११॥तदलाभ एतासां देवतानामष्टाकपालः प्रथमश्चरू चेतरौ
॥१२॥धारयत्याहवनीयम्
॥१३॥व्याघारयत्युत्तरवेदिम्
॥१४॥सर्पिष्मदशनम्
॥१५॥हिरण्यं मुखे न्यस्यान्तरोरू प्रियायै भार्यायै ब्रह्मचारी शेते श्व इष्ट्या पशुना वा यक्ष्य इति
॥१६॥ऋत्विजः समोढाः
॥१७॥तान्यथालोकं विनिधाय सर्वा दिशः सक्षीरदृतयोऽश्वरथाः सोमप्रवाका विधावन्ति
॥१८॥तेभ्यो यन्नवनीतमुदियात्तदाज्येऽवनयेत्
॥१९॥चतुर्युजा योजने प्राच्यां दिशि । त्रियुजोत्तरतस्त्रिक्रोशे । द्वियुजा पश्चाद्द्विक्रोशे । दक्षिणैकयुक्तेन क्रोशे
॥२०॥अश्वतरीरथो वैकः
॥२१॥प्रदक्षिणं पूर्वेणोत्सर्गः
॥२२॥योजनादीनि वाद्विक्रोशानि
॥२३॥अश्वरथेन दक्षिणोत्सर्गः
॥२४॥त्रिवत्सः साण्डः सोमक्रयणः
॥२५॥तृतीया कण्डिका
उदित आदित्ये दीक्षिते प्रागस्तमयादवभृथः
॥१॥उपसत्सु त्रिः संमीलेत् । संमील्य वा प्रचरेत् । अपि वा नापराह्णिक्य उपसदः
॥२॥यवोर्वरा वेदिः
॥३॥यवानां खल उत्तरवेदिः
॥४॥आरोहणे हविर्धाने
॥५॥विमितं सदः
॥६॥स्फ्यो यूपः स्फ्याग्रो वा खलेवाली लाङ्गलेषा वा
॥७॥कलापि चषालम्
॥८॥अग्नीषोमीयकाल ईजानस्य गृहाद्वसतीवरीर्गृह्णीयात्
॥९॥सवनीयकाले सह पशूनालभतेऽग्नीषोमीयं सवनीयमनूबन्ध्यां च
॥१०॥अग्नीषोमीयस्य स्थाने ऽग्नीषोमीय एकादशकपालः । अनूबन्ध्यास्थाने मैत्रावरुण्यामिक्षा
॥११॥तस्या दक्षिणाकाले सदश्वः श्वेतो दक्षिणा
॥१२॥तमाङ्गिरसाय भ्रातृव्याय वा दद्यात्
॥१३॥द्वेष्यं वा ब्राह्मणं वृत्वा तस्मा अश्वं रुक्मप्रतिमुक्तं दद्यात्
॥१४॥तदलाभे गौः श्वेतः
॥१५॥संवत्सरमुपरिष्टात्पादावनेजनं मांसं स्त्रियमनृतमुपरिशय्यामाञ्जनाभ्यञ्जने च वर्जयेत्
॥१६॥सा दीक्षा
॥१७॥यदि संवत्सरं न शक्नुयाद्द्वादशाहम्
॥१८॥चतुर्थी कण्डिका
एतेनोत्तरे व्याख्याताः
॥१॥द्वितीयस्य पञ्चदशमग्निष्टोमसाम कृत्वामयाविनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत्
॥२॥हीनानुजावरोऽनुक्रिया
॥३॥तस्याष्टादशावुत्तरौ पवमानौ
॥४॥अश्वसादः सोमप्रवाको दधिदृतिश्च त्रिक्रोशेऽन्ततः प्राह
॥५॥स्त्रीगौः सोमक्रयणी
॥६॥प्रक्ष्णुताग्रो यूपः
॥७॥व्रीह्युर्वरा वेदिः
॥८॥व्रीहीणां खल उत्तरवेदिः
॥९॥भारद्वाजो होता
॥१०॥विश्वजिच्छिल्पश्चतुर्थः सर्वपृष्ठः सर्वस्तोमः सर्ववेदसदक्षिणः
॥११॥सर्वस्यान्नाद्यस्य प्रसवं गच्छति
॥१२॥श्येनेनाभिचरन्यजेत
॥१३॥रथौ हविर्धाने
॥१४॥तैल्वको बाधको वा स्फ्याग्रो यूपः
॥१५॥शवनभ्ये अधिषवणफलके भवतः
॥१६॥अग्नये रुद्रवते लोहितः पशुः
॥१७॥सादयन्त्युपांश्वन्तर्यामौ
॥१८॥शरमयं बर्हिः
॥१९॥औद्धवः प्रस्तरः
॥२०॥वैभीतक इध्मः
॥२१॥बाणवन्तः परिधयः
॥२२॥लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति
॥२३॥नवनव दक्षिणाः कूटाः कर्णाः काणाः खण्डा बण्डाः
॥२४॥ता दक्षिणाकाले कण्टकैर्वितुदेयुः
॥२५॥इच्छन्हन्येतेति रथंतरं पवमाने कुर्याद्बृहत्पृष्ठम् । जीयेतेत्येतद्विपरीतम्
॥२६॥परां परावतं गच्छेन्न प्रतितिष्ठेदिति पूर्ववत्प्लवं च ब्रह्मसाम कुर्यात्
॥२७॥प्रजापतेरेकत्रिकोऽग्निष्टोमः सर्वस्य पाप्मनो निर्दिश्य गच्छति
॥२८॥चतुर्विंशतिं गा दक्षिणा ददाति
॥२९॥पञ्चमी कण्डिका
त्रयो वाचः स्तोमाः
॥१॥पूर्वावग्निष्टोमौ रथंतरसामानौ । सर्वस्तोमोऽतिरात्र उत्तरः
॥२॥तस्मिन्सर्वा ऋचः सर्वाणि सामानि सर्वाणि यजूंषि प्रयुज्यन्ते
॥३॥व्रात्यानां प्रवासे व्रात्यस्तोमा उक्थ्या रथंतरसामानः । द्वितीयो वाग्निष्टोमः
॥४॥उष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णोऽश्वोऽश्वतरश्च युग्यौ कृष्णशं वासः कृष्णबलक्षे अजिने रजतो निष्कः
॥५॥तद्गृहपतेः
॥६॥बलूकान्तानि दामतूषाणीतरेषाम्
॥७॥द्वे द्वे दामनी भवतः । द्वे द्वे उपानहौ
॥८॥द्विषंहितान्यजिनानि
॥९॥त्रयस्त्रिंशतात्रयस्त्रिंशता गृहपतिमभि समायन्ति
॥१०॥ता दक्षिणा भवन्ति
॥११॥अपि वा षट्षष्टिं गा वन्वीरन्
॥१२॥अथो खल्वाहुर्यदेवैषां सातं स्यात्तद्दद्युस्तद्धि व्रात्यधनमिति
॥१३॥षट्षोडशी निन्दितानाम् । द्विषोडशी कनिष्ठानाम् । ऊर्ध्वस्तोमो ज्येष्ठानाम् । चतुःषोडशी सर्वेषाम्
॥१४॥आदित्यानां प्रयतिरुक्थ्यो नाकसदां प्रथमः
॥१५॥व्यावृत्तिं पाप्मना भ्रातृव्येण गच्छन्ति
॥१६॥अग्निष्टोमा इतरे । अङ्गिरसां द्वितीयः । साध्यानां तृतीयः । मरुतां चतुर्थेनौजो वीर्यमाप्नोति । त्रयस्त्रिंशः पञ्चमः
॥१७॥स्वर्गकामोऽभिभुवा भ्रातृव्यमभिभवति । विनुत्त्या भ्रातृव्यं विनुदते
॥१८॥षष्ठी कण्डिका
चितिस्तोमः प्रजननकामः
॥१॥गायत्रेणाग्निष्टोमेन रथंतरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः
॥२॥गायत्रावग्निष्टोमौ प्रथमयज्ञौ
॥३॥प्रथमेन ब्राह्मणस्य तेजो ब्रह्मवर्चसम् । द्वितीयेन क्षत्रियस्य राष्ट्रमुग्रमव्यथ्यम् । न तु बहुपशू इव भवतः
॥४॥त्रिवृताग्निष्टुताग्निष्टोमेनापूतो यजेत
॥५॥आग्नेय्यः पुरोरुचः । आग्नेयी सुब्रह्मण्या
॥६॥आग्नेयीषु स्तुवतेऽजा हिरण्यं च दक्षिणा
॥७॥एतमेव चतुष्टोमं कृत्वा श्रोत्रियोऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत
॥८॥अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः
॥९॥एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वामयाक्विनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत् । एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम् । एतमेव चतुष्टोमं कृत्वा ग्रामकामम्
॥१०॥अप्रवर्ग्या भवन्तीत्येके
॥११॥त्रिवृतान्नाद्यकामः
॥१२॥पञ्चदशेन वीर्यकामः
॥१३॥सप्तदशेनाग्निष्टुताग्निष्टोमेन यज्ञविभ्रष्टो यजेत यस्मिन्वा क्रतौ विभ्रंशेत
॥१४॥त्रिवृदवाद्यं वदतः
॥१५॥पञ्चदशो निहत्यस्य निरुक्तः
॥१६॥सप्तदशोऽनाश्यान्नस्य भोजने
॥१७॥एकविंशो जनं यतो गन्धारिकलिङ्गमगधान्पारस्करान्सौवीरान्वा
॥१८॥त्रिणव ओजस्कामः
॥१९॥त्रयस्त्रिंशः स्वर्गकामः । अपि वा ज्योतिष्टोम एव
॥२०॥अग्निष्टोमे सर्वान्कामान्कामयेत
॥२१॥सप्तमी कण्डिका
चत्वारस्त्रिवृतोऽग्निष्टोमा रथंत्रसामानः
॥१॥तेषां प्रथमेनानिरुक्तेन ग्रामकामो यजेत
॥२॥निरुक्तं प्रातःसवनमित्येके
॥३॥अश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः
॥४॥बृहस्पतिसवो द्वितीयः
॥५॥ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत यं वा स्थापत्यायाभिषिञ्चेयुः
॥६॥परिस्रजी होता भवत्यरुणो मिर्मिरस्त्रिशुक्रः
॥७॥बृहस्पते जुषस्व न इति बार्हस्पत्यमतिग्राह्यं गृह्णाति
॥८॥बार्हस्पत्यः पशुरुपालम्भ्यः
॥९॥प्रातःसवने सन्नेषु नाराशंसेष्वेकादश दक्षिणा व्यादिशति
॥१०॥आज्येन माध्यंदिने सवने कृष्णाजिन आसीनमभिषिञ्चति शुक्रामन्थिवोर्वा संस्रावेण बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा न इति
॥११॥अश्वद्वादशा माध्यं दिने । एकादश तृतीयसवने
॥१२॥ता उभयीरपाकरोति
॥१३॥अपि वाष्टौ प्रातः सवन एकादश माध्यंदिने द्वादश तृतीयसवने । सर्वा वा माध्यंदिने
॥१४॥अश्वं तृतीयशोऽनुसवनं नयन्ति
॥१५॥अपि वा मनसेतरयोः सवनयोर्ध्यायेत् । न वा मनसा चन
॥१६॥तृतीयस्येषुं विष्टुतिं कृत्वाभिचरन्यजेत
॥१७॥समानमितरच्छ्येनेन
॥१८॥अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः
॥१९॥चतुर्थः सर्वस्वारः शुनस्कर्णस्तोमः
॥२०॥मरणकामो यजेत यः कामयेतानामयता स्वर्गं लोकमियामिति
॥२१॥याम्यः पशुः शुकहरित उपालम्भ्यः
॥२२॥कृतान्नं दक्षिणा
॥२३॥आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीं पत्तोदशेनाहतेन वाससा दक्षिणाशिराः प्रावृतः संविशन्नाह ब्राह्मणाः समापयत मे यज्ञमिति
॥२४॥तदैव संतिष्ठते
॥२५॥भुवोक्थ्येन रथंतरसाम्ना भूतिकामो यजेत
॥२६॥धेनुर्दक्षिणा
॥२७॥अष्टमी कण्डिका
अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति
॥१॥वैश्वदेवस्य लोके त्रिवृदग्निष्टोमः
॥२॥वैश्वदेवः पशुः । बार्हस्पत्यानूबन्ध्या
॥३॥प्रातःसवनीयान्वैश्वदेवहवींष्यनुनिर्वपति
॥४॥समानं तु स्विष्टकृदिडम्
॥५॥न यूपं मिन्वन्ति । नोत्तरवेदिमुपवपन्ति
॥६॥परिधौ पशुं नियुञ्जन्ति । उल्मुके बर्हिषि वा
॥७॥मिन्वन्त्युत्तरेषु यूपान् । उत्तरवेदिमुपवपन्ति
॥८॥ततश्चतुर्षु मासेषु वरुणप्रघासानां लोकेऽग्निष्टोम उक्थ्यः । उक्थ्यावग्निष्टोमौ वा
॥९॥मारुतः पशुः । वारुणो द्वितीये । मैत्रावरुण्यनूबन्ध्या
॥१०॥वैश्वदेववद्वारुणप्रघासिकानि हवींषि
॥११॥मार्जालीये करम्भपात्रैश्चरन्ति
॥१२॥ततश्चतुर्षु मासेषु साकमेधानां लोकेऽग्निष्टोम उक्थ्योऽतिरात्रः
॥१३॥आग्नेयः पशुः । ऐन्द्राग्नो द्वितीये । ऐकादशिनास्तृतीये प्राजापत्यो वा । सौर्यनूबन्ध्या
॥१४॥आनीकवतः प्रथमेऽहनि प्रातःसवनीयान् । सांतपनो माध्यंदिनीयान्
॥१५॥वसतीवरीषु परिहृतासु गृहमेधीयेन चरन्ति
॥१६॥उत्तरस्याह्न उपाकृते प्रातरनुवाके पूर्णदर्व्येण चरन्ति
॥१७॥क्रैडिनः प्रातःसवनीयान् । स्वातवसो माध्यं दिनीयान् । महाहविस्तार्तीयसवनिकान्
॥१८॥सन्नेषु नाराशंसेषु परिश्रिते मार्जालीये पितृयज्ञेन चरन्ति
॥१९॥त्रैयम्बकैश्चरित्वा प्रत्येत्यादित्येन चरन्ति
॥२०॥नवमी कण्डिका
ततश्चतुर्षु मासेषु शुनासीरीयस्य लोके ज्योतिरग्निष्टोमः
॥१॥वायव्यः पशुः । आश्विन्यनूबन्ध्या
॥२॥वैश्वदेववच्छुनासीरीयहवींषि
॥३॥चातुर्मास्यवदन्तरालव्रतानि
॥४॥सर्वत्राहतं वसानोऽवभृथादुदेति
॥५॥अन्वहं पञ्चाशत्पञ्चाशद्गा दक्षिणा ददाति । द्वादशं शतमुत्तमे
॥६॥यथर्तुजा वा यथास्वं चातुर्मास्येषु । वत्सांस्तृतीयसवने सह मातृभिः
॥७॥उपहव्येनाग्निष्टोमेनानिरुक्तेन ग्रामकामो यजेत
॥८॥निरुक्तं प्रातःसवनमित्येके
॥९॥अश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः
॥१०॥ऋतपेयेनाग्निष्टोमेन बृहत्साम्ना स्वर्गकामः
॥११॥षड् दीक्षा नव वा षडुपसदः
॥१२॥घृतव्रतो भवति
॥१३॥यावत्प्रथममङ्गुलिकाण्डं तावत्क्रीते सोमे व्रतम्
॥१४॥उत्तरेणोत्तरेण काण्डेन व्रतमुपैति
॥१५॥नक्तमाहवनीयमभ्यावृत्यास्ते । दिवादित्यम्
॥१६॥ऋतमुक्त्वा प्रसर्पन्ति । ऋतं वदन्तो भक्षयन्ति
॥१७॥औदुम्बरश्चमसश्चतुःस्रक्तिः सोमस्य पूर्णः सगोत्राय प्रियाय ब्रह्मणे देयः
॥१८॥बहुहिरण्येनाग्निष्टोमेनानडुहो लोकमाप्नोति ज्योतिष्मतो लोकाञ्जयति
॥१९॥द्वादशमानं हिरण्यं दीक्षणीयायां ददाति । द्विस्तावत्प्रायणीयायाम्
॥२०॥एवमत ऊर्ध्वं द्विगुणाभ्यासेनातिथ्यायामुपसत्प्रयोगेष्व ग्नीषोमीयस्य वपायामग्नीषोमये सवनीयस्य वपायां सवनीये प्रातःसवने
॥२१॥सन्नेषु नाराशंसेष्वनडुच्छतमधिकं ददाति
॥२२॥दशमी कण्डिका
हिरण्यस्रजमुद्गात्रे षट्पुष्करां द्वादशपुष्करां वा यज्ञायज्ञीयस्य स्तोत्रेऽवभृथेष्ट्यामुदयनीयायामनूबन्ध्यायामुदवसानीयायां च
॥१॥त्रिवृताग्निष्टुताग्निष्टोमेन रथंतरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः
॥२॥पञ्चदशेनेन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्य वीर्यकामः
॥३॥सप्तदशेनाग्निष्टुताग्निष्टोमेन कण्वरथंतरसाम्ना वैश्यः पशुकामः
॥४॥प्रतिधुषा प्रातःसवन इत्युक्तम्
॥५॥तीव्रसुतोक्थ्येन रथंतरसाम्ना बृहत्साम्नोभयसाम्ना वामयाविनमन्नाद्यकामं प्रजाकामं पशुकामं श्रिया वा प्रत्यवरूढं याजयेत्
॥६॥शतमाशिरे दुहन्ति
॥७॥ता दक्षिणा भवन्ति
॥८॥वैश्यसववच्छ्रयणानि
॥९॥नीतमिश्रेण वा तृतीयसवने
॥१०॥अभि सोमानुन्नयन्ति
॥११॥अवजिघ्रन्त्यृत्विजो न भक्षयन्ति
॥१२॥तानच्छावाकस्य स्तोत्रे भक्षयन्ति
॥१३॥ब्रह्मणि होत्रका उपहवमिच्छन्ते
॥१४॥उभावध्वर्यू सर्वे चमसाध्वर्यवोऽच्छावाकाय प्रतिगृणन्ति
॥१५॥प्राच्येकादशिनी संमीयते
॥१६॥यावद्यूपं वेदिमुद्धन्ति
॥१७॥वडबा श्वेता गर्भिणी दक्षिणा
॥१८॥मरुत्स्तोमेन राजपुरोहितौ सायुज्यम्
॥१९॥अथैष राड् । यो राज्यमाशंसमानो न लभेत स एतन
॥२०॥विराजान्नाद्यकामः । स्वराजा प्रतिष्ठाकामः
॥२१॥एकादशी कण्डिका
बहु प्रतिगृह्य यो गरगीरिव मन्येत स पुनस्तोमेन । अनाश्यान्नस्य वा भुक्त्वा
॥१॥अयाज्यं वा याजयित्वेत्येके
॥२॥यो लघुरिवाप्रतिष्ठितः स्यात्स एतेन
॥३॥एकविंशेनो पच्छदेन प्रजाकामः
॥४॥स्तोत्रेस्तोत्र एकैका स्तोत्रीयोपजायते
॥५॥गन्धर्वाप्सरसो मादयन्तामिति प्रातःसवने
॥६॥सन्नेषु नाराशंसेष्वधस्तात्पूतोंऽशुमुपास्यति
॥७॥गन्धर्वा देवा मादयन्तामिति माध्यंदिने । गन्धर्वाः पितरो मादयन्तामिति तृतीयसवने
॥८॥छदेन भ्रातृव्यवान्
॥९॥स्तोत्रेस्तोत्र एकैका स्तोत्रीयापध्वंसते
॥१०॥तामस्यापध्वंसमानां भातृव्यो ऽन्वपध्वंसत इति विज्ञायते
॥११॥सर्वतोमुखेन यः कामयेत सर्वमिदं भवेयमिति
॥१२॥मध्ये गार्हपत्यः । प्रतिदिशं सौमिका विहाराः । त्रिवृत्प्राच्यां दिशि । पञ्चदशो दक्षिणतः । सप्तदशः पश्चात् । एकविंश उत्तरतः
॥१३॥राशिमरायू चतुष्टोमावन्नाद्यकामस्य
॥१४॥धान्यराशिं पूर्वस्मिन्ददाति । धान्यमरायुमुत्तरे
॥१५॥गोतमचतुष्टोमाभ्यां पशुकामः
॥१६॥उक्थ्यः षोडशिमानुत्तरः
॥१७॥नपुंसकपशू इव भवतः
॥१८॥उद्भिद्वलभिद्भ्यां पशुकामः
॥१९॥उद्भिदेष्ट्वा संवत्सरे वलभिदा यजेत
॥२०॥आग्नेयेनाष्टाकपालेनान्तरालं प्रतिपद्यते
॥२१॥उभयत्र गायत्रीः संपूर्णा दक्षिणा ददाति
॥२२॥द्वादशी कण्डिका
अष्टावष्टौ
॥१॥अपचितिकामोऽपचितिभ्याम्
॥२॥उभयसामानौ भवतः
॥३॥तयोरश्वरथश्चतुर्युग्दक्षिणा
॥४॥सर्वे शतक्रियोऽश्वाः
॥५॥स रुक्मी प्रावेपी सर्वाभरण्यंशुमान्
॥६॥तस्य वैयाघ्रः परिवारो द्वैपो धन्वधिरार्क्षः कवचः
॥७॥अध्यास्थाता संनद्धः संनद्धसारथिरावृतः प्रतिहिताभ्याम्
॥८॥निष्की स्रग्वी संग्रहीता भवतीति विज्ञायते
॥९॥पक्षिभ्यां साग्निचित्याभ्यां यः कामयेत पक्षी ज्योतिष्मतः स्वर्गांल्लोकाननुसंचरेयमिति
॥१०॥ऋषभेणाग्निष्टोमेन रथंतरसाम्ना राजानं संग्रामे संयत्ते याजयेत्
॥११॥यत्तत्र विन्देरंस्ततो द्वादशशतं दक्षिणा
॥१२॥व्योम्ना स्वर्गकामः
॥१३॥उभे बृहद्रथंतरे भवतः
॥१४॥सर्वः सप्तदशो भवति
॥१५॥एकविंशमग्निष्टोमसाम
॥१६॥गोसवेन षट्त्रिंशेनोक्थ्येन रथंतरसाम्ना बृहत्साम्नोभयसाम्ना वा स्वाराज्यकामः
॥१७॥कण्वरथंतरं पवमाने
॥१८॥अयुतं दक्षिणा
॥१९॥दक्षिणेनाहवनीयमनुद्धते वेद्यै बृहतः स्तोत्रं प्रत्यभिषिच्यते प्रतिधुषा रेवज्जातः सहसा वृद्धः क्षत्राणां क्षत्रभृत्तमो वयोधाः । महान्महित्वे तस्तभानः क्षत्रे राष्ट्रे च जागृहि । प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीति
॥२०॥त्रयोदशी कण्डिका
तेनेष्ट्वा संवत्सरं पशुव्रतो भवति
॥१॥उपवहायोदकं पिबेत्तृणानि चाच्छिन्द्यात् उप मातरमियादुप स्वसारमुप सगोत्राम्
॥२॥यत्रयत्रैनं विष्ठा विन्देत्तद्वितिष्ठेत
॥३॥मरुतां स्तोमेनानन्तां श्रियं जयति
॥४॥एतेन द्वौ त्रीन्वा याजयेत्
॥५॥अग्नेः कुलायावन्नाद्यकामस्य
॥६॥इन्द्राग्नियोः कुलायौ स्वर्गकामस्य
॥७॥इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्यो वीर्यकामः
॥८॥ऋषभो दक्षिणा
॥९॥इन्द्राग्नियोः स्तोमेन राजपुरोहितावुभावेकर्द्धि याजयेत्
॥१०॥तेजो ब्रह्मवर्चसं ब्राह्मणस्य । विशं राजा प्रविशति
॥११॥विघनेन वि पाप्मानं भ्रातृव्यं हते । तेन सर्वा मृधो विहते
॥१२॥वज्रेण षोडशिनाभिचरन् । संदंशेनाभिचरन्
॥१३॥तयोः श्येनेन कल्पो व्याख्यातः
॥१४॥त्रयोदशातिरात्राः
॥१५॥ज्योतिषर्द्धिकामः
॥१६॥सर्वस्तोमेन बुभूषन्
॥१७॥ऐकादशिनाः पशवः
॥१८॥यस्मात्पशवः प्र प्रेव भ्रंशेरन्नप्तोर्यामेण । सर्वमाप्नोति सर्वं जयति
॥१९॥नवसप्तदशेन प्रजाकामः
॥२०॥विषुवता ज्यैष्ठिनेयः । ज्यैष्ठ्यमाप्नोति
॥२१॥गोष्टोमेन बुभूषन्
॥२२॥आयुषा स्वर्गकामः
॥२३॥अभिजिता पशुकामः
॥२४॥विश्वजिता भ्रातृव्यवान्
॥२५॥त्रिवृतान्नाद्यकामः
॥२६॥पञ्चदशेन वीर्यकामः
॥२७॥सप्तदशेन प्रजाकामः
॥२८॥एकविंशेन प्रतिष्ठाकामः
॥२९॥चतुर्दशी कण्डिका
द्विरात्रप्रभृतय उपरिष्टादतिरात्रा अहीना ऐकादशरात्रात्
॥१॥तेषां द्वादशाहेनाहीनभूतेन कल्पो व्याख्यातः
॥२॥द्विरात्रस्यैन्द्रवायवाग्रं प्रथममहः शुक्राग्रमुत्तरम्
॥३॥त्रिरात्रस्यैतच्चैवाग्रयणाग्रं च
॥४॥चतूरात्रस्यैतच्चैवैन्द्रवायवाग्रं च
॥५॥पञ्चरात्रस्यैतच्चैव शुक्राग्रं च
॥६॥षड्रात्रे द्विः परिवर्तते
॥७॥सप्तरात्र स्यैतच्चैवैन्द्रवायवाग्रं च
॥८॥अष्टरात्रस्यैतच्चैव शुक्राग्रं च
॥९॥नवरात्रे त्रिः परिवर्तते
॥१०॥दशरात्रस्यैतच्चैवैन्द्रवायवाग्रं च
॥११॥एकादशरात्रस्यैतच्चैव शुक्राग्रं च
॥१२॥द्वादशरात्रे चतुः परिवर्तते
॥१३॥षोडशिनो ग्रहणं द्विरात्रस्योत्तरेऽहन्
॥१४॥ग्राह्यो मध्यमे त्रिरात्रस्य । चतुर्थेचतुर्थे चतूरात्रप्रभृतिषु नानाहीनेषु
॥१५॥चत्वारो द्विरात्राः
॥१६॥व्युष्टिद्विरात्रः प्रथमः । स व्याख्यातः
॥१७॥आङ्गीरसेन यः पुण्यो हीन इव स्यात्स एतेन
॥१८॥ज्योतिष्टोमोऽग्निष्टोमः पूर्वः । सर्वस्तोमोऽतिरात्र उत्तरः
॥१९॥कापिवनेन यं कामं कामयते तमभ्यश्नुतेऽलूक्षो भवति
॥२०॥ज्योतिरुक्थ्योऽग्निष्टोमो वा पूर्वः अतिरात्र उत्तरः
॥२१॥चैत्ररथेन प्राणेष्वन्नाद्ये च प्रतितिष्ठति
॥२२॥अग्निष्टोमः पूर्वः । अतिरात्र उत्तरः
॥२३॥पञ्चदशी कण्डिका
गर्गत्रिरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति वसून्रुद्रानादित्यानन्वारोहति
॥१॥त्रैधातवीया दीक्षणीया
॥२॥रोहिणी वभ्रुर्वा पिङ्गलैकहायनी द्विहायनी वा सोमक्रयणी
॥३॥अग्निष्टोम उक्थ्यो ऽतिरात्रः
॥४॥रथंतरं वामदेव्यं बृहदिति पृष्ठानि
॥५॥सहस्रं दक्षिणा
॥६॥त्रीणि शतानि त्रयस्त्रिंशतं च प्रथमेऽहनि ददाति । एवं द्वितीये तृतीये च
॥७॥साहस्र्यतिरिच्यते रोहिण्युपध्वस्ता द्विरूपोभयत एन्यन्यतरतो वा
॥८॥यैव वरः कल्याणीत्युक्तम्
॥९॥उद्भृष्टिः प्रथमेऽहनि मुख्यः
॥१०॥तमभिमन्त्रयते त्वमग्न सहस्रमा नयोद्वलस्याभिनत्त्वचम् । स नः सहस्रमा नय प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति
॥११॥वेहद्द्वितीये
॥१२॥तामभिमन्त्रयते त्वमपामोषधीनां रसेन रसिनी बभूविथ । सा मा सहस्र आ भज प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति
॥१३॥वामनस्तृतीये
॥१४॥तमभिमन्त्रयते सहस्रस्य प्रतिष्ठासि वैष्णवो वामनस्त्वम् । स नः सहस्र आ धेहि प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति
॥१५॥तामुत्तरेणाग्नीध्रमित्युक्तम्
॥१६॥षोडशी कण्डिका
दक्षिणेन वा वेदिं नीत्वान्तरा यूपमाहवनीयं च द्रोणकलशमवघ्रापयेदा जिघ्र कलशमिति । आग्नीध्रे हविर्धाने वा
॥१॥तामुदीचीमाग्नीध्रं नीत्वा तस्याः पृष्ठे तार्प्यमध्यस्यति
॥२॥तस्मिन्धिष्णियानां रूपं विग्रथितं भवति
॥३॥अथ पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादुभा जिग्यथुरिति
॥४॥रूपाणि जुहोति यानि तस्यां भवन्ति
॥५॥आश्वमेधिकान्येके समामनन्ति
॥६॥प्रतीचीं सदसः स्रक्तिमानीय तस्या उपोत्थाय दक्षिणं कर्णमाजपेदिडे रन्ते इति
॥७॥उत्सृज्य विज्ञानमुपैति
॥८॥यद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति विद्यात् । यदि दक्षिणा क्षिप्रेऽस्माल्लोकात्प्रैष्यति । यदि प्रतीची बहुधान्यो भविष्यति । यद्युदीची श्रेयानस्मिंल्लोके भविष्यतीति
॥९॥तां यजमानोऽभिमन्त्रयते सा मा सुवर्गं लोकं गमयेति
॥१०॥यास्तिस्रस्तिस्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे ब्रह्मणे होत्र उद्गात्र उन्नेत्रेऽध्वर्यवे वा दद्यात्
॥११॥द्वौ वोन्नेतारौ वृत्वा यतरो नाश्रावयेत्तस्मै वा
॥१२॥द्विभागं वा ब्रह्मणे तृतीयमग्नीधे
॥१३॥सर्वेभ्यो वा सदस्येभ्यः
॥१४॥उदाकृत्या वा सा वशं चरेत् । यस्तामविद्वान्प्रतिगृह्णातीत्युक्तम्
॥१५॥तां शतमानेन हिरण्येन निष्क्रीय यजमानस्य गोष्ठे विसृजति
॥१६॥सप्तदशी कण्डिका
दश प्रथमेऽहन्नाशिरं दुहन्ति । विंशतिं द्वितीये । त्रिंशतं तृतीये
॥१॥कृतान्नं प्रथमेऽहनि देयम् । हिरण्यं गौर्वास इति द्वितीये । अनो रथोऽश्वो हस्ती पुरुष इति तृतीये
॥२॥न साहस्रेऽधि किं चिद्दद्यात्
॥३॥दद्यादित्येके
॥४॥यदि दद्यादनूबन्ध्यावपायां हुतायां दक्षिणा नयन्नन्यूना दशतो नयेत्
॥५॥यस्मा एकां गां दास्यन्स्याद्दशभ्यस्तेभ्यो दशतमुपाकुर्यात्
॥६॥यस्मै द्वे पञ्चभ्यः । यस्मै पञ्च द्वाभ्याम्
॥७॥एवमा शतादा वा सहस्रात्
॥८॥उत्तमां दक्षिणां नीत्वोदवसाय वा शबली
॥९॥समुद्रोऽसि विश्वव्यचा ब्रह्मा देवानां प्रथमजा ऋतस्य । अन्नमसि शुक्रमसि ज्योतिरस्यमृतमसि । तां त्वा विद्म शबलि दीद्यानाम् । तस्यास्ते पृथिवी पादोऽन्तरिक्षं पादो द्यौः पादः समुद्रः पादः । एषासि शबलि तां त्वा विद्म सा न इषमूर्जं धुक्ष्व वसोर्धारां शबलि प्रजानां शविष्ठा व्रजमनुगेषं स्वाहेति शबलीहोमं जुहोति
॥१०॥अष्टादशी कण्डिका
अश्वमेधस्याग्निष्टोम उक्थ्योऽतिरात्रः
॥१॥रथंतरं महानाम्नी बृहदिति पृष्ठानि
॥२॥राजा यजेत यः कामयेत सर्वमिदं भवेयमिति
॥३॥बैदत्रिरात्रेण स्वाराज्यकामः
॥४॥त्रयस्त्रिवृतोऽतिरात्राः षोडशिमन्तः
॥५॥रथंतरं वामदेव्यं बृहदिति पृष्ठानि
॥६॥गर्गत्रिरात्रेणोत्तरेषां त्रयाणामहानि पृष्ठानीति व्याख्यातानि
॥७॥छन्दोमपवमानेन पशुकामः
॥८॥अन्तर्वसुना पशूनाप्नोति
॥९॥पराकेण स्वर्गकामः
॥१०॥चत्वारश्चतूरात्राः
॥११॥अत्रेः प्रथमश्चतुर्वीरः
॥१२॥चत्वारो ऽस्य वीराः कुल आजायन्ते सुहोतेत्युक्तम्
॥१३॥अग्निष्टोम उक्थ्यावतिरात्रो ऽत्रेरेव चत्वारश्चतुष्टोमाः
॥१४॥अत्रिं श्रद्धादेवमित्युक्तम्
॥१५॥जामदग्न्येन पुष्टिकामः
॥१६॥पुरोडाशिन्य उपसदो भवन्ति
॥१७॥आग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस्त्रिकपालः सौम्यश्चतुष्कपालः सावित्रः पञ्चकपालो धात्रः षट्कपालो मारुतः सप्तकपालो बार्हस्पत्योऽष्टाकपालो मैत्रो नवकपालो वारुणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः
॥१८॥दर्विहोमा भवन्ति
॥१९॥एकोनविंशी कण्डिका
अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्राय देवेभ्यो जुषतां हविः स्वाहा । देवावश्विना मधुकशयाद्यास्मिन्यज्ञे यजमानाय मिमिक्षतम् । देव विष्णवुर्वद्येमं यज्ञम् यजमानायानुविक्रमस्व । देव सवितः सुषावित्रमद्यास्मिन्यज्ञे यजमानायासुवस्व । देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधि । देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदत । देव्यदितेऽन्वद्येमं यज्ञं यजमानायैधि । देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्व । दिव्या आपो नन्नम्यध्वमद्यास्मिन्यज्ञे यजमानाय । सदःसदः प्रजावानृभुर्जुषाणः । देवेन्द्रेन्द्रियमद्यास्मिन्यज्ञे यजमानायैधि । देव त्वष्टः सुरेतोधा अद्यास्मिन्यज्ञे यजमानायैधीति प्रतिनिगद्य होमाः
॥१॥इन्द्राय देवेभ्यो जुषतां हविः स्वाहेति सर्वत्रानुषजति
॥२॥विंशी कण्डिका
वसिष्ठस्य संसर्पः । यः पुण्यो हीन इव स्यात्स एतेन
॥१॥विश्वामित्रस्य संजयः । भ्रातृव्यवान्यजेत
॥२॥पञ्च पञ्चाहाः
॥३॥संवत्सरो वा इदमेक आसीदित्युक्तम्
॥४॥अभ्यासङ्ग्यो द्वितीयः
॥५॥यं कामं कामयते तमभ्यश्नुते
॥६॥अग्निष्टोमस्त्रय उक्थ्या अतिरात्रः
॥७॥त्रिवृती द्वे सवने पञ्चदशमेकम् । पञ्चदशे द्वे सप्तदशमेकम् । सप्तदशे द्वे एकविंशमेकम् । एकविंशे द्वे त्रिणवमेकम् । त्रिनवे द्वे त्रयस्त्रिंशमेकम्
॥८॥पञ्चशारदीयेन बहोर्भूयान्भवति
॥९॥अनुसंवत्सरं पशुबन्धेन यजते
॥१०॥सप्तदश पृश्नीनुक्ष्णः पञ्चवर्षानानयन्ति । सप्तदश पृश्नीर्वत्सतर्यस्त्रिवत्सा अप्रवीताः
॥११॥प्रोक्षितान्पर्यग्निकृतानुक्ष्ण उत्सृजन्ति । वत्सतरीरालभन्ते
॥१२॥वर्णाननुक्रमिष्यामः
॥१३॥राजीवा नवनीतपृश्नीररुणाः पिशङ्गीः सारङ्गीरुत्तमीरालभ्य दीक्षन्ते
॥१४॥त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चदश उक्थ्यः सप्तदशोऽतिरात्रः
॥१५॥एत उक्षाणः सवनीयाः
॥१६॥त्रींस्त्रीनन्वहमालभन्ते । पञ्चोत्तमेऽहन्
॥१७॥ऐन्द्रमारुता उक्षाणः । मारुत्यो वत्सतर्यः
॥१८॥यद्युक्ष्णो रुद्रोऽभिमन्येत
॥१९॥एकविंशी कण्डिका
अग्नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेत्
॥१॥अपोनप्त्रीयं चरुं यद्यप्सु पतेत्
॥२॥नैरृतं चरुं यद्यवसीदेत्
॥३॥भौमं चरुमेककपालं वा यद्यवसन्नः संशीर्णो वा
॥४॥बार्हस्पत्यं चरुं यदि श्लोणः कूटो वा
॥५॥यदि नश्येद्वायव्यं चरुम्
॥६॥यदि सेनाभीत्वरी विन्देतेन्द्राय जयत एकादशकपालम्
॥७॥यदि प्रासहा नयेयुरिन्द्राय प्रसह्वन एकादशकपालम्
॥८॥यद्यन्धः स्यात्सौर्यं चरुमेककपालं वा
॥९॥यदि श्वभ्रं प्रपतेद्वैष्णवं चरुम्
॥१०॥यद्यविज्ञातेन यक्ष्मणा म्रियेत प्राजापत्यं चरुं द्वादशकपालं वा
॥११॥चतुर्थोऽन्तर्महाव्रतः
॥१२॥भ्रातृव्यवान्यजेत
॥१३॥त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यो महाव्रतं सप्तदश उक्थ्य एकविंशोऽतिरात्रः
॥१४॥पुरुषमेधः पञ्चमः
॥१५॥पञ्चशारदीयवदहानि
॥१६॥अयुतं प्रथमेऽहनि ददाति । नियुतं द्वितीये । अर्बुदं न्यर्बुदम् च तृतीये । यथा प्रथमयोरेवमुत्तरयोः
॥१७॥द्वाविंशी कण्डिका
चत्वारः षडहाः
॥१॥साध्यानां प्रथमः
॥२॥साध्या वै देवाः सुवर्गकामा इत्युक्तम्
॥३॥ऋतूनां द्वितीयेन प्रजाकामः
॥४॥पृष्ठः षडहः
॥५॥तृतीयेनोपरिष्टात्त्रिकद्रुकेण यं कामं कामयते तमभ्यश्नुते
॥६॥त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः
॥७॥चतुर्थेन प्रैव जायते प्रजया पशुभिः
॥८॥अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः
॥९॥अष्टौ सप्तरात्राः
॥१०॥कौसुरुबिन्देन पशुकामः
॥११॥स व्याख्यातः
॥१२॥सप्तर्षीणां द्वितीयेन स्वर्गकामः
॥१३॥पृष्ठ्यः षडहो महाव्रतवानतिरात्रः
॥१४॥प्राजापत्येन प्रजाकामः
॥१५॥पृष्ठ्यः षडहः प्राजापत्यं महाव्रतमतिरात्रे
॥१६॥छन्दोमपवमानेन पशुकामः
॥१७॥पृष्ठ्यः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रे
॥१८॥पृष्ठ्यावलम्बेनान्नाद्यकामः
॥१९॥पृष्ठ्यस्तोमः षडहो महाव्रतवानतिरात्रः
॥२०॥त्रयोविंशी कण्डिका
सत्त्रसंमितेनान्नाद्यकामः
॥१॥कौसुरुबिन्दवदहानि
॥२॥ऐन्द्रेणौजस्कामः
॥३॥ज्योतिर्गौरायुरथाभिजिद्विश्वजित्सर्वजित्सर्वस्तोमोऽतिरात्रः
॥४॥जनकसप्तरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति
॥५॥चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमो वैश्वानरोऽतिरात्रः
॥६॥अष्टरात्रेण ब्रह्मवर्चसकामः । स व्याख्यातः
॥७॥त्रयो नवरात्राः
॥८॥प्रथमेनायुष्कामः
॥९॥पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः
॥१०॥द्वितीयेन ब्रह्मवर्चसकामः
॥११॥त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्योऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः
॥१२॥शललीपिशङ्गेनान्नाद्यकामः
॥१३॥ज्योतिर्गौरायुर्ज्योतिर्गौरायुर्गौर्ज्योतिरतिरात्रः
॥१४॥चत्वारो दशरात्राः
॥१५॥दशरात्राय दीक्षिष्यमाणो दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहुयात्
॥१६॥त्रिककुत्प्रथमः । त्रिककुत्प्रजानां समानानां च भवति
॥१७॥त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः सप्तदशोऽग्निष्टोम एकविंश उक्थ्यः सप्तदशोऽग्निष्टोमस्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिंश उक्थ्यस्त्रिणवोऽग्निष्टोमो विश्वजित्सर्वपृष्ठोऽतिरात्रः
॥१८॥चतुर्विंशी कण्डिका
देवपुराभिचर्यमाणः
॥१॥त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो ऽभिजिदग्निष्टोमो गौरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः
॥२॥छन्दोमवता पुरुषं पशूनोजो वीर्यमाप्नोति
॥३॥अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमा अतिरात्रः
॥४॥अथैकेषाम् । अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा अतिरात्रः
॥५॥कौसुरुबिन्देन बहोर्भूयान्भवति
॥६॥त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः सप्तदशा उक्थ्या एकविंशोऽतिरात्रः
॥७॥पौण्डरीक एकादशरात्रोऽयुतदक्षिणः
॥८॥अन्वहं सहस्राणि ददाति । अश्वसहस्रमुत्तमेऽश्वशतं वा
॥९॥तेन सर्वामृद्धिमृध्नोति परमेष्ठितां गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति
॥१०॥अभ्यासङ्ग्यः षडहश्चतुष्टोमोऽग्निष्टोमस्त्रयश्छन्दोमा अतिरात्रः
॥११॥अथैकेषाम् । अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा महाव्रतं विश्वजित्सर्वपृष्ठो ऽतिरात्रः
॥१२॥पञ्चविंशी कण्डिका
अथ सवानां व्याख्यातो बृहस्पतिसवः
॥१॥वैश्यः पुष्टिकामः
॥२॥आग्नेयादीनि सप्त हवींषि निर्वपति
॥३॥पृश्निः पष्ठौही मारुत्यालभ्यते
॥४॥तस्याः पुरस्तात्स्विष्टकृतो यजमानायतन ऋषभचर्म प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानं दध्नाभिषिञ्चति
॥५॥ब्राह्मणो ब्रह्मवर्चसकामः
॥६॥आग्नेयादीन्यष्टौ हवींषि निर्वपति
॥७॥पुरस्तात्स्विष्टकृतो हिरण्येन घृतमुत्पूय तेन कृष्णाजिन आसीनमभिषिञ्चति
॥८॥अथ सोमसवः
॥९॥यत्किंच राजसूयमृते सोमं तत्सर्वं भवति
॥१०॥मैत्राबार्हस्पत्यं संस्थाप्य सौमीं सूतवशामालभते
॥११॥तस्याः पुरस्तात्स्विष्टकृतोऽषाढं युत्सु पृतनासु पप्रिमिति सौम्यर्चाद्भिरभिषिञ्चति
॥१२॥शेषं संस्थाप्य संसृपां हविर्भिर्दिशामवेष्ट्या द्विपशुना पशुबन्धेन सात्यदूतानां हविर्भिः प्रयुजामिति यजते
॥१३॥पृथिसवेन पशुकामः
॥१४॥यत्किंच राजसूयमनुत्तरवेदिकं तत्सर्वं भवति
॥१५॥मैत्राबार्हस्पत्यस्य पुरस्तात्स्विष्टकृतो ये मे पञ्चाशतमिति नाराशंस्यर्चाद्भिरभिषिञ्चति
॥१६॥समानमुत्तरं पूर्वेण पशुबन्धवर्जम्
॥१७॥व्याख्यातो गोसवः
॥१८॥ओदनसवेनान्नाद्यकामः
॥१९॥रोहिण्यां यजतोपव्युषं श्रपयति
॥२०॥दर्विहोमो भवति
॥२१॥उदित आदित्ये सिंहे व्याघ्र इति चतस्र आहुतीरोदनाद्धुत्वा राडसि विराडसीत्येतैः प्रतिमन्त्रम्
॥२२॥षड्विंशी कण्डिका
मन्थान्कल्पयन्ति । आज्यमन्थं ब्राह्मणः पयोमन्थं राजन्यो दधिमन्थं वैश्य उदमन्थं शूद्रः
॥१॥इन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामीति ब्राह्मणः सक्तुभिराज्यं श्रीत्वा तेजोऽसीत्यभिमन्त्र्य तत्ते प्रयच्छामीति यजमानाय प्रयच्छति
॥२॥तेजस्वदस्तु मे मुखमिति प्रतिगृह्य भक्षयति
॥३॥एवमितरेषामुत्तरौत्तरः श्रयणोऽभिमन्त्रणः प्रदानो भक्षणश्च यथालिङ्गम्
॥४॥सर्वान्यजमानो भक्षयित्वा हिरण्यं ब्राह्मणाय ददाति । तिसृधन्वं राजन्याय । अष्ट्रां वैश्याय । माषकमण्डलुं शूद्राय
॥५॥ओदनशेषं यजमानः प्राश्नाति
॥६॥इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते
॥७॥हिरण्यं यजमानायाबध्नाति
॥८॥आयुरसि विश्वायुरसीत्याबध्यमाने जपति
॥९॥अपां ग्रहान्गृह्णन्ति ये मन्थान्कल्पयन्त्यपां यो द्रवणे रस इत्येतैः प्रतिमन्त्रम्
॥१०॥तैरेनं संसृष्टैरभिषिञ्चति यतो वातो मनोजवा इति
॥११॥समुद्र इवासि गह्मनेत्येनमभिमन्त्र्याथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति
॥१२॥अवभृथप्रत्याम्नायो भवतीति विज्ञायते
॥१३॥अग्रेणाहवनीयं रथोऽवस्थितो भवति
॥१४॥अभि प्रेहीति तं यजमानोऽभ्येति
॥१५॥आतिष्ठ मित्रवर्धन इत्यारोहन्तमभिमन्त्रयते
॥१६॥अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा
॥१७॥आतिष्ठ वृत्रहन्निति पञ्चभिरारूढम्
॥१८॥दिदृक्षेण्यो दर्शनीयो भवति य एतेन यजत इति विज्ञायते
॥१९॥सप्तविंशी कण्डिका
संतिष्ठत ओदनसवः
॥१॥व्याख्यातः पञ्चशारदीयः
॥२॥तथाग्निष्टुत
॥३॥तस्य पुरोरुचः
॥४॥अस्याजरासोऽग्न आयूंषि पवस इत्यैन्द्रवायवस्य । द्वितीया मैत्रावरुणस्य । तृतीयाश्विनस्य । चतुर्थी पञ्चमी च शुक्रामन्थिनोः षष्ठ्याग्रयणस्य
॥५॥अन्यामाग्नेयीमुक्थ्यस्य नियुनक्ति
॥६॥नित्या ध्रुवस्य
॥७॥नियुनक्त्यैन्द्राग्नवैश्वदेवयोः
॥८॥अग्निश्रिय इति तिस्रो मरुत्वतीयानाम् । श्रुधि श्रुत्कर्णेत्युत्तरां माहेन्द्रस्य । विश्वेषामदितिरिति तिस्र आदित्यग्रहस्य । उत्तमा सावित्रस्य
॥९॥नियुनक्ति वैश्वदेवस्य
॥१०॥नित्या पात्नीवतस्य
॥११॥नियुनक्ति हारियोजनस्य
॥१२॥इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येनेन्द्रियकामो वीर्यकामो वा यजेत
॥१३॥ऐन्द्रियः पुरोरुचः
॥१४॥तिष्ठा हरी कस्य वृषेत्यैन्द्रवायवस्य । तृतीया मैत्रावरुणस्य । चतुर्थ्याश्विनस्य । पञ्चमी षष्ठी च शुक्रामन्थिनोः । सप्तम्याग्रयणस्य
॥१५॥नित्योक्थ्यस्य
॥१६॥नियुनक्ति ध्रुवैन्द्राग्नवैश्वदेवानाम्
॥१७॥नित्या मरुत्वतीयमाहेन्द्राणाम्
॥१८॥आ नो विश्वाभिरूतिभिरिति तिस्र आदित्य ग्रहस्य । उत्तमा सावित्रस्य
॥१९॥नियुनक्ति विअश्वदेवपात्नीवतयोः
॥२०॥नित्या हारियोजनस्य
॥२१॥व्याख्यातो ऽप्तोर्यामः
॥२२॥अष्टाविंशी कण्डिका
राजाभिषेक्ष्यमाणो जनपदेषु समवेतेषु द्वयोः पुण्याहयोः पूर्वस्मिन्स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय संपरिस्तीर्य वसति
॥१॥उदित आदित्ये ये केशिनो नर्ते ब्रह्मण इति द्वे आहुती हुत्वा राडसि विराडसीति यजमानायतन औदुम्बरीमासन्दीं प्रतिष्ठापयति
॥२॥तां राजारोहति
॥३॥आरोह प्रोष्ठमित्यारोहन्तमभिमन्त्रयते
॥४॥अत्र वरं ददाति
॥५॥तस्यामासीनः केशान्वापयते येनावपत्सविता क्षुरेणेति
॥६॥मा ते केशानिति केशान्प्रकीर्यमाणाननुमन्त्रयते
॥७॥तान्समोप्य दर्भस्तम्बे निदधाति तेभ्यो निधानमिति
॥८॥अथैनमाज्यमिश्रेण पयसानक्ति । बलं ते बाहुवोरिति बाहू । यत्सीमन्तमिति शिरः
॥९॥व्याघ्रोऽयमग्नाविति सप्ताहुतीर्य्हुत्वा द्यौरसि पृथिव्यसीति यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमास्तृणाति
॥१०॥तस्मिन्राजोपविशति
॥११॥व्याघ्रो वैय्याघ्र इत्यासीनमभिमन्त्रयते
॥१२॥अथैनं तोक्मावास्ताभिर्दूर्वावास्ताभिर्वाद्भिरभिषिञ्चति या दिव्या आप इति प्रतिपद्या पाङ्क्तात्
॥१३॥अरुणं त्वा वृकमित्येनमभिमन्त्र्य प्र बाहवेति बाहू प्रसार्येन्द्रस्य ते वीर्यकृत इत्युपावहरति
॥१४॥अग्रेणाग्निं रथोऽवस्थितो भवति
॥१५॥अभि प्रेहीति तं राजाभ्येति
॥१६॥आतिष्ठ वृत्रहन्तम इत्यारोहन्तमभिमन्त्रयते
॥१७॥अङ्को न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा
॥१८॥नमस्त ऋष इति पुरोहितमभिमन्त्रयते
॥१९॥तिष्ठा रथ इति सारथिम्
॥२०॥आ रश्मीनिति रश्मीनालभते
॥२१॥आतिष्ठ वृत्रहन्निति षड्भिरारूढम्
॥२२॥परि मा सेन्या इति द्वे वाचयित्वोत्तराभिस्तिसृभिरभिमन्त्र्योदसावेत्वित्यादित्यमुदीक्षयति
॥२३॥अन्नवतामिति जनपदाननुवीक्षते
॥२४॥संतिष्ठते राजाभिषेकः
॥२५॥व्याख्यातो विघनः
॥२६॥संतिष्ठन्ते सवाः सवाः
॥२७॥