प्रथमा कण्डिका
Devanāgarīएकाहेष्वहीनेष्विति प्राकृतीर्दक्षिणा ददाति । यथासमाम्नातं वा
॥१॥ IAST
Devanāgarīसर्वक्रतूनां प्रकृतिरग्निष्टोमः । निकायिनां तु प्रथमः सर्वत्र । यथादिष्टं वा
॥२॥ IAST
Devanāgarīज्योतिर्गौरायुरिति त्रिकद्रुकाः
॥३॥ IAST
Devanāgarīप्रथमोऽग्निष्टोम उक्थ्या वा सर्वे
॥४॥ IAST
Devanāgarīज्योतिषि सहस्रं ददातीति । श्यैतनियमाद्बृहत्पृष्ठः
॥५॥ IAST
Devanāgarīगौर्भ्रातृव्यवतः । आयुः स्वर्गकामस्य । अग्निष्टोमस्तु भ्रातृव्यवतः । विश्वजिदग्निष्टोमः श्रैष्ट्यकामस्य
॥६॥ IAST
Devanāgarīसहस्रं दक्षिणा सर्ववेदसं वा यावतीर्वा क्रतोः स्तोत्रीयाः
॥७॥ IAST
Devanāgarīसर्ववेदसे ज्येष्ठं पुत्रमपभज्य संविदो विपरियाचेत
॥८॥ IAST
Devanāgarīयद्दक्षिणाकाले सर्वस्वं तद्दद्याद्यदन्यद्भूमेः पुरुषेभ्यश्च
॥९॥ IAST
Devanāgarīउत्तमां दक्षिणां नीत्वोदवसाय वा दक्षिणेनौदुम्बरीं प्राङ्निषद्य ब्रूयाद्यन्मेऽद ऋणं यददस्तत्सर्वं ददामीति
॥१०॥ IAST
Devanāgarīउदवसाय रोहिणीं वत्सच्छवीमिति समानम्
॥११॥ IAST
Devanāgarīइन्द्रस्याभिजिदग्निष्टोमो ऽनभिजितस्याभिजित्यै
॥१२॥ IAST
Devanāgarīउभे बृहद्रथंतरे भवतः परोऽक्षपृष्ठो वा
॥१३॥ IAST
Devanāgarīबृहत्तु होतुः पशवश्चैकादशैकयूपे
॥१४॥ IAST
Devanāgarīसहस्रं दक्षिणा वराणां वा द्वादशं शतम्
॥१५॥ IAST
Devanāgarīसर्वजिताग्निष्टोमेन सर्वमाप्नोति सर्वं जयति
॥१६॥ IAST
द्वितीया कण्डिका
Devanāgarīअन्नादश्च भवति
॥१॥ IAST
Devanāgarīतस्य महाव्रतं पृष्ट्यमर्क्यं शस्यते
॥२॥ IAST
Devanāgarīसहस्रं दक्षिणा विंशतिर्वाष्टाविंशतीनाम्
॥३॥ IAST
Devanāgarīचत्वारः साहस्राः
॥४॥ IAST
Devanāgarīज्योतिरग्निष्टोमो रथंतरसामा प्रथमः । प्राणेष्वन्नाद्ये च प्रतितिष्ठति । गौरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठति । सर्वज्योतिरग्निष्टोम उभयसामा तृतीयः । सर्वमाप्नोति सर्वं जयति । त्रिरात्रसंमितोऽग्निष्टोमो बृहत्सामा चतुर्थः । त्रिरात्रस्य फलमाप्नोति
॥५॥ IAST
Devanāgarīचत्वारः साद्यस्क्राः
॥६॥ IAST
Devanāgarīतेषां विशेषः
॥७॥ IAST
Devanāgarīरथंतरसामा बृहत्सामोभयसामा वा प्रथमः
॥८॥ IAST
Devanāgarīतस्मिन्कामाः स्पर्धायां भ्रातृव्यतिस्तीर्षा स्वर्गः पशवो वा
॥९॥ IAST
Devanāgarīतेषां पूर्वेद्युराग्नेयः सौम्यो बार्हस्पत्यश्च पशवः
॥१०॥ IAST
Devanāgarīतेषामेकादशिन्यां रूपाणि
॥११॥ IAST
Devanāgarīतदलाभ एतासां देवतानामष्टाकपालः प्रथमश्चरू चेतरौ
॥१२॥ IAST
Devanāgarīधारयत्याहवनीयम्
॥१३॥ IAST
Devanāgarīव्याघारयत्युत्तरवेदिम्
॥१४॥ IAST
Devanāgarīसर्पिष्मदशनम्
॥१५॥ IAST
Devanāgarīहिरण्यं मुखे न्यस्यान्तरोरू प्रियायै भार्यायै ब्रह्मचारी शेते श्व इष्ट्या पशुना वा यक्ष्य इति
॥१६॥ IAST
Devanāgarīऋत्विजः समोढाः
॥१७॥ IAST
Devanāgarīतान्यथालोकं विनिधाय सर्वा दिशः सक्षीरदृतयोऽश्वरथाः सोमप्रवाका विधावन्ति
॥१८॥ IAST
Devanāgarīतेभ्यो यन्नवनीतमुदियात्तदाज्येऽवनयेत्
॥१९॥ IAST
Devanāgarīचतुर्युजा योजने प्राच्यां दिशि । त्रियुजोत्तरतस्त्रिक्रोशे । द्वियुजा पश्चाद्द्विक्रोशे । दक्षिणैकयुक्तेन क्रोशे
॥२०॥ IAST
Devanāgarīअश्वतरीरथो वैकः
॥२१॥ IAST
Devanāgarīप्रदक्षिणं पूर्वेणोत्सर्गः
॥२२॥ IAST
Devanāgarīयोजनादीनि वाद्विक्रोशानि
॥२३॥ IAST
Devanāgarīअश्वरथेन दक्षिणोत्सर्गः
॥२४॥ IAST
Devanāgarīत्रिवत्सः साण्डः सोमक्रयणः
॥२५॥ IAST
तृतीया कण्डिका
Devanāgarīउदित आदित्ये दीक्षिते प्रागस्तमयादवभृथः
॥१॥ IAST
Devanāgarīउपसत्सु त्रिः संमीलेत् । संमील्य वा प्रचरेत् । अपि वा नापराह्णिक्य उपसदः
॥२॥ IAST
Devanāgarīयवोर्वरा वेदिः
॥३॥ IAST
Devanāgarīयवानां खल उत्तरवेदिः
॥४॥ IAST
Devanāgarīआरोहणे हविर्धाने
॥५॥ IAST
IAST
Devanāgarīस्फ्यो यूपः स्फ्याग्रो वा खलेवाली लाङ्गलेषा वा
॥७॥ IAST
Devanāgarīकलापि चषालम्
॥८॥ IAST
Devanāgarīअग्नीषोमीयकाल ईजानस्य गृहाद्वसतीवरीर्गृह्णीयात्
॥९॥ IAST
Devanāgarīसवनीयकाले सह पशूनालभतेऽग्नीषोमीयं सवनीयमनूबन्ध्यां च
॥१०॥ IAST
Devanāgarīअग्नीषोमीयस्य स्थाने ऽग्नीषोमीय एकादशकपालः । अनूबन्ध्यास्थाने मैत्रावरुण्यामिक्षा
॥११॥ IAST
Devanāgarīतस्या दक्षिणाकाले सदश्वः श्वेतो दक्षिणा
॥१२॥ IAST
Devanāgarīतमाङ्गिरसाय भ्रातृव्याय वा दद्यात्
॥१३॥ IAST
Devanāgarīद्वेष्यं वा ब्राह्मणं वृत्वा तस्मा अश्वं रुक्मप्रतिमुक्तं दद्यात्
॥१४॥ IAST
Devanāgarīतदलाभे गौः श्वेतः
॥१५॥ IAST
Devanāgarīसंवत्सरमुपरिष्टात्पादावनेजनं मांसं स्त्रियमनृतमुपरिशय्यामाञ्जनाभ्यञ्जने च वर्जयेत्
॥१६॥ IAST
IAST
Devanāgarīयदि संवत्सरं न शक्नुयाद्द्वादशाहम्
॥१८॥ IAST
चतुर्थी कण्डिका
Devanāgarīएतेनोत्तरे व्याख्याताः
॥१॥ IAST
Devanāgarīद्वितीयस्य पञ्चदशमग्निष्टोमसाम कृत्वामयाविनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत्
॥२॥ IAST
Devanāgarīहीनानुजावरोऽनुक्रिया
॥३॥ IAST
Devanāgarīतस्याष्टादशावुत्तरौ पवमानौ
॥४॥ IAST
Devanāgarīअश्वसादः सोमप्रवाको दधिदृतिश्च त्रिक्रोशेऽन्ततः प्राह
॥५॥ IAST
Devanāgarīस्त्रीगौः सोमक्रयणी
॥६॥ IAST
Devanāgarīप्रक्ष्णुताग्रो यूपः
॥७॥ IAST
Devanāgarīव्रीह्युर्वरा वेदिः
॥८॥ IAST
Devanāgarīव्रीहीणां खल उत्तरवेदिः
॥९॥ IAST
Devanāgarīभारद्वाजो होता
॥१०॥ IAST
Devanāgarīविश्वजिच्छिल्पश्चतुर्थः सर्वपृष्ठः सर्वस्तोमः सर्ववेदसदक्षिणः
॥११॥ IAST
Devanāgarīसर्वस्यान्नाद्यस्य प्रसवं गच्छति
॥१२॥ IAST
Devanāgarīश्येनेनाभिचरन्यजेत
॥१३॥ IAST
Devanāgarīरथौ हविर्धाने
॥१४॥ IAST
Devanāgarīतैल्वको बाधको वा स्फ्याग्रो यूपः
॥१५॥ IAST
Devanāgarīशवनभ्ये अधिषवणफलके भवतः
॥१६॥ IAST
Devanāgarīअग्नये रुद्रवते लोहितः पशुः
॥१७॥ IAST
Devanāgarīसादयन्त्युपांश्वन्तर्यामौ
॥१८॥ IAST
Devanāgarīशरमयं बर्हिः
॥१९॥ IAST
Devanāgarīऔद्धवः प्रस्तरः
॥२०॥ IAST
Devanāgarīवैभीतक इध्मः
॥२१॥ IAST
Devanāgarīबाणवन्तः परिधयः
॥२२॥ IAST
Devanāgarīलोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति
॥२३॥ IAST
Devanāgarīनवनव दक्षिणाः कूटाः कर्णाः काणाः खण्डा बण्डाः
॥२४॥ IAST
Devanāgarīता दक्षिणाकाले कण्टकैर्वितुदेयुः
॥२५॥ IAST
Devanāgarīइच्छन्हन्येतेति रथंतरं पवमाने कुर्याद्बृहत्पृष्ठम् । जीयेतेत्येतद्विपरीतम्
॥२६॥ IAST
Devanāgarīपरां परावतं गच्छेन्न प्रतितिष्ठेदिति पूर्ववत्प्लवं च ब्रह्मसाम कुर्यात्
॥२७॥ IAST
Devanāgarīप्रजापतेरेकत्रिकोऽग्निष्टोमः सर्वस्य पाप्मनो निर्दिश्य गच्छति
॥२८॥ IAST
Devanāgarīचतुर्विंशतिं गा दक्षिणा ददाति
॥२९॥ IAST
पञ्चमी कण्डिका
Devanāgarīत्रयो वाचः स्तोमाः
॥१॥ IAST
Devanāgarīपूर्वावग्निष्टोमौ रथंतरसामानौ । सर्वस्तोमोऽतिरात्र उत्तरः
॥२॥ IAST
Devanāgarīतस्मिन्सर्वा ऋचः सर्वाणि सामानि सर्वाणि यजूंषि प्रयुज्यन्ते
॥३॥ IAST
Devanāgarīव्रात्यानां प्रवासे व्रात्यस्तोमा उक्थ्या रथंतरसामानः । द्वितीयो वाग्निष्टोमः
॥४॥ IAST
Devanāgarīउष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णोऽश्वोऽश्वतरश्च युग्यौ कृष्णशं वासः कृष्णबलक्षे अजिने रजतो निष्कः
॥५॥ IAST
IAST
Devanāgarīबलूकान्तानि दामतूषाणीतरेषाम्
॥७॥ IAST
Devanāgarīद्वे द्वे दामनी भवतः । द्वे द्वे उपानहौ
॥८॥ IAST
Devanāgarīद्विषंहितान्यजिनानि
॥९॥ IAST
Devanāgarīत्रयस्त्रिंशतात्रयस्त्रिंशता गृहपतिमभि समायन्ति
॥१०॥ IAST
Devanāgarīता दक्षिणा भवन्ति
॥११॥ IAST
Devanāgarīअपि वा षट्षष्टिं गा वन्वीरन्
॥१२॥ IAST
Devanāgarīअथो खल्वाहुर्यदेवैषां सातं स्यात्तद्दद्युस्तद्धि व्रात्यधनमिति
॥१३॥ IAST
Devanāgarīषट्षोडशी निन्दितानाम् । द्विषोडशी कनिष्ठानाम् । ऊर्ध्वस्तोमो ज्येष्ठानाम् । चतुःषोडशी सर्वेषाम्
॥१४॥ IAST
Devanāgarīआदित्यानां प्रयतिरुक्थ्यो नाकसदां प्रथमः
॥१५॥ IAST
Devanāgarīव्यावृत्तिं पाप्मना भ्रातृव्येण गच्छन्ति
॥१६॥ IAST
Devanāgarīअग्निष्टोमा इतरे । अङ्गिरसां द्वितीयः । साध्यानां तृतीयः । मरुतां चतुर्थेनौजो वीर्यमाप्नोति । त्रयस्त्रिंशः पञ्चमः
॥१७॥ IAST
Devanāgarīस्वर्गकामोऽभिभुवा भ्रातृव्यमभिभवति । विनुत्त्या भ्रातृव्यं विनुदते
॥१८॥ IAST
षष्ठी कण्डिका
Devanāgarīचितिस्तोमः प्रजननकामः
॥१॥ IAST
Devanāgarīगायत्रेणाग्निष्टोमेन रथंतरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः
॥२॥ IAST
Devanāgarīगायत्रावग्निष्टोमौ प्रथमयज्ञौ
॥३॥ IAST
Devanāgarīप्रथमेन ब्राह्मणस्य तेजो ब्रह्मवर्चसम् । द्वितीयेन क्षत्रियस्य राष्ट्रमुग्रमव्यथ्यम् । न तु बहुपशू इव भवतः
॥४॥ IAST
Devanāgarīत्रिवृताग्निष्टुताग्निष्टोमेनापूतो यजेत
॥५॥ IAST
Devanāgarīआग्नेय्यः पुरोरुचः । आग्नेयी सुब्रह्मण्या
॥६॥ IAST
Devanāgarīआग्नेयीषु स्तुवतेऽजा हिरण्यं च दक्षिणा
॥७॥ IAST
Devanāgarīएतमेव चतुष्टोमं कृत्वा श्रोत्रियोऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत
॥८॥ IAST
Devanāgarīअश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः
॥९॥ IAST
Devanāgarīएतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वामयाक्विनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत् । एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम् । एतमेव चतुष्टोमं कृत्वा ग्रामकामम्
॥१०॥ IAST
Devanāgarīअप्रवर्ग्या भवन्तीत्येके
॥११॥ IAST
Devanāgarīत्रिवृतान्नाद्यकामः
॥१२॥ IAST
Devanāgarīपञ्चदशेन वीर्यकामः
॥१३॥ IAST
Devanāgarīसप्तदशेनाग्निष्टुताग्निष्टोमेन यज्ञविभ्रष्टो यजेत यस्मिन्वा क्रतौ विभ्रंशेत
॥१४॥ IAST
Devanāgarīत्रिवृदवाद्यं वदतः
॥१५॥ IAST
Devanāgarīपञ्चदशो निहत्यस्य निरुक्तः
॥१६॥ IAST
Devanāgarīसप्तदशोऽनाश्यान्नस्य भोजने
॥१७॥ IAST
Devanāgarīएकविंशो जनं यतो गन्धारिकलिङ्गमगधान्पारस्करान्सौवीरान्वा
॥१८॥ IAST
Devanāgarīत्रिणव ओजस्कामः
॥१९॥ IAST
Devanāgarīत्रयस्त्रिंशः स्वर्गकामः । अपि वा ज्योतिष्टोम एव
॥२०॥ IAST
Devanāgarīअग्निष्टोमे सर्वान्कामान्कामयेत
॥२१॥ IAST
सप्तमी कण्डिका
Devanāgarīचत्वारस्त्रिवृतोऽग्निष्टोमा रथंत्रसामानः
॥१॥ IAST
Devanāgarīतेषां प्रथमेनानिरुक्तेन ग्रामकामो यजेत
॥२॥ IAST
Devanāgarīनिरुक्तं प्रातःसवनमित्येके
॥३॥ IAST
Devanāgarīअश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः
॥४॥ IAST
Devanāgarīबृहस्पतिसवो द्वितीयः
॥५॥ IAST
Devanāgarīब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत यं वा स्थापत्यायाभिषिञ्चेयुः
॥६॥ IAST
Devanāgarīपरिस्रजी होता भवत्यरुणो मिर्मिरस्त्रिशुक्रः
॥७॥ IAST
Devanāgarīबृहस्पते जुषस्व न इति बार्हस्पत्यमतिग्राह्यं गृह्णाति
॥८॥ IAST
Devanāgarīबार्हस्पत्यः पशुरुपालम्भ्यः
॥९॥ IAST
Devanāgarīप्रातःसवने सन्नेषु नाराशंसेष्वेकादश दक्षिणा व्यादिशति
॥१०॥ IAST
Devanāgarīआज्येन माध्यंदिने सवने कृष्णाजिन आसीनमभिषिञ्चति शुक्रामन्थिवोर्वा संस्रावेण बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा न इति
॥११॥ IAST
Devanāgarīअश्वद्वादशा माध्यं दिने । एकादश तृतीयसवने
॥१२॥ IAST
Devanāgarīता उभयीरपाकरोति
॥१३॥ IAST
Devanāgarīअपि वाष्टौ प्रातः सवन एकादश माध्यंदिने द्वादश तृतीयसवने । सर्वा वा माध्यंदिने
॥१४॥ IAST
Devanāgarīअश्वं तृतीयशोऽनुसवनं नयन्ति
॥१५॥ IAST
Devanāgarīअपि वा मनसेतरयोः सवनयोर्ध्यायेत् । न वा मनसा चन
॥१६॥ IAST
Devanāgarīतृतीयस्येषुं विष्टुतिं कृत्वाभिचरन्यजेत
॥१७॥ IAST
Devanāgarīसमानमितरच्छ्येनेन
॥१८॥ IAST
Devanāgarīअश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः
॥१९॥ IAST
Devanāgarīचतुर्थः सर्वस्वारः शुनस्कर्णस्तोमः
॥२०॥ IAST
Devanāgarīमरणकामो यजेत यः कामयेतानामयता स्वर्गं लोकमियामिति
॥२१॥ IAST
Devanāgarīयाम्यः पशुः शुकहरित उपालम्भ्यः
॥२२॥ IAST
Devanāgarīकृतान्नं दक्षिणा
॥२३॥ IAST
Devanāgarīआर्भवे स्तूयमाने दक्षिणेनौदुम्बरीं पत्तोदशेनाहतेन वाससा दक्षिणाशिराः प्रावृतः संविशन्नाह ब्राह्मणाः समापयत मे यज्ञमिति
॥२४॥ IAST
Devanāgarīतदैव संतिष्ठते
॥२५॥ IAST
Devanāgarīभुवोक्थ्येन रथंतरसाम्ना भूतिकामो यजेत
॥२६॥ IAST
Devanāgarīधेनुर्दक्षिणा
॥२७॥ IAST
अष्टमी कण्डिका
Devanāgarīअक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति
॥१॥ IAST
Devanāgarīवैश्वदेवस्य लोके त्रिवृदग्निष्टोमः
॥२॥ IAST
Devanāgarīवैश्वदेवः पशुः । बार्हस्पत्यानूबन्ध्या
॥३॥ IAST
Devanāgarīप्रातःसवनीयान्वैश्वदेवहवींष्यनुनिर्वपति
॥४॥ IAST
Devanāgarīसमानं तु स्विष्टकृदिडम्
॥५॥ IAST
Devanāgarīन यूपं मिन्वन्ति । नोत्तरवेदिमुपवपन्ति
॥६॥ IAST
Devanāgarīपरिधौ पशुं नियुञ्जन्ति । उल्मुके बर्हिषि वा
॥७॥ IAST
Devanāgarīमिन्वन्त्युत्तरेषु यूपान् । उत्तरवेदिमुपवपन्ति
॥८॥ IAST
Devanāgarīततश्चतुर्षु मासेषु वरुणप्रघासानां लोकेऽग्निष्टोम उक्थ्यः । उक्थ्यावग्निष्टोमौ वा
॥९॥ IAST
Devanāgarīमारुतः पशुः । वारुणो द्वितीये । मैत्रावरुण्यनूबन्ध्या
॥१०॥ IAST
Devanāgarīवैश्वदेववद्वारुणप्रघासिकानि हवींषि
॥११॥ IAST
Devanāgarīमार्जालीये करम्भपात्रैश्चरन्ति
॥१२॥ IAST
Devanāgarīततश्चतुर्षु मासेषु साकमेधानां लोकेऽग्निष्टोम उक्थ्योऽतिरात्रः
॥१३॥ IAST
Devanāgarīआग्नेयः पशुः । ऐन्द्राग्नो द्वितीये । ऐकादशिनास्तृतीये प्राजापत्यो वा । सौर्यनूबन्ध्या
॥१४॥ IAST
Devanāgarīआनीकवतः प्रथमेऽहनि प्रातःसवनीयान् । सांतपनो माध्यंदिनीयान्
॥१५॥ IAST
Devanāgarīवसतीवरीषु परिहृतासु गृहमेधीयेन चरन्ति
॥१६॥ IAST
Devanāgarīउत्तरस्याह्न उपाकृते प्रातरनुवाके पूर्णदर्व्येण चरन्ति
॥१७॥ IAST
Devanāgarīक्रैडिनः प्रातःसवनीयान् । स्वातवसो माध्यं दिनीयान् । महाहविस्तार्तीयसवनिकान्
॥१८॥ IAST
Devanāgarīसन्नेषु नाराशंसेषु परिश्रिते मार्जालीये पितृयज्ञेन चरन्ति
॥१९॥ IAST
Devanāgarīत्रैयम्बकैश्चरित्वा प्रत्येत्यादित्येन चरन्ति
॥२०॥ IAST
नवमी कण्डिका
Devanāgarīततश्चतुर्षु मासेषु शुनासीरीयस्य लोके ज्योतिरग्निष्टोमः
॥१॥ IAST
Devanāgarīवायव्यः पशुः । आश्विन्यनूबन्ध्या
॥२॥ IAST
Devanāgarīवैश्वदेववच्छुनासीरीयहवींषि
॥३॥ IAST
Devanāgarīचातुर्मास्यवदन्तरालव्रतानि
॥४॥ IAST
Devanāgarīसर्वत्राहतं वसानोऽवभृथादुदेति
॥५॥ IAST
Devanāgarīअन्वहं पञ्चाशत्पञ्चाशद्गा दक्षिणा ददाति । द्वादशं शतमुत्तमे
॥६॥ IAST
Devanāgarīयथर्तुजा वा यथास्वं चातुर्मास्येषु । वत्सांस्तृतीयसवने सह मातृभिः
॥७॥ IAST
Devanāgarīउपहव्येनाग्निष्टोमेनानिरुक्तेन ग्रामकामो यजेत
॥८॥ IAST
Devanāgarīनिरुक्तं प्रातःसवनमित्येके
॥९॥ IAST
Devanāgarīअश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः
॥१०॥ IAST
Devanāgarīऋतपेयेनाग्निष्टोमेन बृहत्साम्ना स्वर्गकामः
॥११॥ IAST
Devanāgarīषड् दीक्षा नव वा षडुपसदः
॥१२॥ IAST
Devanāgarīघृतव्रतो भवति
॥१३॥ IAST
Devanāgarīयावत्प्रथममङ्गुलिकाण्डं तावत्क्रीते सोमे व्रतम्
॥१४॥ IAST
Devanāgarīउत्तरेणोत्तरेण काण्डेन व्रतमुपैति
॥१५॥ IAST
Devanāgarīनक्तमाहवनीयमभ्यावृत्यास्ते । दिवादित्यम्
॥१६॥ IAST
Devanāgarīऋतमुक्त्वा प्रसर्पन्ति । ऋतं वदन्तो भक्षयन्ति
॥१७॥ IAST
Devanāgarīऔदुम्बरश्चमसश्चतुःस्रक्तिः सोमस्य पूर्णः सगोत्राय प्रियाय ब्रह्मणे देयः
॥१८॥ IAST
Devanāgarīबहुहिरण्येनाग्निष्टोमेनानडुहो लोकमाप्नोति ज्योतिष्मतो लोकाञ्जयति
॥१९॥ IAST
Devanāgarīद्वादशमानं हिरण्यं दीक्षणीयायां ददाति । द्विस्तावत्प्रायणीयायाम्
॥२०॥ IAST
Devanāgarīएवमत ऊर्ध्वं द्विगुणाभ्यासेनातिथ्यायामुपसत्प्रयोगेष्व ग्नीषोमीयस्य वपायामग्नीषोमये सवनीयस्य वपायां सवनीये प्रातःसवने
॥२१॥ IAST
Devanāgarīसन्नेषु नाराशंसेष्वनडुच्छतमधिकं ददाति
॥२२॥ IAST
दशमी कण्डिका
Devanāgarīहिरण्यस्रजमुद्गात्रे षट्पुष्करां द्वादशपुष्करां वा यज्ञायज्ञीयस्य स्तोत्रेऽवभृथेष्ट्यामुदयनीयायामनूबन्ध्यायामुदवसानीयायां च
॥१॥ IAST
Devanāgarīत्रिवृताग्निष्टुताग्निष्टोमेन रथंतरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः
॥२॥ IAST
Devanāgarīपञ्चदशेनेन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्य वीर्यकामः
॥३॥ IAST
Devanāgarīसप्तदशेनाग्निष्टुताग्निष्टोमेन कण्वरथंतरसाम्ना वैश्यः पशुकामः
॥४॥ IAST
Devanāgarīप्रतिधुषा प्रातःसवन इत्युक्तम्
॥५॥ IAST
Devanāgarīतीव्रसुतोक्थ्येन रथंतरसाम्ना बृहत्साम्नोभयसाम्ना वामयाविनमन्नाद्यकामं प्रजाकामं पशुकामं श्रिया वा प्रत्यवरूढं याजयेत्
॥६॥ IAST
Devanāgarīशतमाशिरे दुहन्ति
॥७॥ IAST
Devanāgarīता दक्षिणा भवन्ति
॥८॥ IAST
Devanāgarīवैश्यसववच्छ्रयणानि
॥९॥ IAST
Devanāgarīनीतमिश्रेण वा तृतीयसवने
॥१०॥ IAST
Devanāgarīअभि सोमानुन्नयन्ति
॥११॥ IAST
Devanāgarīअवजिघ्रन्त्यृत्विजो न भक्षयन्ति
॥१२॥ IAST
Devanāgarīतानच्छावाकस्य स्तोत्रे भक्षयन्ति
॥१३॥ IAST
Devanāgarīब्रह्मणि होत्रका उपहवमिच्छन्ते
॥१४॥ IAST
Devanāgarīउभावध्वर्यू सर्वे चमसाध्वर्यवोऽच्छावाकाय प्रतिगृणन्ति
॥१५॥ IAST
Devanāgarīप्राच्येकादशिनी संमीयते
॥१६॥ IAST
Devanāgarīयावद्यूपं वेदिमुद्धन्ति
॥१७॥ IAST
Devanāgarīवडबा श्वेता गर्भिणी दक्षिणा
॥१८॥ IAST
Devanāgarīमरुत्स्तोमेन राजपुरोहितौ सायुज्यम्
॥१९॥ IAST
Devanāgarīअथैष राड् । यो राज्यमाशंसमानो न लभेत स एतन
॥२०॥ IAST
Devanāgarīविराजान्नाद्यकामः । स्वराजा प्रतिष्ठाकामः
॥२१॥ IAST
एकादशी कण्डिका
Devanāgarīबहु प्रतिगृह्य यो गरगीरिव मन्येत स पुनस्तोमेन । अनाश्यान्नस्य वा भुक्त्वा
॥१॥ IAST
Devanāgarīअयाज्यं वा याजयित्वेत्येके
॥२॥ IAST
Devanāgarīयो लघुरिवाप्रतिष्ठितः स्यात्स एतेन
॥३॥ IAST
Devanāgarīएकविंशेनो पच्छदेन प्रजाकामः
॥४॥ IAST
Devanāgarīस्तोत्रेस्तोत्र एकैका स्तोत्रीयोपजायते
॥५॥ IAST
Devanāgarīगन्धर्वाप्सरसो मादयन्तामिति प्रातःसवने
॥६॥ IAST
Devanāgarīसन्नेषु नाराशंसेष्वधस्तात्पूतोंऽशुमुपास्यति
॥७॥ IAST
Devanāgarīगन्धर्वा देवा मादयन्तामिति माध्यंदिने । गन्धर्वाः पितरो मादयन्तामिति तृतीयसवने
॥८॥ IAST
Devanāgarīछदेन भ्रातृव्यवान्
॥९॥ IAST
Devanāgarīस्तोत्रेस्तोत्र एकैका स्तोत्रीयापध्वंसते
॥१०॥ IAST
Devanāgarīतामस्यापध्वंसमानां भातृव्यो ऽन्वपध्वंसत इति विज्ञायते
॥११॥ IAST
Devanāgarīसर्वतोमुखेन यः कामयेत सर्वमिदं भवेयमिति
॥१२॥ IAST
Devanāgarīमध्ये गार्हपत्यः । प्रतिदिशं सौमिका विहाराः । त्रिवृत्प्राच्यां दिशि । पञ्चदशो दक्षिणतः । सप्तदशः पश्चात् । एकविंश उत्तरतः
॥१३॥ IAST
Devanāgarīराशिमरायू चतुष्टोमावन्नाद्यकामस्य
॥१४॥ IAST
Devanāgarīधान्यराशिं पूर्वस्मिन्ददाति । धान्यमरायुमुत्तरे
॥१५॥ IAST
Devanāgarīगोतमचतुष्टोमाभ्यां पशुकामः
॥१६॥ IAST
Devanāgarīउक्थ्यः षोडशिमानुत्तरः
॥१७॥ IAST
Devanāgarīनपुंसकपशू इव भवतः
॥१८॥ IAST
Devanāgarīउद्भिद्वलभिद्भ्यां पशुकामः
॥१९॥ IAST
Devanāgarīउद्भिदेष्ट्वा संवत्सरे वलभिदा यजेत
॥२०॥ IAST
Devanāgarīआग्नेयेनाष्टाकपालेनान्तरालं प्रतिपद्यते
॥२१॥ IAST
Devanāgarīउभयत्र गायत्रीः संपूर्णा दक्षिणा ददाति
॥२२॥ IAST
द्वादशी कण्डिका
IAST
Devanāgarīअपचितिकामोऽपचितिभ्याम्
॥२॥ IAST
Devanāgarīउभयसामानौ भवतः
॥३॥ IAST
Devanāgarīतयोरश्वरथश्चतुर्युग्दक्षिणा
॥४॥ IAST
Devanāgarīसर्वे शतक्रियोऽश्वाः
॥५॥ IAST
Devanāgarīस रुक्मी प्रावेपी सर्वाभरण्यंशुमान्
॥६॥ IAST
Devanāgarīतस्य वैयाघ्रः परिवारो द्वैपो धन्वधिरार्क्षः कवचः
॥७॥ IAST
Devanāgarīअध्यास्थाता संनद्धः संनद्धसारथिरावृतः प्रतिहिताभ्याम्
॥८॥ IAST
Devanāgarīनिष्की स्रग्वी संग्रहीता भवतीति विज्ञायते
॥९॥ IAST
Devanāgarīपक्षिभ्यां साग्निचित्याभ्यां यः कामयेत पक्षी ज्योतिष्मतः स्वर्गांल्लोकाननुसंचरेयमिति
॥१०॥ IAST
Devanāgarīऋषभेणाग्निष्टोमेन रथंतरसाम्ना राजानं संग्रामे संयत्ते याजयेत्
॥११॥ IAST
Devanāgarīयत्तत्र विन्देरंस्ततो द्वादशशतं दक्षिणा
॥१२॥ IAST
Devanāgarīव्योम्ना स्वर्गकामः
॥१३॥ IAST
Devanāgarīउभे बृहद्रथंतरे भवतः
॥१४॥ IAST
Devanāgarīसर्वः सप्तदशो भवति
॥१५॥ IAST
Devanāgarīएकविंशमग्निष्टोमसाम
॥१६॥ IAST
Devanāgarīगोसवेन षट्त्रिंशेनोक्थ्येन रथंतरसाम्ना बृहत्साम्नोभयसाम्ना वा स्वाराज्यकामः
॥१७॥ IAST
Devanāgarīकण्वरथंतरं पवमाने
॥१८॥ IAST
Devanāgarīअयुतं दक्षिणा
॥१९॥ IAST
Devanāgarīदक्षिणेनाहवनीयमनुद्धते वेद्यै बृहतः स्तोत्रं प्रत्यभिषिच्यते प्रतिधुषा रेवज्जातः सहसा वृद्धः क्षत्राणां क्षत्रभृत्तमो वयोधाः । महान्महित्वे तस्तभानः क्षत्रे राष्ट्रे च जागृहि । प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीति
॥२०॥ IAST
त्रयोदशी कण्डिका
Devanāgarīतेनेष्ट्वा संवत्सरं पशुव्रतो भवति
॥१॥ IAST
Devanāgarīउपवहायोदकं पिबेत्तृणानि चाच्छिन्द्यात् उप मातरमियादुप स्वसारमुप सगोत्राम्
॥२॥ IAST
Devanāgarīयत्रयत्रैनं विष्ठा विन्देत्तद्वितिष्ठेत
॥३॥ IAST
Devanāgarīमरुतां स्तोमेनानन्तां श्रियं जयति
॥४॥ IAST
Devanāgarīएतेन द्वौ त्रीन्वा याजयेत्
॥५॥ IAST
Devanāgarīअग्नेः कुलायावन्नाद्यकामस्य
॥६॥ IAST
Devanāgarīइन्द्राग्नियोः कुलायौ स्वर्गकामस्य
॥७॥ IAST
Devanāgarīइन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्यो वीर्यकामः
॥८॥ IAST
Devanāgarīऋषभो दक्षिणा
॥९॥ IAST
Devanāgarīइन्द्राग्नियोः स्तोमेन राजपुरोहितावुभावेकर्द्धि याजयेत्
॥१०॥ IAST
Devanāgarīतेजो ब्रह्मवर्चसं ब्राह्मणस्य । विशं राजा प्रविशति
॥११॥ IAST
Devanāgarīविघनेन वि पाप्मानं भ्रातृव्यं हते । तेन सर्वा मृधो विहते
॥१२॥ IAST
Devanāgarīवज्रेण षोडशिनाभिचरन् । संदंशेनाभिचरन्
॥१३॥ IAST
Devanāgarīतयोः श्येनेन कल्पो व्याख्यातः
॥१४॥ IAST
Devanāgarīत्रयोदशातिरात्राः
॥१५॥ IAST
Devanāgarīज्योतिषर्द्धिकामः
॥१६॥ IAST
Devanāgarīसर्वस्तोमेन बुभूषन्
॥१७॥ IAST
Devanāgarīऐकादशिनाः पशवः
॥१८॥ IAST
Devanāgarīयस्मात्पशवः प्र प्रेव भ्रंशेरन्नप्तोर्यामेण । सर्वमाप्नोति सर्वं जयति
॥१९॥ IAST
Devanāgarīनवसप्तदशेन प्रजाकामः
॥२०॥ IAST
Devanāgarīविषुवता ज्यैष्ठिनेयः । ज्यैष्ठ्यमाप्नोति
॥२१॥ IAST
Devanāgarīगोष्टोमेन बुभूषन्
॥२२॥ IAST
Devanāgarīआयुषा स्वर्गकामः
॥२३॥ IAST
Devanāgarīअभिजिता पशुकामः
॥२४॥ IAST
Devanāgarīविश्वजिता भ्रातृव्यवान्
॥२५॥ IAST
Devanāgarīत्रिवृतान्नाद्यकामः
॥२६॥ IAST
Devanāgarīपञ्चदशेन वीर्यकामः
॥२७॥ IAST
Devanāgarīसप्तदशेन प्रजाकामः
॥२८॥ IAST
Devanāgarīएकविंशेन प्रतिष्ठाकामः
॥२९॥ IAST
चतुर्दशी कण्डिका
Devanāgarīद्विरात्रप्रभृतय उपरिष्टादतिरात्रा अहीना ऐकादशरात्रात्
॥१॥ IAST
Devanāgarīतेषां द्वादशाहेनाहीनभूतेन कल्पो व्याख्यातः
॥२॥ IAST
Devanāgarīद्विरात्रस्यैन्द्रवायवाग्रं प्रथममहः शुक्राग्रमुत्तरम्
॥३॥ IAST
Devanāgarīत्रिरात्रस्यैतच्चैवाग्रयणाग्रं च
॥४॥ IAST
Devanāgarīचतूरात्रस्यैतच्चैवैन्द्रवायवाग्रं च
॥५॥ IAST
Devanāgarīपञ्चरात्रस्यैतच्चैव शुक्राग्रं च
॥६॥ IAST
Devanāgarīषड्रात्रे द्विः परिवर्तते
॥७॥ IAST
Devanāgarīसप्तरात्र स्यैतच्चैवैन्द्रवायवाग्रं च
॥८॥ IAST
Devanāgarīअष्टरात्रस्यैतच्चैव शुक्राग्रं च
॥९॥ IAST
Devanāgarīनवरात्रे त्रिः परिवर्तते
॥१०॥ IAST
Devanāgarīदशरात्रस्यैतच्चैवैन्द्रवायवाग्रं च
॥११॥ IAST
Devanāgarīएकादशरात्रस्यैतच्चैव शुक्राग्रं च
॥१२॥ IAST
Devanāgarīद्वादशरात्रे चतुः परिवर्तते
॥१३॥ IAST
Devanāgarīषोडशिनो ग्रहणं द्विरात्रस्योत्तरेऽहन्
॥१४॥ IAST
Devanāgarīग्राह्यो मध्यमे त्रिरात्रस्य । चतुर्थेचतुर्थे चतूरात्रप्रभृतिषु नानाहीनेषु
॥१५॥ IAST
Devanāgarīचत्वारो द्विरात्राः
॥१६॥ IAST
Devanāgarīव्युष्टिद्विरात्रः प्रथमः । स व्याख्यातः
॥१७॥ IAST
Devanāgarīआङ्गीरसेन यः पुण्यो हीन इव स्यात्स एतेन
॥१८॥ IAST
Devanāgarīज्योतिष्टोमोऽग्निष्टोमः पूर्वः । सर्वस्तोमोऽतिरात्र उत्तरः
॥१९॥ IAST
Devanāgarīकापिवनेन यं कामं कामयते तमभ्यश्नुतेऽलूक्षो भवति
॥२०॥ IAST
Devanāgarīज्योतिरुक्थ्योऽग्निष्टोमो वा पूर्वः अतिरात्र उत्तरः
॥२१॥ IAST
Devanāgarīचैत्ररथेन प्राणेष्वन्नाद्ये च प्रतितिष्ठति
॥२२॥ IAST
Devanāgarīअग्निष्टोमः पूर्वः । अतिरात्र उत्तरः
॥२३॥ IAST
पञ्चदशी कण्डिका
Devanāgarīगर्गत्रिरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति वसून्रुद्रानादित्यानन्वारोहति
॥१॥ IAST
Devanāgarīत्रैधातवीया दीक्षणीया
॥२॥ IAST
Devanāgarīरोहिणी वभ्रुर्वा पिङ्गलैकहायनी द्विहायनी वा सोमक्रयणी
॥३॥ IAST
Devanāgarīअग्निष्टोम उक्थ्यो ऽतिरात्रः
॥४॥ IAST
Devanāgarīरथंतरं वामदेव्यं बृहदिति पृष्ठानि
॥५॥ IAST
Devanāgarīसहस्रं दक्षिणा
॥६॥ IAST
Devanāgarīत्रीणि शतानि त्रयस्त्रिंशतं च प्रथमेऽहनि ददाति । एवं द्वितीये तृतीये च
॥७॥ IAST
Devanāgarīसाहस्र्यतिरिच्यते रोहिण्युपध्वस्ता द्विरूपोभयत एन्यन्यतरतो वा
॥८॥ IAST
Devanāgarīयैव वरः कल्याणीत्युक्तम्
॥९॥ IAST
Devanāgarīउद्भृष्टिः प्रथमेऽहनि मुख्यः
॥१०॥ IAST
Devanāgarīतमभिमन्त्रयते त्वमग्न सहस्रमा नयोद्वलस्याभिनत्त्वचम् । स नः सहस्रमा नय प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति
॥११॥ IAST
Devanāgarīवेहद्द्वितीये
॥१२॥ IAST
Devanāgarīतामभिमन्त्रयते त्वमपामोषधीनां रसेन रसिनी बभूविथ । सा मा सहस्र आ भज प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति
॥१३॥ IAST
Devanāgarīवामनस्तृतीये
॥१४॥ IAST
Devanāgarīतमभिमन्त्रयते सहस्रस्य प्रतिष्ठासि वैष्णवो वामनस्त्वम् । स नः सहस्र आ धेहि प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति
॥१५॥ IAST
Devanāgarīतामुत्तरेणाग्नीध्रमित्युक्तम्
॥१६॥ IAST
षोडशी कण्डिका
Devanāgarīदक्षिणेन वा वेदिं नीत्वान्तरा यूपमाहवनीयं च द्रोणकलशमवघ्रापयेदा जिघ्र कलशमिति । आग्नीध्रे हविर्धाने वा
॥१॥ IAST
Devanāgarīतामुदीचीमाग्नीध्रं नीत्वा तस्याः पृष्ठे तार्प्यमध्यस्यति
॥२॥ IAST
Devanāgarīतस्मिन्धिष्णियानां रूपं विग्रथितं भवति
॥३॥ IAST
Devanāgarīअथ पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादुभा जिग्यथुरिति
॥४॥ IAST
Devanāgarīरूपाणि जुहोति यानि तस्यां भवन्ति
॥५॥ IAST
Devanāgarīआश्वमेधिकान्येके समामनन्ति
॥६॥ IAST
Devanāgarīप्रतीचीं सदसः स्रक्तिमानीय तस्या उपोत्थाय दक्षिणं कर्णमाजपेदिडे रन्ते इति
॥७॥ IAST
Devanāgarīउत्सृज्य विज्ञानमुपैति
॥८॥ IAST
Devanāgarīयद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति विद्यात् । यदि दक्षिणा क्षिप्रेऽस्माल्लोकात्प्रैष्यति । यदि प्रतीची बहुधान्यो भविष्यति । यद्युदीची श्रेयानस्मिंल्लोके भविष्यतीति
॥९॥ IAST
Devanāgarīतां यजमानोऽभिमन्त्रयते सा मा सुवर्गं लोकं गमयेति
॥१०॥ IAST
Devanāgarīयास्तिस्रस्तिस्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे ब्रह्मणे होत्र उद्गात्र उन्नेत्रेऽध्वर्यवे वा दद्यात्
॥११॥ IAST
Devanāgarīद्वौ वोन्नेतारौ वृत्वा यतरो नाश्रावयेत्तस्मै वा
॥१२॥ IAST
Devanāgarīद्विभागं वा ब्रह्मणे तृतीयमग्नीधे
॥१३॥ IAST
Devanāgarīसर्वेभ्यो वा सदस्येभ्यः
॥१४॥ IAST
Devanāgarīउदाकृत्या वा सा वशं चरेत् । यस्तामविद्वान्प्रतिगृह्णातीत्युक्तम्
॥१५॥ IAST
Devanāgarīतां शतमानेन हिरण्येन निष्क्रीय यजमानस्य गोष्ठे विसृजति
॥१६॥ IAST
सप्तदशी कण्डिका
Devanāgarīदश प्रथमेऽहन्नाशिरं दुहन्ति । विंशतिं द्वितीये । त्रिंशतं तृतीये
॥१॥ IAST
Devanāgarīकृतान्नं प्रथमेऽहनि देयम् । हिरण्यं गौर्वास इति द्वितीये । अनो रथोऽश्वो हस्ती पुरुष इति तृतीये
॥२॥ IAST
Devanāgarīन साहस्रेऽधि किं चिद्दद्यात्
॥३॥ IAST
Devanāgarīदद्यादित्येके
॥४॥ IAST
Devanāgarīयदि दद्यादनूबन्ध्यावपायां हुतायां दक्षिणा नयन्नन्यूना दशतो नयेत्
॥५॥ IAST
Devanāgarīयस्मा एकां गां दास्यन्स्याद्दशभ्यस्तेभ्यो दशतमुपाकुर्यात्
॥६॥ IAST
Devanāgarīयस्मै द्वे पञ्चभ्यः । यस्मै पञ्च द्वाभ्याम्
॥७॥ IAST
Devanāgarīएवमा शतादा वा सहस्रात्
॥८॥ IAST
Devanāgarīउत्तमां दक्षिणां नीत्वोदवसाय वा शबली
॥९॥ IAST
Devanāgarīसमुद्रोऽसि विश्वव्यचा ब्रह्मा देवानां प्रथमजा ऋतस्य । अन्नमसि शुक्रमसि ज्योतिरस्यमृतमसि । तां त्वा विद्म शबलि दीद्यानाम् । तस्यास्ते पृथिवी पादोऽन्तरिक्षं पादो द्यौः पादः समुद्रः पादः । एषासि शबलि तां त्वा विद्म सा न इषमूर्जं धुक्ष्व वसोर्धारां शबलि प्रजानां शविष्ठा व्रजमनुगेषं स्वाहेति शबलीहोमं जुहोति
॥१०॥ IAST
अष्टादशी कण्डिका
Devanāgarīअश्वमेधस्याग्निष्टोम उक्थ्योऽतिरात्रः
॥१॥ IAST
Devanāgarīरथंतरं महानाम्नी बृहदिति पृष्ठानि
॥२॥ IAST
Devanāgarīराजा यजेत यः कामयेत सर्वमिदं भवेयमिति
॥३॥ IAST
Devanāgarīबैदत्रिरात्रेण स्वाराज्यकामः
॥४॥ IAST
Devanāgarīत्रयस्त्रिवृतोऽतिरात्राः षोडशिमन्तः
॥५॥ IAST
Devanāgarīरथंतरं वामदेव्यं बृहदिति पृष्ठानि
॥६॥ IAST
Devanāgarīगर्गत्रिरात्रेणोत्तरेषां त्रयाणामहानि पृष्ठानीति व्याख्यातानि
॥७॥ IAST
Devanāgarīछन्दोमपवमानेन पशुकामः
॥८॥ IAST
Devanāgarīअन्तर्वसुना पशूनाप्नोति
॥९॥ IAST
Devanāgarīपराकेण स्वर्गकामः
॥१०॥ IAST
Devanāgarīचत्वारश्चतूरात्राः
॥११॥ IAST
Devanāgarīअत्रेः प्रथमश्चतुर्वीरः
॥१२॥ IAST
Devanāgarīचत्वारो ऽस्य वीराः कुल आजायन्ते सुहोतेत्युक्तम्
॥१३॥ IAST
Devanāgarīअग्निष्टोम उक्थ्यावतिरात्रो ऽत्रेरेव चत्वारश्चतुष्टोमाः
॥१४॥ IAST
Devanāgarīअत्रिं श्रद्धादेवमित्युक्तम्
॥१५॥ IAST
Devanāgarīजामदग्न्येन पुष्टिकामः
॥१६॥ IAST
Devanāgarīपुरोडाशिन्य उपसदो भवन्ति
॥१७॥ IAST
Devanāgarīआग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस्त्रिकपालः सौम्यश्चतुष्कपालः सावित्रः पञ्चकपालो धात्रः षट्कपालो मारुतः सप्तकपालो बार्हस्पत्योऽष्टाकपालो मैत्रो नवकपालो वारुणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः
॥१८॥ IAST
Devanāgarīदर्विहोमा भवन्ति
॥१९॥ IAST
एकोनविंशी कण्डिका
Devanāgarīअग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्राय देवेभ्यो जुषतां हविः स्वाहा । देवावश्विना मधुकशयाद्यास्मिन्यज्ञे यजमानाय मिमिक्षतम् । देव विष्णवुर्वद्येमं यज्ञम् यजमानायानुविक्रमस्व । देव सवितः सुषावित्रमद्यास्मिन्यज्ञे यजमानायासुवस्व । देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधि । देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदत । देव्यदितेऽन्वद्येमं यज्ञं यजमानायैधि । देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्व । दिव्या आपो नन्नम्यध्वमद्यास्मिन्यज्ञे यजमानाय । सदःसदः प्रजावानृभुर्जुषाणः । देवेन्द्रेन्द्रियमद्यास्मिन्यज्ञे यजमानायैधि । देव त्वष्टः सुरेतोधा अद्यास्मिन्यज्ञे यजमानायैधीति प्रतिनिगद्य होमाः
॥१॥ IAST
Devanāgarīइन्द्राय देवेभ्यो जुषतां हविः स्वाहेति सर्वत्रानुषजति
॥२॥ IAST
विंशी कण्डिका
Devanāgarīवसिष्ठस्य संसर्पः । यः पुण्यो हीन इव स्यात्स एतेन
॥१॥ IAST
Devanāgarīविश्वामित्रस्य संजयः । भ्रातृव्यवान्यजेत
॥२॥ IAST
Devanāgarīपञ्च पञ्चाहाः
॥३॥ IAST
Devanāgarīसंवत्सरो वा इदमेक आसीदित्युक्तम्
॥४॥ IAST
Devanāgarīअभ्यासङ्ग्यो द्वितीयः
॥५॥ IAST
Devanāgarīयं कामं कामयते तमभ्यश्नुते
॥६॥ IAST
Devanāgarīअग्निष्टोमस्त्रय उक्थ्या अतिरात्रः
॥७॥ IAST
Devanāgarīत्रिवृती द्वे सवने पञ्चदशमेकम् । पञ्चदशे द्वे सप्तदशमेकम् । सप्तदशे द्वे एकविंशमेकम् । एकविंशे द्वे त्रिणवमेकम् । त्रिनवे द्वे त्रयस्त्रिंशमेकम्
॥८॥ IAST
Devanāgarīपञ्चशारदीयेन बहोर्भूयान्भवति
॥९॥ IAST
Devanāgarīअनुसंवत्सरं पशुबन्धेन यजते
॥१०॥ IAST
Devanāgarīसप्तदश पृश्नीनुक्ष्णः पञ्चवर्षानानयन्ति । सप्तदश पृश्नीर्वत्सतर्यस्त्रिवत्सा अप्रवीताः
॥११॥ IAST
Devanāgarīप्रोक्षितान्पर्यग्निकृतानुक्ष्ण उत्सृजन्ति । वत्सतरीरालभन्ते
॥१२॥ IAST
Devanāgarīवर्णाननुक्रमिष्यामः
॥१३॥ IAST
Devanāgarīराजीवा नवनीतपृश्नीररुणाः पिशङ्गीः सारङ्गीरुत्तमीरालभ्य दीक्षन्ते
॥१४॥ IAST
Devanāgarīत्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चदश उक्थ्यः सप्तदशोऽतिरात्रः
॥१५॥ IAST
Devanāgarīएत उक्षाणः सवनीयाः
॥१६॥ IAST
Devanāgarīत्रींस्त्रीनन्वहमालभन्ते । पञ्चोत्तमेऽहन्
॥१७॥ IAST
Devanāgarīऐन्द्रमारुता उक्षाणः । मारुत्यो वत्सतर्यः
॥१८॥ IAST
Devanāgarīयद्युक्ष्णो रुद्रोऽभिमन्येत
॥१९॥ IAST
एकविंशी कण्डिका
Devanāgarīअग्नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेत्
॥१॥ IAST
Devanāgarīअपोनप्त्रीयं चरुं यद्यप्सु पतेत्
॥२॥ IAST
Devanāgarīनैरृतं चरुं यद्यवसीदेत्
॥३॥ IAST
Devanāgarīभौमं चरुमेककपालं वा यद्यवसन्नः संशीर्णो वा
॥४॥ IAST
Devanāgarīबार्हस्पत्यं चरुं यदि श्लोणः कूटो वा
॥५॥ IAST
Devanāgarīयदि नश्येद्वायव्यं चरुम्
॥६॥ IAST
Devanāgarīयदि सेनाभीत्वरी विन्देतेन्द्राय जयत एकादशकपालम्
॥७॥ IAST
Devanāgarīयदि प्रासहा नयेयुरिन्द्राय प्रसह्वन एकादशकपालम्
॥८॥ IAST
Devanāgarīयद्यन्धः स्यात्सौर्यं चरुमेककपालं वा
॥९॥ IAST
Devanāgarīयदि श्वभ्रं प्रपतेद्वैष्णवं चरुम्
॥१०॥ IAST
Devanāgarīयद्यविज्ञातेन यक्ष्मणा म्रियेत प्राजापत्यं चरुं द्वादशकपालं वा
॥११॥ IAST
Devanāgarīचतुर्थोऽन्तर्महाव्रतः
॥१२॥ IAST
Devanāgarīभ्रातृव्यवान्यजेत
॥१३॥ IAST
Devanāgarīत्रिवृदग्निष्टोमः पञ्चदश उक्थ्यो महाव्रतं सप्तदश उक्थ्य एकविंशोऽतिरात्रः
॥१४॥ IAST
Devanāgarīपुरुषमेधः पञ्चमः
॥१५॥ IAST
Devanāgarīपञ्चशारदीयवदहानि
॥१६॥ IAST
Devanāgarīअयुतं प्रथमेऽहनि ददाति । नियुतं द्वितीये । अर्बुदं न्यर्बुदम् च तृतीये । यथा प्रथमयोरेवमुत्तरयोः
॥१७॥ IAST
द्वाविंशी कण्डिका
Devanāgarīचत्वारः षडहाः
॥१॥ IAST
Devanāgarīसाध्यानां प्रथमः
॥२॥ IAST
Devanāgarīसाध्या वै देवाः सुवर्गकामा इत्युक्तम्
॥३॥ IAST
Devanāgarīऋतूनां द्वितीयेन प्रजाकामः
॥४॥ IAST
Devanāgarīपृष्ठः षडहः
॥५॥ IAST
Devanāgarīतृतीयेनोपरिष्टात्त्रिकद्रुकेण यं कामं कामयते तमभ्यश्नुते
॥६॥ IAST
Devanāgarīत्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः
॥७॥ IAST
Devanāgarīचतुर्थेन प्रैव जायते प्रजया पशुभिः
॥८॥ IAST
Devanāgarīअभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः
॥९॥ IAST
Devanāgarīअष्टौ सप्तरात्राः
॥१०॥ IAST
Devanāgarīकौसुरुबिन्देन पशुकामः
॥११॥ IAST
Devanāgarīस व्याख्यातः
॥१२॥ IAST
Devanāgarīसप्तर्षीणां द्वितीयेन स्वर्गकामः
॥१३॥ IAST
Devanāgarīपृष्ठ्यः षडहो महाव्रतवानतिरात्रः
॥१४॥ IAST
Devanāgarīप्राजापत्येन प्रजाकामः
॥१५॥ IAST
Devanāgarīपृष्ठ्यः षडहः प्राजापत्यं महाव्रतमतिरात्रे
॥१६॥ IAST
Devanāgarīछन्दोमपवमानेन पशुकामः
॥१७॥ IAST
Devanāgarīपृष्ठ्यः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रे
॥१८॥ IAST
Devanāgarīपृष्ठ्यावलम्बेनान्नाद्यकामः
॥१९॥ IAST
Devanāgarīपृष्ठ्यस्तोमः षडहो महाव्रतवानतिरात्रः
॥२०॥ IAST
त्रयोविंशी कण्डिका
Devanāgarīसत्त्रसंमितेनान्नाद्यकामः
॥१॥ IAST
Devanāgarīकौसुरुबिन्दवदहानि
॥२॥ IAST
Devanāgarīऐन्द्रेणौजस्कामः
॥३॥ IAST
Devanāgarīज्योतिर्गौरायुरथाभिजिद्विश्वजित्सर्वजित्सर्वस्तोमोऽतिरात्रः
॥४॥ IAST
Devanāgarīजनकसप्तरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति
॥५॥ IAST
Devanāgarīचत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमो वैश्वानरोऽतिरात्रः
॥६॥ IAST
Devanāgarīअष्टरात्रेण ब्रह्मवर्चसकामः । स व्याख्यातः
॥७॥ IAST
Devanāgarīत्रयो नवरात्राः
॥८॥ IAST
Devanāgarīप्रथमेनायुष्कामः
॥९॥ IAST
Devanāgarīपृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः
॥१०॥ IAST
Devanāgarīद्वितीयेन ब्रह्मवर्चसकामः
॥११॥ IAST
Devanāgarīत्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्योऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः
॥१२॥ IAST
Devanāgarīशललीपिशङ्गेनान्नाद्यकामः
॥१३॥ IAST
Devanāgarīज्योतिर्गौरायुर्ज्योतिर्गौरायुर्गौर्ज्योतिरतिरात्रः
॥१४॥ IAST
Devanāgarīचत्वारो दशरात्राः
॥१५॥ IAST
Devanāgarīदशरात्राय दीक्षिष्यमाणो दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहुयात्
॥१६॥ IAST
Devanāgarīत्रिककुत्प्रथमः । त्रिककुत्प्रजानां समानानां च भवति
॥१७॥ IAST
Devanāgarīत्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः सप्तदशोऽग्निष्टोम एकविंश उक्थ्यः सप्तदशोऽग्निष्टोमस्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिंश उक्थ्यस्त्रिणवोऽग्निष्टोमो विश्वजित्सर्वपृष्ठोऽतिरात्रः
॥१८॥ IAST
चतुर्विंशी कण्डिका
Devanāgarīदेवपुराभिचर्यमाणः
॥१॥ IAST
Devanāgarīत्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो ऽभिजिदग्निष्टोमो गौरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः
॥२॥ IAST
Devanāgarīछन्दोमवता पुरुषं पशूनोजो वीर्यमाप्नोति
॥३॥ IAST
Devanāgarīअभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमा अतिरात्रः
॥४॥ IAST
Devanāgarīअथैकेषाम् । अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा अतिरात्रः
॥५॥ IAST
Devanāgarīकौसुरुबिन्देन बहोर्भूयान्भवति
॥६॥ IAST
Devanāgarīत्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः सप्तदशा उक्थ्या एकविंशोऽतिरात्रः
॥७॥ IAST
Devanāgarīपौण्डरीक एकादशरात्रोऽयुतदक्षिणः
॥८॥ IAST
Devanāgarīअन्वहं सहस्राणि ददाति । अश्वसहस्रमुत्तमेऽश्वशतं वा
॥९॥ IAST
Devanāgarīतेन सर्वामृद्धिमृध्नोति परमेष्ठितां गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति
॥१०॥ IAST
Devanāgarīअभ्यासङ्ग्यः षडहश्चतुष्टोमोऽग्निष्टोमस्त्रयश्छन्दोमा अतिरात्रः
॥११॥ IAST
Devanāgarīअथैकेषाम् । अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा महाव्रतं विश्वजित्सर्वपृष्ठो ऽतिरात्रः
॥१२॥ IAST
पञ्चविंशी कण्डिका
Devanāgarīअथ सवानां व्याख्यातो बृहस्पतिसवः
॥१॥ IAST
Devanāgarīवैश्यः पुष्टिकामः
॥२॥ IAST
Devanāgarīआग्नेयादीनि सप्त हवींषि निर्वपति
॥३॥ IAST
Devanāgarīपृश्निः पष्ठौही मारुत्यालभ्यते
॥४॥ IAST
Devanāgarīतस्याः पुरस्तात्स्विष्टकृतो यजमानायतन ऋषभचर्म प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानं दध्नाभिषिञ्चति
॥५॥ IAST
Devanāgarīब्राह्मणो ब्रह्मवर्चसकामः
॥६॥ IAST
Devanāgarīआग्नेयादीन्यष्टौ हवींषि निर्वपति
॥७॥ IAST
Devanāgarīपुरस्तात्स्विष्टकृतो हिरण्येन घृतमुत्पूय तेन कृष्णाजिन आसीनमभिषिञ्चति
॥८॥ IAST
IAST
Devanāgarīयत्किंच राजसूयमृते सोमं तत्सर्वं भवति
॥१०॥ IAST
Devanāgarīमैत्राबार्हस्पत्यं संस्थाप्य सौमीं सूतवशामालभते
॥११॥ IAST
Devanāgarīतस्याः पुरस्तात्स्विष्टकृतोऽषाढं युत्सु पृतनासु पप्रिमिति सौम्यर्चाद्भिरभिषिञ्चति
॥१२॥ IAST
Devanāgarīशेषं संस्थाप्य संसृपां हविर्भिर्दिशामवेष्ट्या द्विपशुना पशुबन्धेन सात्यदूतानां हविर्भिः प्रयुजामिति यजते
॥१३॥ IAST
Devanāgarīपृथिसवेन पशुकामः
॥१४॥ IAST
Devanāgarīयत्किंच राजसूयमनुत्तरवेदिकं तत्सर्वं भवति
॥१५॥ IAST
Devanāgarīमैत्राबार्हस्पत्यस्य पुरस्तात्स्विष्टकृतो ये मे पञ्चाशतमिति नाराशंस्यर्चाद्भिरभिषिञ्चति
॥१६॥ IAST
Devanāgarīसमानमुत्तरं पूर्वेण पशुबन्धवर्जम्
॥१७॥ IAST
Devanāgarīव्याख्यातो गोसवः
॥१८॥ IAST
Devanāgarīओदनसवेनान्नाद्यकामः
॥१९॥ IAST
Devanāgarīरोहिण्यां यजतोपव्युषं श्रपयति
॥२०॥ IAST
Devanāgarīदर्विहोमो भवति
॥२१॥ IAST
Devanāgarīउदित आदित्ये सिंहे व्याघ्र इति चतस्र आहुतीरोदनाद्धुत्वा राडसि विराडसीत्येतैः प्रतिमन्त्रम्
॥२२॥ IAST
षड्विंशी कण्डिका
Devanāgarīमन्थान्कल्पयन्ति । आज्यमन्थं ब्राह्मणः पयोमन्थं राजन्यो दधिमन्थं वैश्य उदमन्थं शूद्रः
॥१॥ IAST
Devanāgarīइन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामीति ब्राह्मणः सक्तुभिराज्यं श्रीत्वा तेजोऽसीत्यभिमन्त्र्य तत्ते प्रयच्छामीति यजमानाय प्रयच्छति
॥२॥ IAST
Devanāgarīतेजस्वदस्तु मे मुखमिति प्रतिगृह्य भक्षयति
॥३॥ IAST
Devanāgarīएवमितरेषामुत्तरौत्तरः श्रयणोऽभिमन्त्रणः प्रदानो भक्षणश्च यथालिङ्गम्
॥४॥ IAST
Devanāgarīसर्वान्यजमानो भक्षयित्वा हिरण्यं ब्राह्मणाय ददाति । तिसृधन्वं राजन्याय । अष्ट्रां वैश्याय । माषकमण्डलुं शूद्राय
॥५॥ IAST
Devanāgarīओदनशेषं यजमानः प्राश्नाति
॥६॥ IAST
Devanāgarīइममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते
॥७॥ IAST
Devanāgarīहिरण्यं यजमानायाबध्नाति
॥८॥ IAST
Devanāgarīआयुरसि विश्वायुरसीत्याबध्यमाने जपति
॥९॥ IAST
Devanāgarīअपां ग्रहान्गृह्णन्ति ये मन्थान्कल्पयन्त्यपां यो द्रवणे रस इत्येतैः प्रतिमन्त्रम्
॥१०॥ IAST
Devanāgarīतैरेनं संसृष्टैरभिषिञ्चति यतो वातो मनोजवा इति
॥११॥ IAST
Devanāgarīसमुद्र इवासि गह्मनेत्येनमभिमन्त्र्याथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति
॥१२॥ IAST
Devanāgarīअवभृथप्रत्याम्नायो भवतीति विज्ञायते
॥१३॥ IAST
Devanāgarīअग्रेणाहवनीयं रथोऽवस्थितो भवति
॥१४॥ IAST
Devanāgarīअभि प्रेहीति तं यजमानोऽभ्येति
॥१५॥ IAST
Devanāgarīआतिष्ठ मित्रवर्धन इत्यारोहन्तमभिमन्त्रयते
॥१६॥ IAST
Devanāgarīअङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा
॥१७॥ IAST
Devanāgarīआतिष्ठ वृत्रहन्निति पञ्चभिरारूढम्
॥१८॥ IAST
Devanāgarīदिदृक्षेण्यो दर्शनीयो भवति य एतेन यजत इति विज्ञायते
॥१९॥ IAST
सप्तविंशी कण्डिका
Devanāgarīसंतिष्ठत ओदनसवः
॥१॥ IAST
Devanāgarīव्याख्यातः पञ्चशारदीयः
॥२॥ IAST
Devanāgarīतथाग्निष्टुत
॥३॥ IAST
Devanāgarīतस्य पुरोरुचः
॥४॥ IAST
Devanāgarīअस्याजरासोऽग्न आयूंषि पवस इत्यैन्द्रवायवस्य । द्वितीया मैत्रावरुणस्य । तृतीयाश्विनस्य । चतुर्थी पञ्चमी च शुक्रामन्थिनोः षष्ठ्याग्रयणस्य
॥५॥ IAST
Devanāgarīअन्यामाग्नेयीमुक्थ्यस्य नियुनक्ति
॥६॥ IAST
Devanāgarīनित्या ध्रुवस्य
॥७॥ IAST
Devanāgarīनियुनक्त्यैन्द्राग्नवैश्वदेवयोः
॥८॥ IAST
Devanāgarīअग्निश्रिय इति तिस्रो मरुत्वतीयानाम् । श्रुधि श्रुत्कर्णेत्युत्तरां माहेन्द्रस्य । विश्वेषामदितिरिति तिस्र आदित्यग्रहस्य । उत्तमा सावित्रस्य
॥९॥ IAST
Devanāgarīनियुनक्ति वैश्वदेवस्य
॥१०॥ IAST
Devanāgarīनित्या पात्नीवतस्य
॥११॥ IAST
Devanāgarīनियुनक्ति हारियोजनस्य
॥१२॥ IAST
Devanāgarīइन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येनेन्द्रियकामो वीर्यकामो वा यजेत
॥१३॥ IAST
Devanāgarīऐन्द्रियः पुरोरुचः
॥१४॥ IAST
Devanāgarīतिष्ठा हरी कस्य वृषेत्यैन्द्रवायवस्य । तृतीया मैत्रावरुणस्य । चतुर्थ्याश्विनस्य । पञ्चमी षष्ठी च शुक्रामन्थिनोः । सप्तम्याग्रयणस्य
॥१५॥ IAST
Devanāgarīनित्योक्थ्यस्य
॥१६॥ IAST
Devanāgarīनियुनक्ति ध्रुवैन्द्राग्नवैश्वदेवानाम्
॥१७॥ IAST
Devanāgarīनित्या मरुत्वतीयमाहेन्द्राणाम्
॥१८॥ IAST
Devanāgarīआ नो विश्वाभिरूतिभिरिति तिस्र आदित्य ग्रहस्य । उत्तमा सावित्रस्य
॥१९॥ IAST
Devanāgarīनियुनक्ति विअश्वदेवपात्नीवतयोः
॥२०॥ IAST
Devanāgarīनित्या हारियोजनस्य
॥२१॥ IAST
Devanāgarīव्याख्यातो ऽप्तोर्यामः
॥२२॥ IAST
अष्टाविंशी कण्डिका
Devanāgarīराजाभिषेक्ष्यमाणो जनपदेषु समवेतेषु द्वयोः पुण्याहयोः पूर्वस्मिन्स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय संपरिस्तीर्य वसति
॥१॥ IAST
Devanāgarīउदित आदित्ये ये केशिनो नर्ते ब्रह्मण इति द्वे आहुती हुत्वा राडसि विराडसीति यजमानायतन औदुम्बरीमासन्दीं प्रतिष्ठापयति
॥२॥ IAST
Devanāgarīतां राजारोहति
॥३॥ IAST
Devanāgarīआरोह प्रोष्ठमित्यारोहन्तमभिमन्त्रयते
॥४॥ IAST
Devanāgarīअत्र वरं ददाति
॥५॥ IAST
Devanāgarīतस्यामासीनः केशान्वापयते येनावपत्सविता क्षुरेणेति
॥६॥ IAST
Devanāgarīमा ते केशानिति केशान्प्रकीर्यमाणाननुमन्त्रयते
॥७॥ IAST
Devanāgarīतान्समोप्य दर्भस्तम्बे निदधाति तेभ्यो निधानमिति
॥८॥ IAST
Devanāgarīअथैनमाज्यमिश्रेण पयसानक्ति । बलं ते बाहुवोरिति बाहू । यत्सीमन्तमिति शिरः
॥९॥ IAST
Devanāgarīव्याघ्रोऽयमग्नाविति सप्ताहुतीर्य्हुत्वा द्यौरसि पृथिव्यसीति यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमास्तृणाति
॥१०॥ IAST
Devanāgarīतस्मिन्राजोपविशति
॥११॥ IAST
Devanāgarīव्याघ्रो वैय्याघ्र इत्यासीनमभिमन्त्रयते
॥१२॥ IAST
Devanāgarīअथैनं तोक्मावास्ताभिर्दूर्वावास्ताभिर्वाद्भिरभिषिञ्चति या दिव्या आप इति प्रतिपद्या पाङ्क्तात्
॥१३॥ IAST
Devanāgarīअरुणं त्वा वृकमित्येनमभिमन्त्र्य प्र बाहवेति बाहू प्रसार्येन्द्रस्य ते वीर्यकृत इत्युपावहरति
॥१४॥ IAST
Devanāgarīअग्रेणाग्निं रथोऽवस्थितो भवति
॥१५॥ IAST
Devanāgarīअभि प्रेहीति तं राजाभ्येति
॥१६॥ IAST
Devanāgarīआतिष्ठ वृत्रहन्तम इत्यारोहन्तमभिमन्त्रयते
॥१७॥ IAST
Devanāgarīअङ्को न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा
॥१८॥ IAST
Devanāgarīनमस्त ऋष इति पुरोहितमभिमन्त्रयते
॥१९॥ IAST
Devanāgarīतिष्ठा रथ इति सारथिम्
॥२०॥ IAST
Devanāgarīआ रश्मीनिति रश्मीनालभते
॥२१॥ IAST
Devanāgarīआतिष्ठ वृत्रहन्निति षड्भिरारूढम्
॥२२॥ IAST
Devanāgarīपरि मा सेन्या इति द्वे वाचयित्वोत्तराभिस्तिसृभिरभिमन्त्र्योदसावेत्वित्यादित्यमुदीक्षयति
॥२३॥ IAST
Devanāgarīअन्नवतामिति जनपदाननुवीक्षते
॥२४॥ IAST
Devanāgarīसंतिष्ठते राजाभिषेकः
॥२५॥ IAST
Devanāgarīव्याख्यातो विघनः
॥२६॥ IAST
Devanāgarīसंतिष्ठन्ते सवाः सवाः
॥२७॥ IAST