अध्ययनम्
- अनुक्रमणिका
- सीमन्तोन्नयनम् · टिप्पण्यः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६२७–६२८ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
सीमन्तोन्नयनम्
{धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑। स नः॑ पू॒र्णेन॑ वावन॒त्॥११.१॥
॥१॥{धात्र इदम्।} धा॒ता प्र॒जाया॑ उ॒त रा॒य र्इ॑शे धा॒तेदं विश्वं॒ भुव॑नं जजान। धा॒ता पु॒त्रं यज॑मानाय॒ दाता॒ तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम॥२॥
॥२॥{धात्र इदम्।} धा॒ता द॑दातु नो र॒यिं प्राचीं᳚ जी॒वातु॒मक्षि॑ताम्। व॒यं दे॒वस्य॑ धीमहि सुम॒तिꣳ स॒त्यरा॑धसः॥३॥
॥३॥{धात्र इदम्।} धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे। तस्मै॑ दे॒वा अ॒मृताः॒ संव्य॑यन्तां॒ विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः᳚॥४॥
॥४॥{धात्र इदम्।} यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि। जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम्॥५॥
॥५॥{अग्नये पुत्रवत इदम्} यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम्। अ॒श्विन॒ꣳ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तꣳ र॒यिं न॑शते स्व॒स्ति॥६॥
॥६॥{अग्नये पुत्रवत इदम्} त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः। न त्वामि॒न्द्राति॑रिच्यते॥७॥
॥७॥{इन्द्राय पुत्रिण इदम्} उ॒क्थउ॑क्थे सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नꣳ सु॒तासः॑। यदी॑ꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते॥८॥
॥८॥{इन्द्राय पुत्रिण इदम्} भूर्भुवः॒ सुवः॑॥९॥
॥९॥{रा॒काम॒हꣳ सु॒हवा॑ꣳ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚। सीव्य॒त्वपः॑ सू॒च्याऽच्छि॑द्यमानया॒ ददा॑तु वी॒रꣳ श॒तदा॑यमु॒क्थ्य᳚म्॥१०॥
॥१०॥यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि। ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षꣳ सु॑भगे॒ ररा॑णा॥११॥
॥११॥} यौग॑न्धरिरे॒व नो॒ राजेति॒ साल्वी॑रवादिषुः। विवृ॑त्तचक्रा॒ आसेनस्तारे॑ण यमुने॒ तव॑॥१२॥
॥१२॥सोम॑ ए॒व नो॒ राजेत्या॑हुर्ब्राह्म॒णीः प्र॒जाः। विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑णासौ॒ तव॑॥११.१३॥
॥१३॥टिप्पण्यः
धा॒ता द॑दातु नो र॒यिमिति॒ चत॑स्रो॒ यस्त्वा॑ हृ॒दा की॒रिणेति॒ चत॑स्रः।
॥१४॥