अध्ययनम्
- अनुक्रमणिका
- वस्त्रसमर्पणम् · उपवीतसमर्पणम् · आभरणसमर्पणम्
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
वस्त्रसमर्पणम्
यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे। यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गा᳚ः। अवा॑तिरत॒मनृ॑तानि॒ विश्वा᳚। ऋ॒तेन॑ मित्रावरुणा सचेथे॥ वस्त्रं समर्पयामि॥
॥१॥उपवीतसमर्पणम्
य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒विशं॑ प्र॒जाप॑ते॒र्यत्स॑ह॒जं पु॒रस्ता᳚त्। आ॒यु॒ष्य॑मग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं य॑ज्ञोपवी॒तं बल॑मस्तु॒ तेजः॑॥ यज्ञोपवीतं समर्पयामि॥
॥२॥आभरणसमर्पणम्
हि॒र॒ण्य॒पा॒त्रं मधो᳚ः पू॒र्णं द॑दाति। म॒ध॒व्यो॑सा॒नीति॑। ए॒क॒धा ब्र॒ह्मणे॒ उप॑हरति। ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति॥ आभरणं समर्पयामि॥
॥३॥