मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

या वामिन्द्रावरुणा

या वामिन्द्रावरुणा. Also called ya vam indravaruna, Yā vāmindrāvaruṇā. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰सं॰ २.५.१२

७० आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ संतेऽव॑ ते॒ हेड॒ उदु॑त्त॒मं प्र णो॑

दे॒व्या नो॑ दि॒वोऽग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मं मे॑ वरुण॒ तत्त्वा॑या॒म्युदु॒ त्यं

चि॒त्रम् ॥ अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः

। तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वह॑न्ती॒र्॒हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ॥ स

७१ म॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति । तमू॒

शुचि॒ꣳ॒ शुच॑यो दीदि॒वाꣳ स॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑

॥ तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ ।

स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥

इंद्रा॒वरु॑णयोर॒हꣳ स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे᳚ ॥

इंद्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो

७२ वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑

व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥ आ नो॑ मित्रावरुणा॒ प्र बा॒हवा᳚ । त्वं नो॑

अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ या सिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒

शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥ स त्वं नो॑ अग्नेऽव॒मो

भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ꣳ॒

७३ ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑

श‍ृण्वे॒ वि यथ्सूऱ्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु

त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ प्र ते॑ यक्षि॒ प्रत॑ इयर्मि॒

मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न

इय॒क्षवे॑ पू॒रवे᳚ प्रत्न राजन् ॥

७४ वि पाज॑सा॒ वि ज्योति॑षा ॥ स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑

। उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ तꣳ सु॒प्रती॑कꣳ सु॒दृश॒ग्ग्॒

स्वञ्च॒मवि॑द्वाꣳसो वि॒दुष्ट॑रꣳ सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि

वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥ अ॒ꣳ॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒

वि न॑ इं॒द्रेंद्र॑ क्ष॒त्रमिं॑द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ॥ २। ५। १२॥

य॒ह्वीस्सम॑ध्व॒राय॑ नो॒ वरु॑णꣳ राज॒ग्ग्॒श्चतु॑श्चत्वारिꣳशच्चTS 2.5.12

॥१॥