५२ दीर्घतमा औचथ्यः। १-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः (अग्निः सूर्यो वायुश्च,) ४५ वाक्, ४६-४७ सूर्यः, ४८ संवत्सर कालचक्रम्,४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा। त्रिष्टुप् १२, १५, २३, २९, ३६, ४१ जगती, ४२ प्रस्तार पंक्तिः, ५१ अनुष्टप्।
गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् ।
वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒ ऽक्षरे॑ण मिमते स॒प्त वाणी॑: ॥1.164.24॥
gā̱ya̱treṇa̱ prati̍ mimīte a̱rkama̱rkeṇa̱ sāma̱ traiṣṭu̍bhena vā̱kam |
vā̱kena̍ vā̱kaṃ dvi̱padā̱ catu̍ṣpadā̱ 'kṣare̍ṇa mimate sa̱pta vāṇī̍:
१ दीर्घतमा औचथ्यः। वाक्।
तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः । ततः क्षरत्यक्षरं तद् विश्वमुप जीवति ॥ २ ॥
॥२॥चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ ३ ॥
॥३॥२४ गाथिनो विश्वमित्रः। इन्द्रः, १ इन्द्रपर्वतौ, १५, १६ वाक्,(ससर्परी),१७-२० रथाङ्गानि, २१-२४ अभिशापः। त्रिष्टुप्, १०, १६ जगती, १३ गायत्री, १२, २०, २२ अनुष्टुप्, १८ बृहती।
स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।
आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ॥3.53.15॥
sa̱sa̱rpa̱rīrama̍ti̱ṃ bādha̍mānā bṛ̱hanmi̍māya ja̱mada̍gnidattā |
ā sūrya̍sya duhi̱tā ta̍tāna̱ śravo̍ de̱veṣva̱mṛta̍maju̱ryam
स॒स॒र्प॒रीर॑भर॒त् तूय॑मे॒भ्योऽधि॒ श्रव॒: पाञ्च॑जन्यासु कृ॒ष्टिषु॑ ।
सा प॒क्ष्या॒३ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥3.53.16॥
sa̱sa̱rpa̱rīra̍bhara̱t tūya̍me̱bhyo'dhi̱ śrava̱: pāñca̍janyāsu kṛ̱ṣṭiṣu̍ |
sā pa̱kṣyā̱3 navya̱māyu̱rdadhā̍nā̱ yāṃ me̍ palastijamada̱gnayo̍ da̱duḥ