skipLink.label

ब्रह्मणस्पति सूक्तम्

मेधातिथिः काण्वः ॥ १ - ३ ब्रह्मणस्पतिः। ४ ब्रह्मणस्पतिरिन्द्रश्च सोमश्च। ५ ब्रह्मणस्पतिसोमेन्द्रदक्षिणाः ॥ १ विराड्गायत्री। २ गायत्री ३ पिपीलिकामध्यानिचृद्-गायत्री। ४ निचृद्गायत्री। ५ पादनिचृद्गायत्री ॥

सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः 1.18.1

यो रे॒वान् यो अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः । स न॑: सिषक्तु॒ यस्तु॒रः 1.18.2

मा न॒: शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते 1.18.3

स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑: । सोमो॑ हि॒नोति॒ मर्त्य॑म् 1.18.4

त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् । दक्षि॑णा पा॒त्वंह॑सः 1.18.5

कण्वो घौरः ॥ बृहस्पतिः ॥ १, २, ८ निचृदुपरिष्टाद् बृहती। ३, ७ आर्चीत्रिष्टुप्। ४, ६ सतः पङ्क्तिर्निचृत्पङ्क्तिः। ५ पथ्याबृहती ॥

उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।

उप॒ प्र य॑न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ 1.40.1

त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते ।

सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के 1.40.2

प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॑तु सू॒नृता॑ ।

अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः 1.40.3

यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑: ।

तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् 1.40.4

प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् ।

यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे 1.40.5

तमिद् वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् ।

इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद् वा॒मा वो॑ अश्नवत् 1.40.6

को दे॑व॒यन्त॑मश्नव॒ज् जनं॒ को वृ॒क्तब॑र्हिषम् ।

प्रप्र॑ दा॒श्वान् प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त् क्षयं॑ दधे 1.40.7

उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त् सुक्षि॒तिं द॑धे ।

नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिण॑: 1.40.8

गृत्समदः ॥ १, ५, ९, ११, १७, १९ ब्रह्मणस्पतिः। २-४, ६-८, १०, १२-१६, १८ बृहस्पतिः ॥ १, ४, ५, १०-१२ जगती। २, ७-९, १३, १४ विराड्जगती। ३, ६, १६, १८ निचृज्जगती। १५, १७ भुरिक्त्रिष्टुप्। १९ निचृत्त्रिष्टुप् ॥

ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् 2.23.1

दे॒वाश्चि॑त् ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः ।

उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि 2.23.2

आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।

बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विद॑म् 2.23.3

सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् ।

ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत् ते॑ महित्व॒नम् 2.23.4

न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विन॑: ।

विश्वा॒ इद॑स्माद् ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते 2.23.5

त्वं नो॑ गो॒पाः प॑थि॒कृद् वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।

बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती 2.23.6

उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसो ऽराती॒वा मर्त॑: सानु॒को वृक॑: ।

बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि 2.23.7

त्रा॒तारं॑ त्वा त॒नूनां॑ हवाम॒हे ऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् ।

बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् 2.23.8

त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।

या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ ऽभि सन्ति॑ ज॒म्भया॒ ता अ॑न॒प्नस॑: 2.23.9

त्वया॑ व॒यमु॑त्त॒मं धी॑महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।

मा नो॑ दु॒:शंसो॑ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा॑ म॒तिभि॑स्तारिषीमहि 2.23.10

अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।

असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद् दमि॒ता वी॑ळुह॒र्षिण॑: 2.23.11

अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति ।

बृह॑स्पते॒ मा प्रण॒क् तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः 2.23.12

भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनम् ।

विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव 2.23.13

तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यम् ।

आ॒विस्तत् कृ॑ष्व॒ यदस॑त् त उ॒क्थ्यं१बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय 2.23.14

बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।

यद् दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् 2.23.15

मा न॑: स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो॑ रि॒पवोऽन्ने॑षु जागृ॒धुः ।

आ दे॒वाना॒मोह॑ते॒ वि व्रयो॑ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो॑ विदुः 2.23.16

विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त् साम्न॑:साम्नः क॒विः ।

स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ 2.23.17

तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः ।

इन्द्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वम् 2.23.18

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।

विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑: 2.23.19

गृत्समदः ॥ १ - ११, १३ - १६ ब्रह्मणस्पतिः। १२ ब्रह्मणस्पतिरिन्द्रश्च ॥ १,७, ९, ११ निचृज्जगती; २, ३ त्रिष्टुप् ४, ५ स्वराट्त्रिष्टुप्। ६, ८, १४ जगती। १० स्वराड् जगती। १२, १६ निचृत्त्रिष्टुप् । १३ भुरिग्जगती। १५ भुरिक्त्रिष्टुप् ॥

सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।

यथा॑ नो मी॒ढ्वान् त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑ध॒: सोत नो॑ म॒तिम् 2.24.1

यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि ।

प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द् वसु॑मन्तं॒ वि पर्व॑तम् 2.24.2

तद् दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन् दृ॒ळहाव्र॑दन्त वीळि॒ता ।

उद्गा आ॑ज॒दभि॑न॒द् ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त् स्व॑: 2.24.3

अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।

तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् 2.24.4

सना॒ ता का चि॒द् भुव॑ना॒ भवी॑त्वा मा॒द्भिः श॒रद्भि॒र्दुरो॑ वरन्त वः ।

अय॑तन्ता चरतो अ॒न्यद॑न्य॒दिद् या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पति॑: 2.24.5

अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् ।

ते वि॒द्वांस॑: प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न् तदुदी॑युरा॒विश॑म् 2.24.6

ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः ।

ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकि॒: षो अ॒स्त्यर॑णो ज॒हुर्हि तम् 2.24.7

ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।

तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः 2.24.8

स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑त॒: स सुष्टु॑त॒: स यु॒धि ब्रह्म॑ण॒स्पति॑: ।

चा॒क्ष्मो यद् वाजं॒ भर॑ते म॒ती धना ऽऽदित् सूर्य॑स्तपति तप्य॒तुर्वृथा॑ 2.24.9

वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पते॑: सुवि॒दत्रा॑णि॒ राध्या॑ ।

इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुञ्ज॒ते विश॑: 2.24.10

योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।

स दे॒वो दे॒वान् प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पति॑: 2.24.11

विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् ।

अच्छे॑न्द्राब्रह्मणस्पती ह॒विर्नो ऽन्नं॒ युजे॑व वा॒जिना॑ जिगातम् 2.24.12

उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ ।

वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पति॑: 2.24.13

ब्रह्म॑ण॒स्पते॑रभवद् यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।

यो गा उ॒दाज॒त् स दि॒वे वि चा॑भजन् म॒हीव॑ री॒तिः शव॑सासर॒त् पृथ॑क् 2.24.14

ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३ वय॑स्वतः ।

वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् 2.24.15

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।

विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑: 2.23.19

गृत्समदः ॥ ब्रह्मणस्पतिः ॥ १, २ जगती। ३ निचृज्जगती। ४, ५ विराड्जगती ॥

इन्धा॑नो अ॒ग्निं व॑नवद् वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद् रा॒तह॑व्य॒ इत् ।

जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: 2.25.1

वी॒रेभि॑र्वी॒रान् व॑नवद् वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द् बोध॑ति॒ त्मना॑ ।

तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: 2.25.2

सिन्धु॒र्न क्षोद॒: शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।

अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: 2.25.3

तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चत॒: स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: 2.25.4

तस्मा॒ इद् विश्वे॑ धुनयन्त॒ सिन्ध॒वो ऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।

दे॒वानां॑ सु॒म्ने सु॒भग॒: स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: 2.25.5

गृत्समदः ॥ ब्रह्मणस्पतिः ॥ १, ३ जगती। २, ४ निचृज्जगती ॥

ऋ॒जुरिच्छंसो॑ वनवद् वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् ।

सु॒प्रा॒वीरिद् व॑नवत् पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् 2.26.1

यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॑ ।

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे 2.26.2

स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभि॑: ।

दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् 2.26.3

यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पति॑: ।

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३ ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः 2.26.4

वसिष्ठः ॥ इन्द्राब्रह्मणस्पती ॥ निचृत्रिष्टुप् ॥

तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भि॑: सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे ।

इन्द्रं॒ श्लोको॒ महि॒ दैव्य॑: सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ 7.97.3

इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः 7.97.9

शिरिम्बिठो भारद्वाजः ॥ ब्रह्मणस्पतिः ॥ १ निचृदनुष्टुप् २ अनुष्टुप् ॥

च॒त्तो इ॒तश्च॒त्तामुत॒: सर्वा॑ भ्रू॒णान्या॒रुषी॑ । अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि 10.155.2

अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो॑: पा॒रे अ॑पूरु॒षम् । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् 10.155.3