अध्ययनम्
- अनुक्रमणिका
- अन्यत्र सङ्ग्रहे
- मूलम्
१३ आजीगर्तिः शुनःशेप स कृत्रिमो वैश्वामित्रो देवरातः। १-१२अग्निः, १३देवाः।।१-१२ गायत्री, १३ त्रिष्टुप्।
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑: ।
यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒: शंस॒मा वृ॑क्षि देवाः ॥1.27.13॥
namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍: |
yajā̍ma de̱vānyadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱: śaṃsa̱mā vṛ̍kṣi devāḥ
५ दीर्घतमा औचथ्यः। अग्निः। त्रिष्टुप्।
क॒था ते॑ अग्ने शु॒चय॑न्त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः ।
उ॒भे यत् तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न् र॒णय॑न्त दे॒वाः ॥1.147.1॥
ka̱thā te̍ agne śu̱caya̍nta ā̱yorda̍dā̱śurvāje̍bhirāśuṣā̱ṇāḥ |
u̱bhe yat to̱ke tana̍ye̱ dadhā̍nā ṛ̱tasya̱ sāma̍n ra̱ṇaya̍nta de̱vāḥ
१६ नारायणः। पुरुषः। अनुष्टुप् , १६ त्रिष्टुप्।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥10.90.16॥
ya̱jñena̍ ya̱jñama̍yajanta de̱vāstāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ
११ अगस्त्यो मैत्रावरुणिः । १ इन्द्रः, २-११मरुतः। त्रिष्टुप्, (१०पुरस्ताज्ज्योतिः।)
परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।
न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥1.167.4॥
parā̍ śu̱bhrā a̱yāso̍ ya̱vyā sā̍dhāra̱ṇyeva̍ ma̱ruto̍ mimikṣuḥ |
na ro̍da̱sī apa̍ nudanta gho̱rā ju̱ṣanta̱ vṛdha̍ṃ sa̱khyāya̍ de̱vāḥ