अध्ययनम्
- अनुक्रमणिका
- अन्यत्र सङ्ग्रहे
- मूलम्
५२ दीर्घतमा औचथ्यः। १-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः (अग्निः सूर्यो वायुश्च,) ४५ वाक्, ४६-४७ सूर्यः, ४८ संवत्सर कालचक्रम्,४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा। त्रिष्टुप् १२, १५, २३, २९, ३६, ४१ जगती, ४२ प्रस्तार पंक्तिः, ५१ अनुष्टप्।
हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् ।
दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥1.164.27॥
hi̱ṅkṛ̱ṇva̱tī va̍su̱patnī̱ vasū̍nāṃ va̱tsami̱cchantī̱ mana̍sā̱bhyāgā̍t |
du̱hāma̱śvibhyā̱ṃ payo̍ a̱ghnyeyaṃ sā va̍rdhatāṃ maha̱te saubha̍gāya
११ गाथिनो विश्वामित्रः। यूपः, ६-१० यूपाः, ८ विश्वे देवा वा, ११ व्रश्चनः । त्रिष्टुप्, ३, ७ अनुष्टुप्।
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द् ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् ।
आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥3.8.2॥
sami̍ddhasya̱ śraya̍māṇaḥ pu̱rastā̱d brahma̍ vanvā̱no a̱jara̍ṃ su̱vīra̍m |
ā̱re a̱smadama̍ti̱ṃ bādha̍māna̱ ucchra̍yasva maha̱te saubha̍gāya
वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम ।
यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥3.8.11॥
vana̍spate śa̱tava̍lśo̱ vi ro̍ha sa̱hasra̍valśā̱ vi va̱yaṃ ru̍hema |
yaṃ tvāma̱yaṃ svadhi̍ti̱steja̍mānaḥ praṇi̱nāya̍ maha̱te saubha̍gāya
(५८) १-३ मैत्रावरुणिर्वसिष्ठ:, ४-६ वासिष्ठ इन्द्रप्रमति:,७-९ वासिष्ठो वृषगण:,१० -१२ वासिष्ठो मन्यु :, १३-१५ वासिष्ठ उपमन्यु:, १६-१८ वासिष्ठो व्याघ्रपाद् , १९ -२१ वासिष्ठः शक्ति:, २२-२४ वासिष्ठः कर्णश्रुद् ,२५ -२७ वासिष्ठो मृळीक:, २८-३० वासिष्ठो वसुक्र:, ३१-४४ पराशर: शाक्त्य:, ४५-५८ कुत्स आङ्गिरस: । पवमान: सोम: ।त्रिष्टुप् ।
इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्त्स॒हस्र॑धारः पवते॒ मदा॑य ।
नृभि॒: स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं॑ मह॒ते सौभ॑गाय ॥9.97.5॥
indu̍rde̱vānā̱mupa̍ sa̱khyamā̱yantsa̱hasra̍dhāraḥ pavate̱ madā̍ya |
nṛbhi̱: stavā̍no̱ anu̱ dhāma̱ pūrva̱maga̱nnindra̍ṃ maha̱te saubha̍gāya
९ स्थौरोऽग्नियुतः स्थौरोऽग्नियूपो वा।इन्द्रः त्रिष्टुप्।
अ॒स्य पि॑ब क्षु॒मत॒: प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ ।
स्व॒स्ति॒दा मन॑सा मादयस्वाऽर्वाची॒नो रे॒वते॒ सौभ॑गाय ॥10.116.2॥
a̱sya pi̍ba kṣu̱mata̱: prasthi̍ta̱syendra̱ soma̍sya̱ vara̱mā su̱tasya̍ |
sva̱sti̱dā mana̍sā mādayasvā'rvācī̱no re̱vate̱ saubha̍gāya