१० वामदेवो गौतमः। अग्निः, ७-८ सोमकः साहदेव्यः, ९-१० अश्विनौ। गायत्री।
अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन् परि॑ णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञिय॑: ॥4.15.1॥
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥4.15.2॥
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द् रत्ना॑नि दा॒शुषे॑ ॥4.15.3॥
अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ । द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥4.15.4॥
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्य॑: । ति॒ग्मज॑म्भस्य मी॒ळहुष॑: ॥4.15.5॥
तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् । म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे ॥4.15.6॥
बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः । अच्छा॒ न हू॒त उद॑रम् ॥4.15.7॥
उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात् सा॑हदे॒व्यात् । प्रय॑ता स॒द्य आ द॑दे ॥4.15.8॥
ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः । दी॒र्घायु॑रस्तु॒ सोम॑कः ॥4.15.9॥
तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम् । दी॒र्घायु॑षं कृणोतन ॥4.15.10॥
१२ कुमार आत्रेयः, वृशो वा जानः, उभौ वा, २, ९ वृशो जानः। अग्निः। त्रिष्टुप्, १२ शक्वरी।
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे ।
अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥5.2.1॥
कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान ।
पू॒र्वीर्हि गर्भ॑: श॒रदो॑ व॒वर्धाऽप॑श्यं जा॒तं यदसू॑त मा॒ता ॥5.2.2॥
हिर॑ण्यदन्तं॒ शुचि॑वर्णमा॒रात् क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नम् ।
द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त् किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥5.2.3॥
क्षेत्रा॑दपश्यं सनु॒तश्चर॑न्तं सु॒मद् यू॒थं न पु॒रु शोभ॑मानम् ।
न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद् यु॑व॒तयो॑ भवन्ति ॥5.2.4॥
के मे॑ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ ।
य ईं॑ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥5.2.5॥
व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु ।
ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥5.2.6॥
शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द् यूपा॑दमुञ्चो॒ अश॑मिष्ट॒ हि षः ।
ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न् होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥5.2.7॥
हृ॒णी॒यमा॑नो॒ अप॒ हि मदैये॒: प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥5.2.8॥
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवा॒: शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥5.2.9॥
उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ ।
मदे॑ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥5.2.10॥
ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीर॒: स्वपा॑ अतक्षम् ।
यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्या॒: स्व॑र्वतीर॒प ए॑ना जयेम ॥5.2.11॥
तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१र्यः सम॑जाति॒ वेद॑: ।
इती॒मम॒ग्निम॒मृता॑ अवोचन् ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥5.2.12॥