मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

लघुवाक्यवृत्तिः

3

सम्प्रदायतः श्रीशङ्करकृता

स्थूलो मांसमयो देहो सूक्ष्मः स्याद्वासनामयः ।

ज्ञानकर्मेन्द्रियैः सार्धं धीप्राणौ तच्छरीरगौ ॥

॥१॥

अज्ञानं कारणं साक्षी बोधस्तेषां विभासकः ।

बोधाभासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः ॥

॥२॥

स एव संसरेत्कर्मवशाल्लोकद्वये सदा ।

बोधाभासाच्छुद्धबोधं विविच्यादतियत्नतः ॥

॥३॥

जागरस्वप्नयोरेव बोधाभासविडम्बना ।

सुप्तौ तु तल्लये बोधः शुद्धो जाड्यं प्रकाशयेत् ॥

॥४॥

जागरेऽपि धियस्तूष्णीम्भावः शुद्धेन भास्यते ।

धीव्यापाराश्च चिद्भास्याश्चिदाभासेन संयुताः ॥

॥५॥

वह्नितप्तजलं तापयुक्तं देहस्य तापकम् ।

चिद्भास्या धीस्तदाभासयुक्तान्यं भासयेत्तथा ॥

॥६॥

रूपादौ गुणदोषादिविकल्पा बुद्धिगाः क्रियाः ।

ताः क्रिया विषयैः सार्धं भासयन्ती चितिर्मता ॥

॥७॥

रूपाच्च गुणदोषाभ्यां विविक्ता केवला चितिः ।

सैवानुवर्तते रूपरसादीनां विकल्पने ॥

॥८॥

क्षणे क्षणेऽन्यथाभूता धीविकल्पाश्चितिर्न तु ।

मुक्तासु सूत्रवद्बुद्धिविकल्पेषु चितिस्तथा ॥

॥९॥

मुक्ताभिरावृतं सूत्रं मुक्तयोर्मध्य ईक्ष्यते ।

तथा वृत्तिविकल्पैश्चित्स्पष्टा मध्ये विकल्पयोः ॥

॥१०॥

नष्टे पूर्वविकल्पे तु यावदन्यस्य नोदयः ।

निर्विकल्पकचैतन्यं स्पष्टं तावद्विभासते ॥

॥११॥

एकद्वित्रिक्षणेष्वेवं विकल्पस्य निरोधनम् ।

क्रमेणाभ्यस्यतां यत्नाद्ब्रह्मानुभवकाङ्क्षिभिः ॥

॥१२॥

सविकल्पजीवोऽयं ब्रह्म तन्निर्विकल्पकम् ।

अहं ब्रह्मेति वाक्येन सोऽयमर्थोऽभिधीयते ॥

॥१३॥

सविकल्पकचिद्योऽहं ब्रह्मैकं निर्विकल्पकम् ।

स्वतःसिद्धा विकल्पास्ते निरोद्धव्याः प्रयत्नतः ॥

॥१४॥

शक्यः सर्वनिरोधेन समाधिर्योगिनं प्रियः ।

तदशक्तौ क्षणं रुद्ध्वा श्रद्धालुर्ब्रह्मतात्मनः ॥

॥१५॥

श्रद्धालुर्ब्रह्मतां स्वस्य चिन्तयेद्बुद्धिवृत्तिभिः ।

वाक्यवृत्त्या यथाशक्ति ज्ञात्वाद्धाभ्यस्यतां सदा ॥

॥१६॥

तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।

एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥

॥१७॥

देहात्मधीवद्ब्रह्मात्मधीदार्ढ्ये कृतकृत्यता ।

यदा तदायं म्रियतां मुक्तोऽसौ नात्र संशयः ॥

॥१८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ लघुवाक्यवृत्तिः सम्पूर्णा