पारम्परिकम्
न्यासः
अस्य श्रीदुर्गाष्टोत्तरशतनामास्तोत्रमालामन्त्रस्य महाविष्णुमहेश्वराः ऋषयः। अनुष्टुप् छन्दः। श्रीदुर्गापरमेश्वरी देवता। ह्रां बीजम्। ह्रीं शक्तिः। ह्रूं कीलकम्। सर्वाभीष्टसिद्ध्यर्थे जपहोमार्चने विनियोगः।
स्तोत्रम्
सती साध्वी भवप्रीता भवानी भवमोचनी ।
आर्या दुर्गा जया चाऽऽद्या त्रिनेत्रा शूलधारिणी ॥
॥१॥पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।
मनो बुद्धिरहङ्कारा चिद्रूपा च चिदाकृतिः ॥
॥२॥अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः ।
शाम्भवी देवमाता च चिन्ता रत्नप्रिया तथा ॥
॥३॥सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ।
अपर्णाऽनेकवर्णा च पाटला पाटलावती ॥
॥४॥पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ।
ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा ॥
॥५॥रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी ।
वनदुर्गा च मातङ्गी मतङ्गमुनिकन्यका ॥
॥६॥ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥
॥७॥विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा ।
बहुला बहुलप्रेमा महिषासुरमर्दिनी ॥
॥८॥मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ।
सर्वशास्त्रमयी चैव सर्वदानवघातिनी ॥
॥९॥अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी ।
भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः ॥
॥१०॥प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी ।
बलप्रदा घोररूपा महोत्साहा महाबला ॥
॥११॥अग्निज्वाला रौद्रमुखी कालरात्री तपस्विनी ।
नारायणी महादेवी विष्णुमाया शिवात्मिका ॥
॥१२॥शिवदूती कराली च ह्यनन्ता परमेश्वरी ।
कात्यायनी महाविद्या महामेधास्वरूपिणी ॥
॥१३॥गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी ।
सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी ॥
॥१४॥फलश्रुतिः
इदं स्तोत्रं महादेव्या नाम्नाम् अष्टोत्तरं शतम् ।
यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा ॥
॥१५॥शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत् ।
सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम् ॥
॥१६॥विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्यां कन्या च लभते वरम् ॥
॥१७॥ऋणी ऋणाद् विमुच्येत ह्यपुत्रो लभते सुतम् ।
रोगाद् विमुच्यते रोगी सुखमत्यन्तमश्नुते ॥
॥१८॥भूमिलाभो भवेत् तस्य सर्वत्र विजयी भवेत् ।
सर्वान् कामानवाप्नोति महादेवीप्रसादतः ॥
॥१९॥कुङ्कुमैर्बिल्वपत्रैश्च सुगन्धै रक्तपुष्पकैः ।
रक्तपत्रैर्विशेषेण पूजयन् भद्रमश्नुते ॥
॥२०॥इति श्री-दुर्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्