मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

दशमोऽध्यायः

3
मनुस्मृतिः · 10

अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः

प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः

॥१॥

सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि

प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत्

॥२॥

वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात्

संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः

॥३॥

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः

चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः

॥४॥

सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु

आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते

॥५॥

स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान्

सदृशानेव तानाहुर्मातृदोषविगर्हितान्

॥६॥

अनन्तरासु जातानां विधिरेष सनातनः

द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम्

॥७॥

ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते

निषादः शूद्रकन्यायां यः पारशव उच्यते

॥८॥

क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान्

क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते

॥९॥

विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः

वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः

॥१०॥

क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः

वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ

॥११॥

शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम्

वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः

॥१२॥

एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ

क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि

॥१३॥

पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम्

ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते

॥१४॥

ब्राह्मणादुग्रकन्यायामावृतो नाम जायते

आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः

॥१५॥

आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम्

प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः

॥१६॥

वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु

प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः

॥१७॥

जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः

शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः

॥१८॥

क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते

वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते

॥१९॥

द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान्

तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत्

॥२०॥

व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः

आवन्त्यवाटधानौ च पुष्पधः शैख एव च

॥२१॥

झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च

नटश्च करणश्चैव खसो द्रविड एव च

॥२२॥

वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च

कारुषश्च विजन्मा च मैत्रः सात्वत एव च

॥२३॥

व्यभिचारेण वर्णानामवेद्यावेदनेन च

स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः

॥२४॥

संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः

अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः

॥२५॥

सूतो वैदेहकश्चैव चण्डालश्च नराधमः

मागधः तथायोगव एव च क्षत्रजातिश्च

॥२६॥

एते षट्सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु

मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु

॥२७॥

यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते

आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात्

॥२८॥

ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान्

परस्परस्य दारेषु जनयन्ति विगर्हितान्

॥२९॥

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते

तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते

॥३०॥

प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः

हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु

॥३१॥

प्रसाधनोपचारज्ञमदासं दासजीवनम्

सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे

॥३२॥

मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते

नॄन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये

॥३३॥

निषादो मार्गवं सूते दासं नौकर्मजीविनम्

कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः

॥३४॥

मृतवस्त्रभृत्स्वनारीषु गर्हितान्नाशनासु च

भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः

॥३५॥

कारावरो निषादात्तु चर्मकारः प्रसूयते

वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ

॥३६॥

चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान्

आहिण्डिको निषादेन वैदेह्यामेव जायते

॥३७॥

चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान्

पुक्कस्यां जायते पापः सदा सज्जनगर्हितः

॥३८॥

निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम्

श्मशानगोचरं सूते बाह्यानामपि गर्हितम्

॥३९॥

संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः

प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः

॥४०॥

स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः

शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः

॥४१॥

तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे

उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः

॥४२॥

शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः

वृषलत्वं गता लोके ब्राह्मणादर्शनेन च

॥४३॥

पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः

पारदापह्लवाश्चीनाः किराता दरदाः खशाः

॥४४॥

मुखबाहूरुपज्जानां या लोके जातयो बहिः

म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः

॥४५॥

ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः

ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः

॥४६॥

सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम्

वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः

॥४७॥

मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च

मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम्

॥४८॥

क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम्

धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम्

॥४९॥

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च

वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः

॥५०॥

चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः

अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम्

॥५१॥

वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम्

कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः

॥५२॥

न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन्

व्यवहारो मिथस्तेषां विवाहः सदृशैः सह

॥५३॥

अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने

रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च

॥५४॥

दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः

अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः

॥५५॥

वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया

वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च

॥५६॥

वर्णापेतमविज्ञातं नरं कलुषयोनिजम्

आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत्

॥५७॥

अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता

पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्

॥५८॥

पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा

न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति

॥५९॥

कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसंकरः

संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु

॥६०॥

यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः

राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति

॥६१॥

ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः

स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम्

॥६२॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः

एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः

॥६३॥

शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते

अश्रेयान्श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात्

॥६४॥

शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्

क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च

॥६५॥

अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया

ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत्

॥६६॥

जातो नार्यामनार्यायामार्यादार्यो भवेद्गुणैः

जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः

॥६७॥

तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः

वैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः

॥६८॥

सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा

तथार्याज्जात आर्यायां सर्वं संस्कारमर्हति

॥६९॥

बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः

बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः

॥७०॥

अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति

अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत्

॥७१॥

यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन्

पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते

॥७२॥

अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम्

संप्रधार्याब्रवीद्धाता न समौ नासमाविति

॥७३॥

ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः

ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम्

॥७४॥

अध्यापनमध्ययनं यजनं याजनं तथा

दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः

॥७५॥

षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका

याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः

॥७६॥

त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति

अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः

॥७७॥

वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः

न तौ प्रति हि तान्धर्मान्मनुराह प्रजापतिः

॥७८॥

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः

आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः

॥७९॥

वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम्

वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु

॥८०॥

अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा

जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः

॥८१॥

उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत्

कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम्

॥८२॥

वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्सत्रियोऽपि वा

हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत्

॥८३॥

कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः

भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्

॥८४॥

इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणं

विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम्

॥८५॥

सर्वान्रसानपोहेत कृतान्नं च तिलैः सह

अश्मनो लवणं चैव पशवो ये च मानुषाः

॥८६॥

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च

अपि चेत्स्युररक्तानि फलमूले तथौषधीः

॥८७॥

अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः

क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्

॥८८॥

आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च

मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा

॥८९॥

काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः

विक्रीणीत तिलाञ्शूद्रान्धर्मार्थमचिरस्थितान्

॥९०॥

भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः

कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति

॥९१॥

सद्यः पतति मांसेन लाक्षया लवणेन च

त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्

॥९२॥

इतरेषां तु पण्यानां विक्रयादिह कामतः

ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति

॥९३॥

रसा रसैर्निमातव्या न त्वेव लवणं रसैः

कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः

॥९४॥

जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः

न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित्

॥९५॥

यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः

तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत्

॥९६॥

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः

परधर्मेण जीवन्हि सद्यः पतति जातितः

॥९७॥

वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत्

अनाचरन्नकार्याणि निवर्तेत च शक्तिमान्

॥९८॥

अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम्

पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः

॥९९॥

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः

तानि कारुककर्माणि शिल्पानि विविधानि च

॥१००॥

वैश्यवृत्तिमनातिष्ठन्ब्राह्मणः स्वे पथि स्थितः

अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत्

॥१०१॥

सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः

पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते

॥१०२॥

नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात्

दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते

॥१०३॥

जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः

आकाशमिव पङ्केन न स पापेन लिप्यते

॥१०४॥

अजीगर्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः

न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन्

॥१०५॥

श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः

प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान्

॥१०६॥

भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने

बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः

॥१०७॥

क्षुधार्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम्

चण्डालहस्तादादाय धर्माधर्मविचक्षणः

॥१०८॥

प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि

प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः

॥१०९॥

याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम्

प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः

॥११०॥

जपहोमैरपैत्येनो याजनाध्यापनैः कृतम्

प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च

॥१११॥

शिलोञ्छमप्याददीत विप्रोऽजीवन्यतस्ततः

प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते

॥११२॥

सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः

याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागमर्हति

॥११३॥

अकृतं च कृतात्क्षेत्राद्गौरजाविकमेव च

हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत्

॥११४॥

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः

प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च

॥११५॥

विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः

धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः

॥११६॥

ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत्

कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम्

॥११७॥

चतुर्थमाददानोऽपि क्षत्रियो भागमापदि

प्रजा रक्षन्परं शक्त्या किल्बिषात्प्रतिमुच्यते

॥११८॥

स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः

शस्त्रेण वैश्यान्रक्षित्वा धर्म्यमाहारयेद्बलिम्

॥११९॥

धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम्

कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा

॥१२०॥

शूद्रस्तु वृत्तिमाकाङ्क्षन्क्षत्रमाराधयेद्यदि

धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत्

॥१२१॥

स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः

जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता

॥१२२॥

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते

यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम्

॥१२३॥

प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः

शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम्

॥१२४॥

उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च

पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः

॥१२५॥

न शूद्रे पातकं किं चिन्न च संस्कारमर्हति

नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम्

॥१२६॥

धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः

मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च

॥१२७॥

यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः

तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः

॥१२८॥

शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः

शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते

॥१२९॥

एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः

यान्सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम्

॥१३०॥

एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः

अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम्

॥१३१॥