षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम्
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा
॥१॥वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत्
॥२॥तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः
स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा
॥३॥गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्
॥४॥असपिण्डा च या मातुरसगोत्रा च या पितुः
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने
॥५॥महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत्
॥६॥हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्
क्षयामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च
॥७॥नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्
नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम्
॥८॥न र्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम्
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषननामिकाम्
॥९॥अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्
तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम्
॥१०॥यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया
॥११॥सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः
॥१२॥शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते
ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः
॥१३॥न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः
कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते
॥१४॥हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम्
॥१५॥शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः
॥१६॥शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते
॥१७॥दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु
नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति
॥१८॥वृषलीफेनपीतस्य निःश्वासोपहतस्य च
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते
॥१९॥चतुर्णामपि वर्णानं प्रेत्य चेह हिताहितान्
अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत
॥२०॥ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः
॥२१॥यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ
तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्
॥२२॥षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्
विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसान्
॥२३॥चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः
॥२४॥पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह
पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन
॥२५॥पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ
गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ
॥२६॥आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम्
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः
॥२७॥यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते
॥२८॥एकं गोमिथुनं द्वे वा वरादादाय धर्मतः
कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते
॥२९॥सहोभौ चरतां धर्ममिति वाचानुभाष्य च
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः
॥३०॥ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते
॥३१॥इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः
॥३२॥हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात्
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते
॥३३॥सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः
॥३४॥अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते
इतरेषां तु वर्णानामितरेतरकाम्यया
॥३५॥यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः
सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम
॥३६॥दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम्
ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन्
॥३७॥दैवोढाजः सुतश्चैव सप्त सप्त परावरान्
आर्षोढाजः सुतस्त्रींस्त्रीन्षट्षट्कायोढजः सुतः
॥३८॥ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः
॥३९॥रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः
॥४०॥इतरेषु तु शिष्टेषु नृशंसानृतवादिनः
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः
॥४१॥अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा
निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान्विवर्जयेत्
॥४२॥पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि
॥४३॥शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने
॥४४॥ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा
पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया
॥४५॥ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः
चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः
॥४६॥तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या
त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः
॥४७॥युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु
तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्
॥४८॥पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः
समेऽपुमान्पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः
॥४९॥निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन्
ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन्
॥५०॥न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि
गृह्णञ्शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी
॥५१॥स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः
नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्
॥५२॥आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत्
अल्पोऽप्येवं महान्वापि विक्रयस्तावदेव सः
॥५३॥यासां नाददते शुल्कं ज्ञातयो न स विक्रयः
अर्हणं तत्कुमारीणामानृशंस्यं च केवलम्
॥५४॥पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः
॥५५॥यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः
॥५६॥शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम्
न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा
॥५७॥जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः
तानि कृत्याहतानीव विनश्यन्ति समन्ततः
॥५८॥तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः
भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च
॥५९॥संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्
॥६०॥यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत्
अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते
॥६१॥स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलं
तस्यां त्वरोचमानायां सर्वमेव न रोचते
॥६२॥कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
॥६३॥शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः
गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया
॥६४॥अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम्
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः
॥६५॥मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः
॥६६॥वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही
॥६७॥पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः
कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्
॥६८॥तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः
पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम्
॥६९॥अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्
॥७०॥पञ्चैतान्यो महाअयज्ञान्न हापयति शक्तितः
स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते
॥७१॥देवतातिथिभृत्यानां पितॄणामात्मनश्च यः
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति
॥७२॥अहुतं च हुतं चैव तथा प्रहुतमेव च
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते
॥७३॥जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः
ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम्
॥७४॥स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि
दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम्
॥७५॥अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः
॥७६॥यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः
॥७७॥यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्
गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही
॥७८॥स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता
सुखं चेहेच्छतात्यन्तं योऽधार्यो दुर्बलेन्द्रियैः
॥७९॥ऋषयः पितरो देवा भूतान्यतिथयस्तथा
आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता
॥८०॥स्वाध्यायेनार्चयेत र्षीन्होमैर्देवान्यथाविधि
पितॄञ्श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा
॥८१॥कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्
॥८२॥एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके
न चैवात्राशयेत्किं चिद्वैश्वदेवं प्रति द्विजम्
॥८३॥वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्
आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम्
॥८४॥अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः
विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च
॥८५॥कुह्वै चैवानुमत्यै च प्रजापतय एव च
सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः
॥८६॥एवं सम्यग्ग्हविर्हुत्वा सर्वदिक्षु प्रदक्षिणम्
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत्
॥८७॥मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि
वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत्
॥८८॥उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत्
॥८९॥विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत्
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च
॥९०॥पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये
पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत्
॥९१॥शूनां च पतितानां च श्वपचां पापरोगिणाम्
वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि
॥९२॥एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति
स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना
॥९३॥कृत्वैतद्बलिकर्मैवमतिथिं पूर्वमाशयेत्
भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे
॥९४॥यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः
तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही
॥९५॥भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम्
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत्
॥९६॥नश्यन्ति हव्यकव्यानि नराणामविजानताम्
भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः
॥९७॥विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु
निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात्
॥९८॥संप्राप्ताय त्वतिथये प्रदद्यादासनोदके
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम्
॥९९॥शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः
सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन्
॥१००॥तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन
॥१०१॥एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते
॥१०२॥नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा
उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा
॥१०३॥उपासते ये गृहस्थाः परपाकमबुद्धयः
तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः
॥१०४॥अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना
काले प्राप्तस्त्वकाले वा नास्यानश्नन्गृहे वसेत्
॥१०५॥न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत्
धन्यं यशस्यमायुष्यं स्वर्ग्यं वातिथिपूजनम्
॥१०६॥आसनावसथौ शय्यामनुव्रज्यामुपासनाम्
उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम्
॥१०७॥वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत्
तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत्
॥१०८॥न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत्
भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः
॥१०९॥न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च
॥११०॥यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत्
भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत्
॥१११॥वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन्
॥११२॥इतरानपि सख्यादीन्सम्प्रीत्या गृहमागतान्
प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया
॥११३॥सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः
अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन्
॥११४॥अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः
॥११५॥भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि
भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती
॥११६॥देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत्
॥११७॥अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात्
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते
॥११८॥राजर्त्विक्स्नातकगुरून्प्रियश्वशुरमातुलान्
अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः
॥११९॥राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ
मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः
॥१२०॥सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत्
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते
॥१२१॥पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्
॥१२२॥पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः
तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः
॥१२३॥तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः
यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः
॥१२४॥द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे
॥१२५॥सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः
पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम्
॥१२६॥प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये
तस्मिन्युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी
॥१२७॥श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्
॥१२८॥एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत्
पुष्कलं फलमाप्नोति नामन्त्रज्ञान्बहूनपि
॥१२९॥दूरादेव परीक्षेत ब्राह्मणं वेदपारगम्
तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः
॥१३०॥सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः
॥१३१॥ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च
न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः
॥१३२॥यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित्
तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान्
॥१३३॥ज्ञाननिष्ठा द्विजाः के चित्तपोनिष्ठास्तथापरे
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे
॥१३४॥ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः
हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि
॥१३५॥अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः
अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः
॥१३६॥ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता
मन्त्रसंपूजनार्थं तु सत्कारमितरोऽर्हति
॥१३७॥न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम्
॥१३८॥यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च
॥१३९॥यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः
स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः
॥१४०॥संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः
इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि
॥१४१॥यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम्
तथानृचे हविर्दत्त्वा न दाता लभते फलम्
॥१४२॥दातॄन्प्रतिग्रहीतॄंश्च कुरुते फलभागिनः
विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चेह च
॥१४३॥कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम्
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्
॥१४४॥यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम्
शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम्
॥१४५॥एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी
॥१४६॥एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः
॥१४७॥मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम्
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत्
॥१४८॥न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित्
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः
॥१४९॥ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः
तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत्
॥१५०॥जटिलं चानधीयानं दुर्बालं कितवं तथा
याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत्
॥१५१॥चिकित्सकान्देवलकान्मांसविक्रयिणस्तथा
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः
॥१५२॥प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा
॥१५३॥यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः
ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च
॥१५४॥कुशीलवोऽवकीर्णी च वृषलीपतिरेव च
पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे
॥१५५॥भृतकाध्यापको यश्च भृतकाध्यापितस्तथा
शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ
॥१५६॥अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा
ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः
॥१५७॥अगारदाही गरदः कुण्डाशी सोमविक्रयी
समुद्रयायी बन्दी च तैलिकः कूटकारकः
॥१५८॥पित्रा विवदमानश्च कितवो मद्यपस्तथा
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी
॥१५९॥धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः
मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च
॥१६०॥भ्रामरी गन्डमाली च श्वित्र्यथो पिशुनस्तथा
उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च
॥१६१॥हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च
॥१६२॥स्रोतसां भेदको यश्च तेषां चावरणे रतः
गृहसंवेशको दूतो वृक्षारोपक एव च
॥१६३॥श्वक्रीडी श्येनजीवी च कन्यादूषक एव च
हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः
॥१६४॥आचारहीनः क्लीबश्च नित्यं याचनकस्तथा
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च
॥१६५॥औरभ्रिको माहिषिकः परपूर्वापतिस्तथा
प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः
॥१६६॥एतान्विगर्हिताचारानपाङ्क्तेयान्द्विजाधमान्
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत्
॥१६७॥ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते
॥१६८॥अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः
दैवे हविषि पित्र्ये वा तं प्रवक्स्याम्यशेषतः
॥१६९॥अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्रादिभिस्तथा
अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते
॥१७०॥दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः
॥१७१॥परिवित्तिः परिवेत्ता यया च परिविद्यते
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः
॥१७२॥भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः
॥१७३॥परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः
॥१७४॥तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम्
॥१७५॥अपाङ्क्त्यो यावतः पङ्क्त्यान्भुञ्जानाननुपश्यति
तावतां न फलं तत्र दाता प्राप्नोति बालिशः
॥१७६॥वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु
पापरोगी सहस्रस्य दातुर्नाशयते फलम्
॥१७७॥यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ्शूद्रयाजकः
तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम्
॥१७८॥वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम्
विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि
॥१७९॥सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम्
नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ
॥१८०॥यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत्
भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे
॥१८१॥इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु
मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः
॥१८२॥अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः
तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान्पङ्क्तिपावनान्
॥१८३॥अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः
॥१८४॥त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्
ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च
॥१८५॥वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः
॥१८६॥पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते
निमन्त्रयेत त्र्यवरान्सम्यग्विप्रान्यथोदितान्
॥१८७॥निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा
न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत्
॥१८८॥निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान्
वायुवच्चानुगच्छन्ति तथासीनानुपासते
॥१८९॥केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः
कथं चिदप्यतिक्रामन्पापः सूकरतां व्रजेत्
॥१९०॥आमन्त्रितस्तु यः श्राद्धे वृशल्या सह मोदते
दातुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते
॥१९१॥अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः
॥१९२॥यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः
ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत
॥१९३॥मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः
तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः
॥१९४॥विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः
अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः
॥१९५॥दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्
सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः
॥१९६॥सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः
वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः
॥१९७॥सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः
॥१९८॥अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा
अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत्
॥१९९॥य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः
तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम्
॥२००॥ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः
देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः
॥२०१॥राजतैर्भाजनैरेषामथो वा रजतान्वितैः
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते
॥२०२॥दैवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम्
॥२०३॥तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत्
रक्सांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम्
॥२०४॥दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत्
पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः
॥२०५॥शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्
दक्षिनाप्रवणं चैव प्रयत्नेनोपपादयेत्
॥२०६॥अवकाशेषु चोक्षेषु जलतीरेषु चैव हि
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा
॥२०७॥आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक्
उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत्
॥२०८॥उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान्
गन्धमाल्यैः सुरभिभिरर्चयेद्दैवपूर्वकम्
॥२०९॥तेषामुदकमानीय सपवित्रांस्तिलानपि
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह
॥२१०॥अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः
हविर्दानेन विधिवत्पश्चात्संतर्पयेत्पितॄन्
॥२११॥अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्
यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते
॥२१२॥अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनान्
लोकस्याप्यायने युक्तान्श्राद्धदेवान्द्विजोत्तमान्
॥२१३॥अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम्
अपसव्येन हस्तेन निर्वपेदुदकं भुवि
॥२१४॥त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः
औदकेनैव विधिना निर्वपेद्दक्षिणामुखः
॥२१५॥न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम्
तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम्
॥२१६॥आचम्योदक्परावृत्य त्रिरायम्य शनैरसून्
षडृतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत्
॥२१७॥उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः
अवजिघ्रेच्च तान्पिण्डान्यथान्युप्तान्समाहितः
॥२१८॥पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः
तानेव विप्रानासीनान्विधिवत्पूर्वमाशयेत्
॥२१९॥ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत्
विप्रवद्वापि तं श्राद्धे स्वकं पितरमाशयेत्
॥२२०॥पिता यस्य निवृत्तः स्याज्जीवेच्चापि पितामहः
पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम्
॥२२१॥पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः
कामं वा समनुज्ञातः स्वयमेव समाचरेत्
॥२२२॥तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम्
तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन्
॥२२३॥पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम्
विप्रान्तिके पितॄन्ध्यायन्शनकैरुपनिक्षिपेत्
॥२२४॥उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते
तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः
॥२२५॥गुणांश्च सूपशाकाद्यान्पयो दधि घृतं मधु
विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः
॥२२६॥भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च
हृद्यानि चैव मांसानि पानानि सुरभीणि च
॥२२७॥उपनीय तु तत्सर्वं शनकैः सुसमाहितः
परिवेषयेत प्रयतो गुणान्सर्वान्प्रचोदयन्
॥२२८॥नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत्
न पादेन स्पृशेदन्नं न चैतदवधूनयेत्
॥२२९॥अस्रं गमयति प्रेतान्कोपोऽरीननृतं शुनः
पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम्
॥२३०॥यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः
ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणामेतदीप्सितम्
॥२३१॥स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि
आख्यानानीतिहासांश्च पुराणानि खिलानि च
॥२३२॥हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः
अन्नाद्येनासकृच्चैतान्गुणैश्च परिचोदयेत्
॥२३३॥व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत्
कुतपं चासनं दद्यात्तिलैश्च विकिरेन्महीम्
॥२३४॥त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्
॥२३५॥अत्युष्णं सर्वमन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः
न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान्
॥२३६॥यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः
॥२३७॥यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः
सोपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते
॥२३८॥चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च
रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान्
॥२३९॥होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते
दैवे हविषि पित्र्ये वा तद्गच्छत्ययथातथम्
॥२४०॥घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः
श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः
॥२४१॥खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत्
हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः
॥२४२॥ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम्
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत्
॥२४३॥सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा
समुत्सृजेद्भुक्तवतामग्रतो विकिरन्भुवि
॥२४४॥असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः
॥२४५॥उच्छेषणां भूमिगतमजिह्मस्याशठस्य च
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते
॥२४६॥आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत्
॥२४७॥सहपिण्डक्रियायां तु कृतायामस्य धर्मतः
अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः
॥२४८॥श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति
स मूढो नरकं याति कालसूत्रमवाक्शिराः
॥२४९॥श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति
तस्याः पुरीषे तं मासं पितरस्तस्य शेरते
॥२५०॥पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः
आचान्तांश्चानुजानीयादभितो रम्यतामिति
॥२५१॥स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम्
स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु
॥२५२॥ततो भुक्तवतां तेषामन्नशेषं निवेदयेत्
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः
॥२५३॥पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुशृतम्
संपन्नमित्यभ्युदये दैवे रुचितमित्यपि
॥२५४॥अपराह्णस्तथा दर्भा वास्तुसंपादनं तिलाः
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः
॥२५५॥दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः
पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः
॥२५६॥मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम्
अक्सारलवणं चैव प्रकृत्या हविरुच्यते
॥२५७॥विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः
दक्षिणां दिशमाकाङ्क्षन्याचेतेमान्वरान्पितॄन्
॥२५८॥दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति
॥२५९॥एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम्
गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत्
॥२६०॥पिण्डनिर्वपणं के चित्परस्तादेव कुर्वते
वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा
॥२६१॥पतिव्रता धर्मपत्नी पितृपूजनतत्परा
मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी
॥२६२॥आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम्
धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा
॥२६३॥प्रक्साल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत्
ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत्
॥२६४॥उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः
॥२६५॥हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः
॥२६६॥तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा
दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृनाम्
॥२६७॥द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै
॥२६८॥षण्मासांश्छागमांसेन पार्षतेन च सप्त वै
अष्टावेनस्य मांसेन रौरवेण नवैव तु
॥२६९॥दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु
॥२७०॥संवत्सरं तु गव्येन पयसा पायसेन च
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी
॥२७१॥कालशाकं महाशल्काः खङ्गलोहामिषं मधु
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः
॥२७२॥यत्किं चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम्
तदप्यक्षयमेव स्याद्वर्षासु च मघासु च
॥२७३॥अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम्
पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च
॥२७४॥यद्यद्ददाति विधिवत्सम्यक्श्रद्धासमन्वितः
तत्तत्पितॄणां भवति परत्रानन्तमक्षयम्
॥२७५॥कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्
श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः
॥२७६॥युक्षु कुर्वन्दिनर्क्षेषु सर्वान्कामान्समश्नुते
अयुक्षु तु पितॄन्सर्वान्प्रजां प्राप्नोति पुष्कलाम्
॥२७७॥यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते
॥२७८॥प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा
पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना
॥२७९॥रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा
संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते
॥२८०॥अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत्
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम्
॥२८१॥न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते
न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः
॥२८२॥यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः
तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम्
॥२८३॥वसून्वदन्ति तु पितॄन्रुद्रांश्चैव पितामहान्
प्रपितामहांस्तथादित्यान्श्रुतिरेषा सनातनी
॥२८४॥विघसाशी भवेन्नित्यं नित्यं वामृतभोजनः
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्
॥२८५॥एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम्
द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति
॥२८६॥