मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

वेङ्कटेश अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

सिद्धा ऊचुः

भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ।

अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम् ॥

॥१॥

नारद उवाच

सावधानेन मनसा शृण्वन्तु तदिदं शुभम् ।

जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम् ॥

॥२॥

स्तोत्रम्

ओङ्कारपरमार्थश्च नरनारायणात्मकः ।

मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः ॥

॥३॥

करुणापूर्णहृदयः टेङ्कारजपसौख्यदः ।

शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः ॥

॥४॥

भक्तलोकैकवरदो वरेण्यो भयनाशनः ।

यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥

॥५॥

रमावतारङ्गेशो णाकारजपसुप्रियः ।

यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥

॥६॥

रक्षःसन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः ।

दानधर्मपरो याजी घनश्यामलविग्रहः ॥

॥७॥

हरादिसर्वदेवेड्यो रामो यदुकुलाग्रणीः ।

श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥

॥८॥

त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः ।

सर्वेशो कमलाकान्तो लक्ष्मीसल्लापसम्मुखः ॥

॥९॥

चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः ।

चतुर्वेदशिरोरत्नं रमणो नित्यवैभवः ॥

॥१०॥

दासवर्गपरित्राता नारदादिमुनिस्तुतः ।

यादवाचलवासी च खिद्यद्भक्तार्तिभञ्जनः ॥

॥११॥

लक्ष्मीप्रसादको विष्णुर्देवेशो रम्यविग्रहः ।

माधवो लोकनाथश्च लालिताखिलसेवकः ॥

॥१२॥

यक्षगन्धर्ववरदः कुमारो मातृकार्चितः ।

रटद्बालकपोषी च शेषशैलकृतस्थलः ॥

॥१३॥

षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः ।

तिर्यग्जन्त्वर्चिताङ्घ्रिश्च नेत्रानन्दकरोत्सवः ॥

॥१४॥

द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः ।

शत्रुकृत्यादिभीतिघ्नो भुजङ्गशयनप्रियः ॥

॥१५॥

जाग्रद्रहस्यावासो यः शिष्टानां परिपालकः ।

वरेण्यः पूर्णबोधश्च जन्मसंसारभेषजम् ॥

॥१६॥

कार्त्तिकेयवपुर्धारी यतिशेखरभावितः ।

नरकादिभयध्वंसी रथोत्सवकलाधरः ॥

॥१७॥

लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान् ।

शास्त्रश्रुतानन्तलीलो यमशिक्षानिबर्हणः ॥

॥१८॥

मानसंरक्षणपर इरिणाङ्कुरधान्यदः ।

नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥

॥१९॥

हिरण्यदानसङ्ग्राही मोहजालनिकृन्तनः ।

दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥

॥२०॥

यजुर्वेदशिखागम्यो वेङ्कटो दक्षिणास्थितः ।

सारपुष्करणीतीरो रात्रौदेवगणार्चितः ॥

॥२१॥

यत्नवत्फलसन्धाता श्रीञ्जपाद्धनवृद्धिकृत् ।

क्लीङ्कारजापिकाम्यार्थप्रदानसदयान्तरः ॥

॥२२॥

सौं सर्वसिद्धिसन्धाता नमस्कर्तुरभीष्टदः ।

मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥

॥२३॥

राजीवलोचनो यज्ञवराहो गणवेङ्कटः ।

तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः ॥

॥२४॥

इति श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम्

प्रातः प्रातः समुत्थाय यः पठेद् भक्तिमान्नरः

सर्वेष्टार्थानवाप्नोति वेङ्कटेशप्रसादतः ॥

॥२५॥

इति श्री-वेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्