अध्ययनम्
- अनुक्रमणिका
- सम्बद्धम्
- मूलम्
पञ्चाक्षरम्
ॐ नमः शिवाय॥
॥१॥विनियोगः
अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य। अघोर ऋषिः।
अनुष्टुप् छन्दः। सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता॥
॥२॥नमः शिवायेति बीजम्। शिवतरायेति शक्तिः।
महादेवायेति कीलकम्।
श्री साम्बसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः॥
॥३॥