मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

विवाहे स्नानादयः

Also spelled: Vivahe Snanadaya

विवाहे स्नानादयः. Also called vivaha snanadayah, Vivāhe snānādayaḥ. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
विवाहे स्नानादयः
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६०२ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

विवाहे स्नानादयः

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः प्रच॑क्रमुर्हि॒त्वाऽव॒द्यमापः॑। श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वः स॑वि॒ता पु॑नातु॥२.१॥

॥१॥

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥२॥

॥२॥

यासा॒ꣳ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्याऽनृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम्। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥३॥

॥३॥

यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥४॥

॥४॥

शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापः शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वचं॑ ते। घृ॒त॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥५॥

॥५॥

परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः॥६॥

॥६॥

{आ॒शासा॑ना सौमन॒सं प्र॒जाꣳ सौभा᳚ग्यं त॒नूम्। अ॒ग्नेरनु॑व्रता भू॒त्वा सं न॑ह्ये सूकृ॒ताय॒ कम्॥७॥

॥७॥

} पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्या॒ऽश्विनौ᳚ त्वा॒ प्रव॑हता॒ꣳ रथे॑न। गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒ त्वं वि॒दथ॒माव॑दासि॥२.८॥

॥८॥