मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

विसृताभिषेचनमन्त्राः

Also spelled: Visritabhishechanamantra · Visrithabhishechanamanthra

विसृताभिषेचनमन्त्राः. Also called visrita abhishechanam, Visṛtābhiṣecanamantrāḥ. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
फलोदकाभिषेचनम् · गन्धोदकाभिषेचनम् · अक्षतोदकाभिषेचनम् · पुष्पोदकाभिषेचनम् · हिरण्योदकाभिषेचनम् · दूर्वोदकाभिषेचनम्
मूलम्
तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।

फलोदकाभिषेचनम्

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी᳚ः। बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः॥ फलोदकेन स्नपयामि॥

॥१॥

गन्धोदकाभिषेचनम्

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म्। ई॒श्वरीं᳚ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम्॥ गन्धोदकेन स्नपयामि॥

॥२॥

अक्षतोदकाभिषेचनम्

उपा᳚स्मै गायता नरः॒ पव॑माना॒येन्द॑वे। अ॒भि दे॒वाँ इय॑क्षते॥ अक्षतोदकेन स्नपयामि॥

॥३॥

पुष्पोदकाभिषेचनम्

आय॑ने ते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणी᳚ः। ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा इ॒मे॥ पु॒ष्पव॑तीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त। अश्वा॑ इव स॒जेत्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑॥ पुष्पोदकेन स्नपयामि॥

॥४॥

हिरण्योदकाभिषेचनम्

हि॒र॒ण्य॒पा॒त्रं मधो᳚ः पू॒र्णं द॑दाति। म॒ध॒व्यो॑सा॒नीति॑। ए॒क॒धा ब्र॒ह्मणे॒ उप॑हरति। ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति॥ हिरण्योदकेन स्नपयामि॥

॥५॥

दूर्वोदकाभिषेचनम्

काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्परि॑। ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च॥ दूर्वोदकेन स्नपयामि॥

॥६॥