अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ ४.२.४
१४ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑दि॒दं य॒मो॑ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै
॥ अ॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि सं॒ज्ञान॑मसि काम॒धर॑णं॒ मयि॑ ते
काम॒धर॑णं भूयात् ॥ सं या वः॑ प्रि॒यास्त॒नुवः॒ सं प्रि॒या हृद॑यानि वः ।
आ॒त्मा वो॑ अस्तु॒
१५ सं प्रि॑यः॒ सं प्रि॑यास्त॒नुवो॒ मम॑ ॥ अ॒यꣳ सो अ॒ग्निर्यस्मि॒न्थ्सोम॒मिन्द्रः॑
सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्तिꣳ॑
सस॒वान्थ्सन्थ्स्तू॑यसे जातवेदः ॥ अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑
दे॒वाꣳ ऊ॑चिषे॒ धिष्णि॑या॒ ये । याः प॒रस्ता᳚द्रोच॒ने सूर्य॑स्य॒
याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ॥ अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां
यदोष॑धीष्व॒
१६ प्सु वा॑ यजत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो
नृ॒चक्षाः᳚ ॥ पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः ।
जु॒षन्ताꣳ॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः ॥ इडा॑मग्ने पुरु॒दꣳ सꣳ॑
स॒निं गोः श॑श्वत्त॒मꣳ हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒
सा ते॑ सुम॒तिर्भू᳚त्व॒स्मे ॥ अ॒यं ते॒ योनि॑ऋर्॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒न
१७ न्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ चिद॑सि॒ तया॑
दे॒वत॑याङ्गिर॒वद्ध्रु॒वा सी॑द परि॒चिद॑सि॒ तया दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा
सी॑द लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒
बृह॒स्पति॑र॒स्मिन्, योना॑वसीषदन् ॥ ता अ॑स्य॒ सूद॑दोहसः॒ सोमग्ग्॑ श्रीणन्ति॒
पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ ४। २। ४॥
अ॒स्त्वोष॑धीषु जा॒नन्न॒ष्टा च॑त्वारिꣳशच्च ॥TS 4.2.4॥
॥१॥