अध्ययनम्
- अनुक्रमणिका
- मासिश्राद्धम्
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६३९–६४० — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
मासिश्राद्धम्
पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑णस्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णानां᳚ त्वा प्राणापा॒नयो᳚र्जुहो॒म्यक्षि॑तमसि॒ मैषां᳚ क्षेष्ठा अ॒मुत्रा॒ऽमुष्मि॑न् लो॒के।
॥१॥मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हा मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः। ए॒तत्ते॑ ततासौ॒ ये च॒ त्वामन्वे॒ तत्ते॑ पितामहासौ॒ ये च॒ त्वामन्वे॒ तत्ते᳚ प्रपितामहासौ॒ ये च॒ त्वामनु॑।
॥२॥ए॒तत्ते॑ मातरसौ॒ याश्च॒ त्वामन्वे॒ तत्ते॑ पितामह्यसौ॒ याश्च॒ त्वामन्वे॒ तत्ते᳚ प्रपितामह्यसौ॒ याश्च॒ त्वामनु॑।
॥३॥(मा॒र्जय॑न्तां॒ मम॑ पि॒तर॒ इत्ये॒ते।) ये च॒ वोऽत्र॒ ये चा॒स्मास्वाश॑ꣳ सन्ते॒ याश्च॒ वोऽत्र॒ याश्चा॒स्मास्वा श॑ꣳ सन्ते॒ ते च॑ वहन्तां॒ ताश्च॑ वहन्तां॒ तृप्य॑न्तु भवन्त॒ स्तृप्य॑न्तु भवत्य॒ स्तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त। पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः।
॥४॥स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भया॑ꣴस्तर्पयन्तु। तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त। प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑। यां जनाः᳚ प्रति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमि॑वाय॒तीम्। सं॒व॒त्स॒रस्य॒ या पत्नी॒ स नो॑ अस्तु सुमङ्ग॒ली स्वाहा᳚।
॥५॥वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रैना॒न् वेत्थ॒ निहि॑तान्परा॒के। मेद॑सः॒ कूल्या॒ उप॒ तान् क्ष॑रन्तु स॒त्या ए॒ता आ॒शिषः॑ सन्तु॒ कामैः॒ स्वाहा᳚। (यां जनाः᳚ प्रति॒नन्द॒न्तीत्ये॒षा।) (इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः।) ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒मन्नं॑ मा॒ꣳसव॑द्घृ॒तव॑त् स्व॒धाव॑त्।
॥६॥तद्ब्रा᳚ह्म॒णैर॑तिपू॒तम॑न॒न्तम॑क्ष॒य्यम॒मुष्मि॑न् लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒ स्वाहा᳚। औ॒लू॒ख॒ला ग्रावा॑णो॒ घोष॑मक्र॒त ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण᳚म्। ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्। ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना।
॥७॥तं दोह॒मुप॑जीवाथ पि॒तरः॑ स॒हस्र॑धारम॒मुष्मि॑न् लो॒के स्वाहा᳚॥२०॥
॥८॥