अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ ४.६.४
१६ आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम्
। सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयथ्सा॒कमिन्द्रः॑ ॥
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्य॒वनेन॑ धृ॒ष्णुना᳚
। तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ स
इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी स२ꣳ स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑
। स॒ꣳ॒सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚
॥ बृह॑स्पते॒ परि॑ दीया॒
१७ रथे॑न रक्षो॒हामित्राꣳ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्थ्सेनाः᳚ प्रमृ॒णो
यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिदं॑ गो॒विदं॒
वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मꣳ स॑जाता॒ अनु॑
वीरयध्व॒मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः
स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा
सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥ अ॒भि गो॒त्राणि॒ सह॑सा॒
गाह॑मानोऽदा॒यो
१८ वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः
पृ॑तना॒षाड॑यु॒ध्यो᳚ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ इन्द्र॑ आसां
ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभि
भञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ इन्द्र॑स्य॒ वृष्णो॒
वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां
भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ अ॒स्माक॒मिन्द्रः॒
समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
१९ अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्षय
मघव॒न्नायु॑धा॒न्युथ्सत्व॑नां माम॒कानां॒ महाꣳ॑सि । उद्वृ॑त्रहन्वा॒जिनां॒
वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा
वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ वः॒ शर्म॑ यच्छत्वनाधृ॒ष्या यथास॑थ ॥
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑ सꣳ शिता । गच्छा॒मित्रा॒न् प्र
२० वि॑श॒ मैषां॒ कं च॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒
सोम॑स्त्वा॒ राजा॒मृते॑ना॒भिऽव॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒
त्वामनु॑ मदन्तु दे॒वाः ॥ यत्र॑ बा॒णाः सं॒पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ ४। ६। ४॥ दी॒या॒दा॒यो
ज॑यन्त्व॒मित्रा॒न्प्र च॑त्वारि॒ꣳ॒ शच्च॑ ॥TS 4.6.4॥
॥१॥