अध्ययनम्
- अनुक्रमणिका
- उपनयने दण्डदानादयः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६२२–६२३ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
उपनयने दण्डदानादयः
सु॒श्रवः॑ सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वꣳ सु॒श्रवः॑ सु॒श्रवा॑ अस्ये॒वम॒हꣳ सु॒श्रवः॑ सु॒श्रवा॑ भूयासं॒ यथा॒ त्वꣳ सु॒श्रवो॑ दे॒वानां᳚ निधिगो॒पो᳚ऽस्ये॒वम॒हं ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम्।
॥१॥स्मृ॒तं च॒ मेऽस्मृ॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं नि॒न्दा च॒ मेऽनि॑न्दा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तꣴ श्र॒द्धा च॒ मेऽश्र॑द्धा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं वि॒द्या च॒ मेऽवि॑द्या च मे॒ तन्म॑ उ॒भयं॑ व्र॒तꣴ श्रु॒तं च॒ मेऽश्रु॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तꣳ स॒त्यं च॒ मेऽनृ॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं तप॑श्च॒ मेऽत॑पश्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं व्र॒तं च॒ मेऽव्र॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं यद्ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णि व्र॒तं यद॒ग्नेः सेन्द्र॑स्य॒ सप्र॑जापतिकस्य॒ सदे॑वस्य॒ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ सम॑नुष्यराजस्य॒ सपि॑तृकस्य॒ सपि॑तृराजस्य॒ सग॑न्धर्वाप्सर॒स्कस्य॒ यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तं तेना॒हꣳ सर्व॑व्रतो भूयासम्।
॥२॥उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒नोद॑स्थाम॒मृता॒ꣳ अनु॑।
॥३॥तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त्। पश्ये॑म श॒रदः॑ श॒तं जावे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑ श॒तं भवा॑म श॒रदः॑ श॒तꣳ शृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम श॒रदः॑ श॒तमजी॑ताः स्याम श॒रदः॑ श॒तं ज्योक् च॒ सुर्यं॑ दृ॒शे।
॥४॥यस्मि॑न्भू॒तं च॒ भव्यं॑ च॒ सर्वे॑ लो॒काः स॒माहि॑ताः। तेन॑ गृह्णामि त्वाम॒हं मह्यं॑ गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्यसौ॥५॥
॥५॥