मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

तं हैतमेके

तं हैतमेके. Also called tam haitam eke, Taṃ haitameke. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰सं॰ ७.१.५

१४ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑र॒थ्स

इ॒माम॑पश्य॒त्तां व॑रा॒हो भू॒त्वाह॑र॒त्तां वि॒श्वक॑र्मा भू॒त्वा

व्य॑मा॒र्ट्साप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वं

तस्या॑मश्राम्यत्प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसू᳚न्रु॒द्राना॑दि॒त्यान्ते दे॒वाः

प्र॒जाप॑तिमब्रुव॒न् प्र जा॑यामहा॒ इति॒ सो᳚ऽब्रवी॒द्

१५ यथा॒हं यु॒ष्माग्स्तप॒सासृ॑क्ष्ये॒वं तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॒

तेभ्यो॒ऽग्निमा॒यत॑नं॒ प्राय॑च्छदे॒तेना॒यत॑नेन श्राम्य॒तेति॒

ते᳚ऽग्निना॒यत॑नेनाश्राम्य॒न्ते सं॑वथ्स॒र एकां॒ गाम॑सृजन्त॒ तां वसु॑भ्यो

रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राय॑च्छन्ने॒ताꣳ र॑क्षध्व॒मिति॒ तां वस॑वो रु॒द्रा

आ॑दि॒त्या अ॑रक्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च

१६ श॒तानि॒ त्रय॑स्त्रिꣳशतं॒ चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त्ते

दे॒वाः प्र॒जाप॑तिमब्रुवन्थ्स॒हस्रे॑ण नो याज॒येति॒ सो᳚ऽग्निष्टो॒मेन॒

वसू॑नयाजय॒त्त इ॒मं लो॒कम॑जय॒न्तच्चा॑ददुः॒ स उ॒क्थ्ये॑न

रु॒द्रान॑याजय॒न्ते᳚ऽन्तरि॑क्षमजय॒न्तच्चा॑ददुः॒

सो॑ऽतिरा॒त्रेणा॑दि॒त्यान॑याजय॒त्ते॑ऽमुं

लो॒कम॑जय॒न्तच्चा॑ददु॒स्तद॒न्तरि॑क्षं॒

१७ व्यवै᳚र्यत॒ तस्मा᳚द्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लं वै

म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भं मध्य॒मस्याह्न॒

आज्यं॑ भवति सं॒याना॑नि सू॒क्तानि॑ शꣳसति षोड॒शिनꣳ॑ शꣳस॒त्यह्नो॒

धृत्या॒ अशि॑थिलं भावाय॒ तस्मा᳚त्त्रिरा॒त्रस्या᳚ग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑

स्या॒दथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षां लो॒कानां॒ विधृ॑त्यै॒ त्रीणि॑त्रीणि

श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददा

१८ त्ये॒षां लो॒काना॒मनु॒ संत॑त्यै द॒शतं॒ न वि च्छि॑न्द्याद्वि॒राजं॒

नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒

व्याय॑च्छेता॒ꣳ॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं विष्णुः॑ स॒हस्रं॑ वर्क्ष्यत॒

इति॒ तस्या॑मकल्पेतां॒ द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाभ्यनू᳚च्यत

उ॒भा जि॑ग्यथु॒रिति॒ तां वा ए॒ताम॑च्छावा॒क

१९ ए॒व शꣳ॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रं॒

वा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होताना᳚प्तस्यापयि॒ताथा॑हुरुन्ने॒त्रे

देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑हुः॒ सर्वे᳚भ्यः

सद॒स्ये᳚भ्यो॒ देयेत्यथा॑हुरुदा॒कृत्या॒ सा वशं॑ चरे॒दित्यथा॑हुर्ब्र॒ह्मणे॑

चा॒ग्नीधे॑ च॒ देयेति॒

२० द्विभा॑गं ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा

वै᳚ष्ण॒वो᳚ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा

देयेत्यथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑ एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒

तद्वा ए॒तथ्स॒हस्र॒स्याय॑नꣳ स॒हस्रग्ग्॑ स्तो॒त्रीयाः᳚ स॒हस्रं॒ दक्षि॑णाः

स॒हस्र॑ संमितः सुव॒र्गो लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥

७। १। ५॥ अ॒ब्र॒वी॒च्च॒ तद॒न्तरि॑क्षन्ददात्यच्छावा॒कश्च॒ देयेति॑

स॒प्तच॑त्वारिꣳशच्चTS 7.1.5

॥१॥