अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰आ॰ ३.१४
भ॒र्ता सन्भ्रि॒यमा॑णो बिभर्ति।
एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः।
य॒दा भा॒रं त॒न्द्रय॑ते॒ स भर्तुम्᳚।
नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति।
तमे॒व मृ॒त्युम॒मृतं॒ तमा॑हुः।
तं भ॒र्तारं॒ तमु॑ गो॒प्तार॑माहुः।
स भृ॒तो भ्रि॒यमा॑णो बिभर्ति।
य ए॑नं॒ वेद॑ स॒त्येन॒ भर्तुम्᳚।
स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः।
उ॒तो जर॑न्तं॒ न ज॑हा॒त्येकम्᳚॥४१॥
उ॒तो ब॒हूनेक॒मह॑र्जहार।
अत॑न्द्रो दे॒वः सद॑मे॒व प्रार्थः॑।
यस्तद्वेद॒ यत॑ आब॒भूव॑।
स॒न्धां च॒ याꣳ स॑न्द॒धे ब्रह्म॑णै॒षः।
रम॑ते॒ तस्मि॑न्नु॒त जी॒र्णे शया॑ने।
नैनं॑ जहा॒त्यहः॑ सु पू॒र्व्येषु॑।
त्वामापो॒ अनु॒ सर्वा᳚श्चरन्ति जान॒तीः।
व॒थ्सं पय॑सा पुना॒नाः।
त्वम॒ग्निꣳ ह॑व्य॒वाह॒ꣳ॒ समि᳚न्थ्से।
त्वं भ॒र्ता मा॑त॒रिश्वा᳚ प्र॒जाना᳚म्॥४२॥
त्वं य॒ज्ञस्त्वमु॑वे॒वासि॒ सोमः॑।
तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे᳚।
त्वमेको॑ऽसि ब॒हूननु॒प्रवि॑ष्टः।
नम॑स्ते अस्तु सु॒हवो॑ म एधि।
नमो॑ वामस्तु शृणु॒तꣳ हवं॑ मे।
प्राणा॑पानावजि॒रꣳ स॒ञ्चर॑न्तौ।
ह्वया॑मि वां॒ ब्रह्म॑णा तू॒र्तमेतम्᳚।
यो मां द्वेेष्टि॒ तं ज॑हितं युवाना।
प्राणा॑पानौ संविदा॒नौ ज॑हितम्।
अ॒मुष्यासु॑ना॒मा सङ्ग॑साथाम्॥४३॥
तं मे॑ देवा॒ ब्रह्म॑णा संविदा॒नौ।
व॒धाय॑ दत्तं॒ तम॒हꣳ ह॑नामि।
अस॑ज्जजान स॒त आब॑भूव।
यं यं॑ ज॒जान॒ स उ॑ गो॒पो अ॑स्य।
य॒दा भा॒रं त॒न्द्रय॑ते॒ स भर्तुम्᳚।
प॒रास्य॑ भा॒रं पुन॒रस्त॑मेति।
तद्वै त्वं प्रा॒णो अ॑भवः।
म॒हान्भोगः॑ प्र॒जाप॑तेः।
भुजः॑ करि॒ष्यमा॑णः।
यद्दे॒वान्प्राण॑यो॒ नव॑॥४४॥ ॥TA 3.14॥
॥१॥