भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्नि-म॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ।
आऽयङ्गौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑ च प्र॒यन्त्सुवः॑ ।
त्रि॒ꣳ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒ द्युभिः॑ ।
अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन् महि॒षः सुवः॑ ॥
यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ।
यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ।
मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्वा घृ॒तेन॑ ।
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ।
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ।
लेकः॒ सले॑कः सु॒लेक॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः सु॒केत॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ विव॑स्वा॒ꣳ॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु ।