अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- अन्यत्र ग्रन्थे
- मूलम्
तै॰सं॰ ३.४.७
१९ ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒
नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒
तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑ सꣳहि॒तो वि॒श्वसा॑मा॒ सूऱ्यो॑ गन्ध॒र्वस्तस्य॒
मरी॑चयोऽप्स॒रस॑ आ॒युवः॑ सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒
नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यो भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒
दक्षि॑णा अप्स॒रसः॑ स्त॒वाः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑
२० गन्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑य इषि॒रो वि॒श्वव्य॑चा॒ वातो॑
गन्ध॒र्वस्तस्यापो᳚ऽप्स॒रसो॑ मु॒दा भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा
इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवथ्स॒रीणाग्॑
स्व॒स्तिम् ॥ प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒
भुवः॑ सुक्षि॒तिः सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑
वि॒द्युतो᳚ऽप्स॒रसो॒ रुचो॑ दू॒रेहे॑तिरमृड॒यो
२१ मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुव॒श्चारुः॑ कृपणका॒शी
कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दं ब्रह्म॑
क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒
स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै
क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ ३। ४। ७॥ मनो॑ऽमृड॒यष्षट्च॑त्वारिꣳशच्च ॥TS 3.4.7॥
॥१॥