अध्ययनम्
- अनुक्रमणिका
- तै॰ब्रा॰ ३.९.१०
- संहिता निर्देशाः
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
तै॰ब्रा॰ ३.९.१०
प्र॒जाप॑तिरकामयत म॒हान॑न्ना॒दः स्या॒मिति॑।
स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत्।
ताव॑गृह्णीत।
ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत्।
यः का॒मये॑त म॒हान॑न्ना॒दः स्या॒मिति॑।
स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत।
म॒हाने॒वान्ना॒दो भ॑वति।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा।
राजा॑ महि॒मा।
यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति।
यज॑मानमे॒व रा॒ज्येनो॑भ॒यतः॒ परि॑गृह्णाति।
पु॒रस्ता᳚थ्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः।
उ॒परि॑ष्टाथ्स्वाहाकारा अ॒न्ये।
ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते।
यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति।
ताने॒वोभया᳚न्प्रीणाति॥४१॥ ॥TB 3.9.10॥
॥१॥