अध्ययनम्
- अनुक्रमणिका
- समावर्तनमन्त्राः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६२४–६२६ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
समावर्तनमन्त्राः
इ॒मꣴ स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ संम॑हेमा मनी॒षया᳚। भ॒द्रा हि नः॒ प्रम॑तिरस्य स॒ꣳसद्यग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑। त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। यद्दे॒वानां᳚ त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम्। शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः।
॥१॥(उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः।) इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑। (आपो॒ हिष्ठा म॑यो॒भुव॒ इति॑ ति॒स्रो हिर॑ण्यवर्णाः॒ सुच॑यः पाव॒का इति॑ ति॒स्रः।) अ॒न्नाद्या॑य॒ व्यू॑हध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम्। सोमो॒ राजा॒ यमाग॑म॒त्स मे॒ मुखं॒ प्रवे᳚क्ष्यति॒ भगे॑न स॒ह वर्च॑सा।
॥२॥सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि॒ स्वा मा॑ त॒नूरावि॑श। नमो᳚ ग्र॒हाय॑ चाभिग्र॒हाय॑ च॒ नमः॑ शाकजञ्ज॒भाभ्यां॒ नम॒स्ताभ्यो॑ दे॒वता᳚भ्यो॒ या अ॑भिग्रा॒हिणीः᳚। अ॒प्स॒रस्सु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑। दैवो॒ यो मा॑नु॒षो ग॒न्धः स मा॑ ग॒न्धः सु॑र॒भिर्जु॑षताम्। इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती।
॥३॥सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु। अपा॑शो॒ऽस्युरो॑ मे॒ मा सꣳ शा॑रीः शि॒वो मोप॑ तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय। श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य। (रे॒वती᳚स्त्वा॒ व्य॑क्ष्ण॒न्नित्ये॒ताः)॥७॥
॥४॥आ॒यु॒ष्यं॑ वर्च॒स्य॑ꣳ सु॒वीर्य॑ꣳ रा॒यस्पोष॒मौद्भि॑द्यम्। इ॒दꣳ हिर॑ण्यं॒ जैत्र्या॒यावि॑शतां॒ माम्। उ॒च्चै॒र्वा॒दि पृ॑तना॒जि स॑त्रासा॒हं ध॑नञ्ज॒यम्। सर्वाः॒ समृ॑द्धी॒र्ऋद्ध॑यो॒ हिर॑ण्ये॒ऽस्मिन् स॒माहि॑ताः। शु॒नम॒हꣳ हिर॑ण्यस्य पि॒तुरि॑व॒ नामा᳚ग्रभैषम्। तं मा॒ हिर॑ण्यवर्चसं पू॒रुषु॑ प्रि॒यं कु॑रु।
॥५॥प्रि॒यं मा॑ दे॒वेषु॑ कुरु प्रि॒यं मा॒ ब्रह्म॑णे कुरु। प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑ प्रि॒यꣳ राज॑सु मा कुरु। या ति॒रश्ची॑ नि॒पद्य॑से॒ऽहं वि॒धर॑णी॒ इति॑। तां त्वा॑ घृ॒तस्य॒ धार॑या॒ यजे॑ स॒ꣳराध॑नीम॒हम्। स॒ꣳराध॑न्यै दे॒व्यै स्वाहा᳚ प्र॒साध॑न्यै दे॒व्यै स्वाहा᳚। स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे।
॥६॥ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सꣳ सृ॑जामसि। शुभि॑के॒ शिर॒ आ रो॑ह शो॒भय॑न्ती॒ मुखं॒ मम॑। मुख॑ꣳ हि॒ मम॑ शोभय॒ भूया॑ꣳसं च॒ भगं॑ कुरु। यामाह॑रज्ज॒मद॑ग्निः श्र॒द्धायै॑ कामाया॒न्यै। इ॒मां तामपि॑ नह्ये॒ऽहं भगे॑न स॒ह वर्च॑सा। यदाञ्ज॑नं त्रैककु॒दं जा॒तꣳ हि॒मव॑त उ॒परि॑। तेन॑ वामाञ्जे॒ तेज॑से॒ वर्च॑से॒ भगा॑य च॥८॥
॥७॥मयि॑ पर्वतपूरु॒षं मयि॑ पर्वतवर्च॒सं मयि॑ पर्वतभेष॒जं मयि॑ पर्वतायु॒षम्। यन्मे॒ वर्चः॑ प॒राग॑तमा॒त्मान॑मुप॒तिष्ठ॑ति। इ॒दं तत्पुन॒राद॑दे दीर्घायु॒त्वाय॒ वर्च॑से। प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑नां॒ मा मा॒ संता᳚प्तम्। प्र॒जाप॑तेः॒ शर॑णमसि॒ ब्रह्म॑णश्छ॒दिर्वि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि।
॥८॥दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒माद॑दे द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑सि॒ वार्त्र॑घ्नः॒ शर्म॑ मे भव॒ यत्पा॒पं तन्निवा॑रय। (देवीः᳚ षडुर्वी॒रित्ये॒षा।) {देवीः᳚ षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑देवास इ॒ह वी॑रयध्वम्। मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्॥}
॥९॥