अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰आ॰ २.३
यद्दे॑वा देव॒हेळ॑नं॒ देवा॑सश्चकृ॒मा व॒यम्।
आदि॑त्या॒स्तस्मा᳚न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त।
देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदि॒म।
तस्मा᳚न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवाः स॒जोष॑सः।
ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वꣳ स॑रस्वति।
कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्किं चानृ॑तमूदि॒म।
इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑।
ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म।
स॒जा॒त॒श॒ꣳ॒सादु॒त जा॑मिश॒ꣳ॒साज्ज्याय॑सः॒ शꣳसा॑दु॒त वा॒ कनी॑यसः।
अना॑धृष्टं दे॒वकृ॑तं॒ यदेन॒स्तस्मा॒त् त्वम॒स्माञ्जा॑तवेदो मुमुग्धि॥३॥
यद्वा॒चा यन्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याꣳ॑ शि॒श्नैर्यदनृ॑तं चकृ॒मा व॒यम्।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता।
येन॑ त्रि॒तो अ॑र्ण॒वान्नि॑र्ब॒भूव॒ येन॒ सूर्यं॒ तम॑सो निर्मु॒मोच॑।
येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हं ज्योति॑षा॒ ज्योति॑रानशा॒न आ᳚क्षि।
यत्कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि।
ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि।
यन्मयि॑ मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑क्षं॒ यदा॒शसाति॑क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता यदाप॑ इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑॥४॥ ॥TA 2.3॥
॥१॥