मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मज्ञानावलीमाला

3

सम्प्रदायतः श्रीशङ्करकृता

सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।

ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥

॥१॥

असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः ।

सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥

॥२॥

नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः ।

भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ॥

॥३॥

नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते ।

परमानन्दरूपोऽहमहमेवाहमव्ययः ॥

॥४॥

शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।

अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ॥

॥५॥

प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः ।

शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ॥

॥६॥

तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः ।

मायातीतः परंज्योतिरहमेवाहमव्ययः ॥

॥७॥

नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः ।

सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥

॥८॥

मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।

स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥

॥९॥

गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् ।

अनन्तानन्तरूपोऽहमहमेवाहमव्ययः ॥

॥१०॥

अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् ।

परमात्मस्वरूपोऽहमहमेवाहमव्ययः ॥

॥११॥

निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः ।

अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥

॥१२॥

द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।

सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥

॥१३॥

प्रज्ञानघन एवाहं विज्ञानघन एव च ।

अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥

॥१४॥

निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।

आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥

॥१५॥

तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।

अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः ॥

॥१६॥

दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ ।

दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥

॥१७॥

अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः ।

स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः ॥

॥१८॥

घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।

तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥

॥१९॥

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।

अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ॥

॥२०॥

अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः ।

ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥

॥२१॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ब्रह्मज्ञानावलीमाला सम्पूर्णा