मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अच्युताष्टकम्

3

श्रीशङ्करभगवत्पादकृतम्

अच्युतं केशवं राम-नारायणं

कृष्ण-दामोदरं वासुदेवं हरिम् ।

श्रीधरं माधवं गोपिकावल्लभं

जानकीनायकं रामचन्द्रं भजे ॥

॥१॥

अच्युतं केशवं सत्यभामाधवं

माधवं श्रीधरं राधिकाराधितम् ।

इन्दिरा मन्दिरं चेतसा सुन्दरं

देवकीनन्दनं नन्दनं सन्दधे ॥

॥२॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे

रुक्मिणी-रागिने जानकी-जानये ।

वल्लवी-वल्लभायाऽर्चितायात्मने

कंस-विध्वंसिने वंशिने ते नमः ॥

॥३॥

कृष्ण गोविन्द हे राम नारायण

श्रीपते वासुदेवार्जित-श्रीनिधे ।

अच्युतानन्त हे माधवाधोक्षज

द्वारका-नायक द्रौपदी-रक्षक ॥

॥४॥

राक्षसक्षोभितः सीतया शोभितो

दण्डकारण्य-भू-पुण्यता-कारणः ।

लक्ष्मणेनान्वितो वानरैः सेवितो-

ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥

॥५॥

धेनुकारिष्टकोऽनिष्टकृद् द्वेषिणां

केशिहा कंसहृद् वंशिकावादकः ।

पूतनाकोपकः सूरजा-खेलनो

बाल-गोपालकः पातु मां सर्वदा ॥

॥६॥

विद्युदाद्योतवान् प्रस्फुरद्वाससं

प्रावृडम्भोदवत् प्रोल्लसद्विग्रहम् ।

वन्यया मालया शोभितोरस्थलं

लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥

॥७॥

कुञ्चितैः कुन्तलैर्भ्राजिमानाननं

रत्नमौलिं लसत् कुण्डलं गण्डयोः ।

हारकेयूरकं कङ्कण-प्रोज्ज्वलं

किङ्किणी-मञ्जुलं श्यामलं तं भजे ॥

॥८॥

अच्युतस्याष्टकं यः पठेदिष्टदं

प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।

वृत्ततः सुन्दरं वेद्यविश्वम्बरं

तस्य वश्यो हरिर्जायते सत्वरम् ॥

॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-अच्युताष्टकं सम्पूर्णम्