- १ॐ प्रत्यङ्गिरायै नमः
- २ॐ ओङ्काररूपिण्यै नमः
- ३ॐ क्षं ह्रां बीजप्रेरितायै नमः
- ४ॐ विश्वरूपास्त्यै नमः
- ५ॐ विरूपाक्षप्रियायै नमः
- ६ॐ ऋङ्मन्त्रपारायणप्रीतायै नमः
- ७ॐ कपालमालालङ्कृतायै नमः
- ८ॐ नागेन्द्रभूषणायै नमः
- ९ॐ नागयज्ञोपवीतधारिण्यै नमः
- १०ॐ कुञ्चितकेशिन्यै नमः
- ११ॐ कपालखट्वाङ्गधारिण्यै नमः
- १२ॐ शूलिन्यै नमः
- १३ॐ रक्तनेत्रज्वालिन्यै नमः
- १४ॐ चतुर्भुजायै नमः
- १५ॐ डमरुकधारिण्यै नमः
- १६ॐ ज्वालाकरालवदनायै नमः
- १७ॐ ज्वालाजिह्वायै नमः
- १८ॐ करालदंष्ट्रायै नमः
- १९ॐ आभिचारिकहोमाग्निसमुत्थितायै नमः
- २०ॐ सिंहमुखायै नमः
- २१ॐ महिषासुरमर्दिन्यै नमः
- २२ॐ धूम्रलोचनायै नमः
- २३ॐ कृष्णाङ्गायै नमः
- २४ॐ प्रेतवाहनायै नमः
- २५ॐ प्रेतासनायै नमः
- २६ॐ प्रेतभोजिन्यै नमः
- २७ॐ रक्तप्रियायै नमः
- २८ॐ शाकमांसप्रियायै नमः
- २९ॐ अष्टभैरवसेवितायै नमः
- ३०ॐ डाकिनीपरिसेवितायै नमः
- ३१ॐ मधुपानप्रियायै नमः
- ३२ॐ बलिप्रियायै नमः
- ३३ॐ सिंहवाहनायै नमः
- ३४ॐ सिंहगर्जिन्यै नमः
- ३५ॐ परमन्त्रविदारिण्यै नमः
- ३६ॐ परयन्त्रविनाशिन्यै नमः
- ३७ॐ परकृत्याविध्वंसिन्यै नमः
- ३८ॐ गुह्यविद्यायै नमः
- ३९ॐ सिद्धविद्यायै नमः
- ४०ॐ योनिरूपिण्यै नमः
- ४१ॐ नवयोनिचक्रात्मिकायै नमः
- ४२ॐ वीररूपायै नमः
- ४३ॐ दुर्गारूपायै नमः
- ४४ॐ महाभीषणायै नमः
- ४५ॐ घोररूपिण्यै नमः
- ४६ॐ महाक्रूरायै नमः
- ४७ॐ हिमाचलनिवासिन्यै नमः
- ४८ॐ वराभयप्रदायै नमः
- ४९ॐ विष्णुरूपायै नमः
- ५०ॐ शत्रुभयङ्कर्यै नमः
- ५१ॐ विद्युद्घातायै नमः
- ५२ॐ शत्रुमूर्धस्फोटनायै नमः
- ५३ॐ विधूमाग्निसमप्रभायै नमः
- ५४ॐ महामायायै नमः
- ५५ॐ माहेश्वरप्रियायै नमः
- ५६ॐ शत्रुकार्यहानिकर्यै नमः
- ५७ॐ ममकार्यसिद्धिकर्यै नमः
- ५८ॐ शत्रूणां उद्योगविघ्नकर्यै नमः
- ५९ॐ ममसर्वोद्योगवश्यकर्यै नमः
- ६०ॐ शत्रुपशुपुत्रविनाशिन्यै नमः
- ६१ॐ त्रिनेत्रायै नमः
- ६२ॐ सुरासुरनिषेवितायै नमः
- ६३ॐ तीव्रसाधकपूजितायै नमः
- ६४ॐ नवग्रहशासिन्यै नमः
- ६५ॐ आश्रितकल्पवृक्षायै नमः
- ६६ॐ भक्तप्रसन्नरूपिण्यै नमः
- ६७ॐ अनन्तकल्याणगुणाभिरामायै नमः
- ६८ॐ कामरूपिण्यै नमः
- ६९ॐ क्रोधरूपिण्यै नमः
- ७०ॐ मोहरूपिण्यै नमः
- ७१ॐ मदरूपिण्यै नमः
- ७२ॐ उग्रायै नमः
- ७३ॐ नारसिंह्यै नमः
- ७४ॐ मृत्युमृत्युस्वरूपिण्यै नमः
- ७५ॐ अणिमादिसिद्धिप्रदायै नमः
- ७६ॐ अन्तश्शत्रुविदारिण्यै नमः
- ७७ॐ सकलदुरितविनाशिन्यै नमः
- ७८ॐ सर्वोपद्रवनिवारिण्यै नमः
- ७९ॐ दुर्जनकालरात्र्यै नमः
- ८०ॐ महाप्राज्ञायै नमः
- ८१ॐ महाबलायै नमः
- ८२ॐ कालीरूपिण्यै नमः
- ८३ॐ वज्राङ्गायै नमः
- ८४ॐ दुष्टप्रयोगनिवारिण्यै नमः
- ८५ॐ सर्वशापविमोचन्यै नमः
- ८६ॐ निग्रहानुग्रहक्रियानिपुणायै नमः
- ८७ॐ इच्छाज्ञानक्रियाशक्तिरूपिण्यै नमः
- ८८ॐ ब्रह्मविष्णुशिवात्मिकायै नमः
- ८९ॐ हिरण्यसटाच्छटायै नमः
- ९०ॐ इन्द्रादिदिक्पालकसेवितायै नमः
- ९१ॐ परप्रयोगप्रत्यक्प्रचोदिन्यै नमः
- ९२ॐ खड्गमालारूपिण्यै नमः
- ९३ॐ नृसिंहसालग्रामनिवासिन्यै नमः
- ९४ॐ भक्तशत्रुभक्षिण्यै नमः
- ९५ॐ ब्रह्मास्त्रस्वरूपायै नमः
- ९६ॐ सहस्रारशक्त्यै नमः
- ९७ॐ सिद्धेश्वर्यै नमः
- ९८ॐ योगीश्वर्यै नमः
- ९९ॐ आत्मरक्षणशक्तिदायिन्यै नमः
- १००ॐ सर्वविघ्नविनाशिन्यै नमः
- १०१ॐ सर्वान्तकनिवारिण्यै नमः
- १०२ॐ सर्वदुष्टप्रदुष्टशिरश्छेदिन्यै नमः
- १०३ॐ अथर्वणवेदभासितायै नमः
- १०४ॐ श्मशानवासिन्यै नमः
- १०५ॐ भूतवेतालसेवितायै नमः
- १०६ॐ सिद्धमण्डलपूजितायै नमः
- १०७ॐ महाभैरवप्रियायै नमः
- १०८ॐ प्रत्यङ्गिराभद्रकालीदेवतायै नमः