मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

हयग्रीव अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

ध्यानम्

वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं

मन्दाकिन्यमृताब्धिकुन्दकुमुदक्षीरेन्दुहासं हरिम् ।

मुद्रापुस्तकशङ्खचक्रविलसच्छ्रीमद्भुजामण्डितं

नित्यं निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥

॥१॥

ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् ।

आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥

॥२॥

स्तोत्रम्

हयग्रीवो महाविष्णुः केशवो मधुसूदनः ।

गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥

॥३॥

आदित्यः सर्ववागीशः सर्वाधारः सनातनः ।

निराधारो निराकारो निरीशो निरुपद्रवः ॥

॥४॥

निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः ।

चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥

॥५॥

श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः ।

वेदोद्धर्त्ता वेदनिधिर्वेदवेद्यः प्रभूतनः ॥

॥६॥

पूर्णः पूरयिता पुण्य़ः पुण्यकीर्तिः परात्परः ।

परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥

॥७॥

र्सर्ववेदात्मको विद्वान् वेदवेदाङ्गपारगः ।

सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ॥

॥८॥

अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः ।

पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः ॥

॥९॥

शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः ।

जगन्मृत्युहरो जीवो जयदो जाड्यनाशनः ॥

॥१०॥

जनप्रियो जनस्तुत्यो जापकप्रियकृत्प्रभुः ।

विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ॥

॥११॥

विधीन्द्रशिवसंस्तुत्यः शान्तिदः क्षान्तिपारगः ।

श्रेयप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः ॥

॥१२॥

अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः ।

अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ॥

॥१३॥

अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ।

ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ॥

॥१४॥

महायोगी महामौनी मौनीशः श्रेयसां पतिः ।

हंसः परमहंसश्च विश्वगोप्ता विराट् स्वराट् ॥

॥१५॥

शुद्धस्फटिकसङ्काशो जटामण्डलसंयुतः ।

आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ॥

॥१६॥

इति श्री-हयग्रीवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्