मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

विष्णुभुजङ्गप्रयातस्तोत्रम्

3

श्रीशङ्करभगवत्पादकृतम्

[]

चिदंशं विभुं निर्मलं निर्विकल्पं

निरीहं निराकारमोङ्कारगम्यम् ।

गुणातीतमव्यक्तमेकं तुरीयं

परं ब्रह्म यं वेद तस्मै नमस्ते ॥

॥१॥

विशुद्धं शिवं शान्तमाद्यन्तशून्यं

जगज्जीवनं ज्योतिरानन्दरूपम् ।

अदिग्देशकालव्यवच्छेदनीयं

त्रयी वक्ति यं वेद तस्मै नमस्ते ॥

॥२॥

महायोगपीठे परिभ्राजमाने

धरण्यादितत्त्वात्मके शक्तियुक्ते ।

गुणाहस्करे वह्निबिम्बार्धमध्ये

समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे ॥

॥३॥

समानोदितानेकसूर्येन्दुकोटि-

प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् ।

न शीतं न चोष्णं सुवर्णावदात-

प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥

॥४॥

सुनासापुटं सुन्दरभ्रूललाटं

किरीटोचिताकुञ्चितस्निग्धकेशम् ।

स्फुरत् पुण्डरीकाभिरामायताक्षं

समुत्फुल्लरत्नप्रसूनावतंसम् ॥

॥५॥

लसत् कुण्डलामृष्टगण्डस्थलान्तं

जपारागचोराधरं चारुहासम् ।

अलिव्याकुलामोलिमन्दारमालं

महोरस्फुरत्कौस्तुभोदारहारम् ॥

॥६॥

सुरत्नाङ्गदैरन्वितं बाहुदण्डैः

चतुर्भिश्चलत्कङ्कणालङ्कृताग्रैः ।

उदारोदरालङ्कृतं पीतवस्त्रं

पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥

॥७॥

स्वभक्तेषु सन्दर्शिताकारमेवं

सदा भावयन् सन्निरुद्धेन्द्रियाश्वः ।

दुरापं नरो याति संसारपारं

परस्मै परेभ्योऽपि तस्मै नमस्ते ॥

॥८॥

श्रिया शातकुम्भद्युतिस्निग्धकान्त्या

धरण्या च दूर्वादलश्यामलाङ्ग्या ।

कलत्रद्वयेनामुना तोषिताय

त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥

॥९॥

शरीरं कलत्रं सुतं बन्धुवर्गं

वयस्यं धनं सद्म भृत्यं भुवं च ।

समस्तं परित्यज्य हा कष्टमेको

गमिष्यामि दुःखेन दूरं किलाहम् ॥

॥१०॥

जरेयं पिशाचीव हा जीवतो मे

वसामक्ति रक्तं च मांसं बलं च ।

अहो देव सीदामि दीनानुकम्पिन्

किमद्यापि हन्त त्वयोदासितव्यम् ॥

॥११॥

कफव्याहतोष्णोल्बणश्वासवेग-

व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।

विचिन्त्याहमन्त्यामसङ्ख्यामवस्थां

बिभेमि प्रभो किं करोमि प्रसीद ॥

॥१२॥

लपन्नच्युतानन्त गोविन्द विष्णो

मुरारे हरे नाथ नारायणेति ।

यथाऽनुस्मरिष्यामि भक्त्या भवन्तं

तथा मे दयाशील देव प्रसीद ॥

॥१३॥

भुजङ्गप्रयातं पठेद्यस्तु भक्त्या

समाधाय चित्ते भवन्तं मुरारे ।

स मोहं विहायाऽऽशु युष्मत्प्रसादात्

समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥

॥१४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-विष्णुभुजङ्गप्रयातस्तोत्रं सम्पूर्णम्