मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीवेङ्कटेशसुप्रभातम्

3

श्रीप्रतिवादिभयङ्कराण्णङ्गराचार्यकृतम्

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥

॥१॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।

उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥

॥२॥

मातः समस्तजगतां मधुकैटभारेः

वक्षोविहारिणि मनोहरदिव्यमूर्ते ।

श्रीस्वामिनि श्रितजनप्रियदानशीले

श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥

॥३॥

तव सुप्रभातमरविन्दलोचने

भवतु प्रसन्नमुखचन्द्रमण्डले ।

विधिशङ्करेन्द्रवनिताभिरर्चिते

वृषशैलनाथदयिते दयानिधे ॥

॥४॥

अत्र्यादिसप्तऋषयः समुपास्य सन्ध्याम्

आकाशसिन्धुकमलानि मनोहराणि ।

आदाय पादयुगमर्चयितुं प्रपन्नाः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥५॥

पञ्चाननाब्जभवषण्मुखवासवाद्याः

त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।

भाषापतिः पठति वासरशुद्धिमारात्

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥६॥

ईषत्प्रफुल्ल-सरसीरुह-नारिकेल-

पूगद्रुमादि-सुमनोहरपालिकानाम् ।

आवाति मन्दमनिलः सह दिव्यगन्धैः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥७॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः

पात्रावशिष्टकदलीफलपायसानि ।

भुक्त्वा सलीलमथ केलिशुकाः पठन्ति

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥८॥

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या

गायत्यनन्तचरितं तव नारदोऽपि ।

भाषासमग्रमसकृत्करचाररम्यं

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥९॥

भृङ्गावली च मकरन्दरसानुविद्ध-

झङ्कारगीत निनदैः सह सेवनाय ।

निर्यात्युपान्तसरसीकमलोदरेभ्यः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥१०॥

योषागणेन वरदध्निविमथ्यमाने

घोषालयेषु दधिमन्थनतीव्रघोषाः ।

रोषात्कलिं विदधते ककुभश्च कुम्भाः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥११॥

पद्मेशमित्रशतपत्रगतालिवर्गाः

हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।

भेरीनिनादमिव बिभ्रति तीव्रनादं

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥

॥१२॥

श्रीमन्नभीष्टवरदाखिललोकबन्धो

श्रीश्रीनिवास जगदेकदयैकसिन्धो ।

श्रीदेवतागृहभुजान्तरदिव्यमूर्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥१३॥

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः

श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।

द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥१४॥

श्रीशेषशैल-गरुडाचल-वेङ्कटाद्रि-

नारायणाद्रि-वृषभाद्रि-वृषाद्रि-मुख्याम् ।

आख्यां त्वदीय वसतेरनिशं वदन्ति

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥१५॥

सेवापराः शिव-सुरेश-कृशानु-धर्म-

रक्षोऽम्बुनाथ-पवमान-धनाधिनाथाः ।

बद्धाञ्जलि-प्रविलसन्निजशीर्ष-देशाः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥१६॥

धाटीषु ते विहगराज-मृगाधिराज-

नागाधिराज-गजराज-हयाधिराजाः ।

स्वस्वाधिकार-महिमाऽधिकमर्थयन्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥१७॥

सूर्येन्दु-भौम-बुध-वाक्पति-काव्य-सौरि-

स्वर्भानु-केतु-दिविषत्परिषत्प्रधानाः ।

त्वद्दास-दास-चरमावधि-दासदासाः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥१८॥

त्वत् पादधूलिभरितस्फुरितोत्तमाङ्गाः

स्वर्गापवर्गनिरपेक्ष-निजान्तरङ्गाः ।

कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥१९॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः

स्वर्गापवर्गपदवीं परमां श्रयन्तः ।

मर्त्या मनुष्यभुवने मतिमाश्रयन्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥२०॥

श्रीभूमिनायक दयादिगुणामृताब्धे

देवाधिदेव जगदेकशरण्यमूर्ते ।

श्रीमन्ननन्त-गरुडादिभिरर्चिताङ्घ्रे

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥२१॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव

वैकुण्ठ माधव जनार्दन चक्रपाणे ।

श्रीवत्सचिह्न शरणागत-पारिजात

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥२२॥

कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते

कान्ताकुचाम्बुरुह-कुड्मल-लोलदृष्टे ।

कल्याणनिर्मलगुणाकर दिव्यकीर्ते

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥२३॥

मीनाकृते कमठ कोल नृसिंह वर्णिन्

स्वामिन् परश्वथ तपोधन रामचन्द्र ।

शेषांशराम यदुनन्दन कल्किरूप

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥२४॥

एला-लवङ्ग-घनसार-सुगन्धि-तीर्थं

दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।

धृत्वाऽद्य वैदिकशिखामणयः प्रहृष्टाः

तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥

॥२५॥

भास्वानुदेति विकचानि सरोरुहाणि

सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।

श्रीवैष्णवाः सततमर्थित-मङ्गलास्ते

धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥

॥२६॥

ब्रह्मादयः सुरवराः समहर्षयस्ते

सन्तः सनन्दन मुखास्तव योगिवर्याः ।

धामान्तिके तव हि मङ्गलवस्तुहस्ताः

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥२७॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो

संसार-सागर-समुत्तरणैकसेतो ।

वेदान्तवेद्य निजवैभव भक्तभोग्य

श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥

॥२८॥

इत्थं वृषाचलपतेरिह सुप्रभातं

ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।

तेषां प्रभातसमये स्मृतिरङ्गभाजां

प्रज्ञां परार्थसुलभां परमां प्रसूते ॥

॥२९॥

इति श्री-वेङ्कटेश सुप्रभातम् सम्पूर्णम्