श्रीशङ्करभगवत्पादकृतम्
सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने
कावेरीमध्यदेशे फणिपतिशयने शेषपर्यङ्कभागे ।
निद्रामुद्राभिरामं कटिनिकटशिरः पार्श्वविन्यस्तहस्तं
पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥
॥१॥आनन्दरूपे निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे ।
शशाङ्करूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे ॥
॥२॥कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुचेले ।
दैत्यान्तकालेऽखिललोकलीले
श्रीरङ्गलीले रमतां मनो मे ॥
॥३॥लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे ।
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे ॥
॥४॥ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये ।
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो मे ॥
॥५॥ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे ॥
॥६॥अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे ।
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे ॥
॥७॥स चित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे ॥
॥८॥इदं हि रङ्गं त्यजतामिहाङ्गं
पुनर्नचाङ्कं यदि चाङ्गमेति ।
पाणौ रथाङ्गं चरणेम्बु गाङ्गं
याने विहङ्गं शयने भुजङ्गम् ॥
॥९॥रङ्गनाथाष्टकं पुण्यं
प्रातरुत्थाय यः पठेत् ।
सर्वान् कामानवाप्नोति
रङ्गिसायुज्यमाप्नुयात् ॥
॥१०॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-रङ्गनाथाष्टकं सम्पूर्णम्