श्रीशङ्करभगवत्पादकृता
अचक्षुष्ट्वान् न दृष्टिर्मे तथाश्रोतस्य का श्रुतिः ।
अवाक्त्वान् न तु वक्तिः स्यादमनस्त्वान् मतिः कुतः ॥
॥१॥अप्राणस्य न कर्मास्ति बुद्ध्यभावे न वेदिता ।
विद्याविद्ये ततो न स्तश्चिन्मात्रज्योतिषो मम ॥
॥२॥नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः ।
अमृतस्याक्षरस्यैवमशरीरस्य सर्वदा ॥
॥३॥जिघत्सा वा पिपासा वा शोकमोहौ जरामृती ।
न विद्यन्तेऽशरीरत्वाद् व्योमवद् व्यापिनो मम ॥
॥४॥अस्पर्शत्वान् न मे स्पृष्टिर्नाजिह्वत्वाद् रसज्ञता ।
नित्यविज्ञानरूपस्य ज्ञानाज्ञाने न मे सदा ॥
॥५॥या तु स्यान् मानसी वृत्तिश्चाक्षुष्का रूपरञ्जना ।
नित्यमेवात्मनो दृष्ट्या नित्यया दृश्यते हि सा ॥
॥६॥तथान्येन्द्रिययुक्ता या वृत्तयो विषयाञ्जनाः ।
स्मृती रागादिरूपा च केवलान्तर्मनस्यपि ॥
॥७॥मानस्यस्तद्वदन्यस्य दृश्यन्ते स्वप्नवृत्तयः ।
द्रष्टुर्दृष्टिस्ततो नित्या शुद्धानन्ता च केवला ॥
॥८॥अनित्या साविशुद्धेति गृह्यतेऽत्राविवेकतः ।
सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया ॥
॥९॥मूढया मूढ इत्येवं शुद्धया शुद्ध इत्यपि ।
मन्यते सर्वलोकोऽयं येन संसारं ऋच्छति ॥
॥१०॥अचक्षुष्ट्वादिशास्त्रोक्तं सबाह्याभ्यन्तरं ह्यजम् ।
नित्यमुक्तमिहात्मानं मुमुक्षुश्चेत् सदा स्मरेत् ॥
॥११॥अचक्षुष्ट्वादिशास्त्राच् च नेन्द्रियाणि सदा मम ।
अप्राणो ह्यमनाः शुभ्र इति चाथर्वणे वचः ॥
॥१२॥शब्दादीनामभावश्च श्रूयते मम काठके ।
अप्राणो ह्यमना यस्मादविकारी सदा ह्यहम् ॥
॥१३॥विक्षेपो नास्ति तस्मान् मे न समाधिस्ततो मम ।
विक्षेपो वा समाधिर्वा मनसः स्याद् विकारिणः ॥
॥१४॥अमनस्कस्य शुद्धस्य कथं तत् स्याद् द्वयं मम ।
अमनस्त्वाविकारित्वे विदेहव्यापिनो मम ॥
॥१५॥इत्येतद् यावदज्ञानं तावत् कार्यं ममाभवत् ।
नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम ॥
॥१६॥समाधिर्वासमाधिर्वा कार्यं वान्यत् कुतो भवेत् ।
मां हि ध्यात्वा च बुद्ध्वा च मन्यन्ते कृतकृत्यताम् ॥
॥१७॥अहं ब्रह्मास्मि सर्वोऽस्मि शुद्धो बुद्धोऽसितः सदा ।
अजः सर्वग एवाहमजरश्चामृतोऽक्षयः ॥
॥१८॥मदन्यः सर्वभूतेषु बोद्धा कश्चिन् न विद्यते ।
कर्माध्यक्षश्च साक्षी च चेता नित्योऽगुणोऽद्वयः ॥
॥१९॥न सच् चाहं न चासच् च नोभयं केवलः शिवः ।
न मे संध्या न रात्रिर्वा नाहर्वा सर्वदा दृशेः ॥
॥२०॥सर्वमूर्तिवियुक्तं यद् यथा खं सूक्ष्ममद्वयम् ।
तेनाप्यस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम् ॥
॥२१॥ममात्मास्य त आत्मेति भेदो व्योम्नो यथा भवेत् ।
एकस्य सुषिभेदेन तथा मम विकल्पितः ॥
॥२२॥भेदोऽभेदस्तथा चैको नाना चेति विकल्पितम् ।
ज्ञेयं ज्ञाता गतिर्गन्ता मय्येकस्मिन् कुतो भवेत् ॥
॥२३॥न मे हेयं न चादेयमविकारी यतो ह्यहम् ।
सदा मुक्तस्तथा शुद्धः सदा बुद्धोऽगुणोऽद्वयः ॥
॥२४॥इत्येवं सर्वदात्मानां विद्यात् सर्वं समाहितः ।
विदित्वा मां स्वदेहस्थं ऋषिर्मुक्तो ध्रुवो भवेत् ॥
॥२५॥कृतकृत्यश्च सिद्धश्च योगी ब्राह्मण एव च ।
यदैवं वेद तत्त्वार्थमन्यथा ह्यात्महा भवेत् ॥
॥२६॥वेदार्थो निश्चितो ह्येष समासेन मयोदितः ।
संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना ॥
॥२७॥