श्रीशङ्करभगवत्पादकृता
मूत्राशङ्को यथोदङ्को नाग्रहीदमृतं मुनिः ।
कर्मनाशभयाज् जन्तोरात्मज्ञानाग्रहस्तथा ॥
॥१॥बुद्धिस्थश्चलतीवात्मा ध्यायतीव च दृश्यते ।
नौगतस्य यथा वृक्षास्तद्वत् संसारविभ्रमः ॥
॥२॥नौस्थस्य प्रातिलोम्येन नगानां गमनं यथा ।
आत्मनः संसृतिस्तद्वद् ध्यायतीवेति हि श्रुतिः ॥
॥३॥चैतन्यप्रतिबिम्बेन व्याप्तो बोधो हि जायते ।
बुद्धेः शब्दादिनिर्भासस्तेन मोमुह्यते जगत् ॥
॥४॥चैतन्याभासताहमस्तादर्थ्यं च तदस्य यत् ।
इदमंशप्रहाणे न परः सोऽनुभवो भवेत् ॥
॥५॥