मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

हरिहरपुत्र अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

महाशास्ता महादेवो महादेवसुतोऽव्ययः ।

लोककर्ता लोकभर्ता लोकहन्ता परात्परः ॥

॥१॥

त्रिलोकरक्षको धन्वी तपस्वी भूतसैन्यकः ।

मन्त्रवेत्ता महावेत्ता मारुतो जगदीश्वरः ॥

॥२॥

लोकाध्यक्षोऽग्रणीः श्रीमान् अप्रमेयपराक्रमः ।

सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥

॥३॥

नानाशास्त्रधरोऽनर्घो नानाविद्याविशारदः ।

नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥

॥४॥

भूतेशः पूजितो भृत्यो भुजङ्गाभरणोत्तमः ।

इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥

॥५॥

मायादेवीसुतो मान्यो महानीतो महागुणः ।

महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥

॥६॥

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः ।

मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥

॥७॥

देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।

महायोगी महामायी महाज्ञानी महाधिपः ॥

॥८॥

देवशास्ता भूतशास्ता भीमहासपराक्रमः ।

नागहारश्च नागेशो व्योमकेशः सनातनः ॥

॥९॥

कालज्ञो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।

लोकाश्रयो गुणाधीशश्चतुःषष्टिकलामयः ॥

॥१०॥

ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः ।

त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः ॥

॥११॥

सुगुणश्च महाज्ञानी कामदः कमलेक्षणः ।

कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥

॥१२॥

संसारतापविच्छेत्ता पशुलोकभयङ्करः ।

रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥

॥१३॥

सर्वशास्त्रार्थतत्त्वज्ञो नीतिमान् पापभञ्जनः ।

पुष्कलापूर्णसंयुक्तो परमात्मा सतां गतिः ॥

॥१४॥

अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।

भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥

॥१५॥

इति श्री-हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्