देव्युवाच
भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर ।
अरुणेशस्य माहात्म्यं त्वत्तो विस्तरशः श्रुतम् ॥ १ ॥
तन्नाम्नामपि साहस्रं सर्वपाहरं नृणाम् ।
अरुणेशावतारस्य रमणस्य महात्मनः ॥ २ ॥
इदानीं श्रोतुमिच्छामि तस्य नामसहस्रकम् ।
यस्य सङ्कीर्तनान्मर्त्यो विमुक्तिं विन्दते ध्रुवम् ॥ ३ ॥
त्वं तु सर्वं विजानासि नान्यस्त्वत्तोऽस्य वेदिता ।
तस्मात्कारुण्यतो मह्यं भक्तिमत्यै विशेषतः ॥ ४ ॥
नाम्नां सहस्रं दिव्यानां रमणस्य मुनीशितुः ।
रहस्यमपि वक्तव्यं त्वया गौतम सुव्रत ॥ ५ ॥
गौतम उवाच
साधु साधु महाभागे प्रश्न एष जगद्धितः ।
वक्ष्ये तच्छ्रद्धयोपेता सावधानमनाः शृणु ॥ ६ ॥
ज्ञानं वेदान्तसञ्जातं साक्षान्मोक्षस्य साधनम् ।
कर्मोपास्त्यादि तद्भिन्नं ज्ञानद्वारैव मुक्तिदम् ॥ ७ ॥
निष्कामकर्मशुद्धानां विवेकादिमतां नृणाम् ।
जायते तच्च विज्ञानं प्रसादादेव सद्गुरोः ॥ ८ ॥
ज्ञानसाधननिष्ठत्वं ज्ञानाभ्यासं विदुर्बुधाः ।
तारतम्येन भिद्यन्ते ज्ञानाभ्यासाधिकारिणः ॥ ९ ॥
विचारमात्रनिष्ठस्य मुख्या ज्ञानाधिकारिता ।
विचारी दुर्लभो लोके विचारो दुष्करो यतः ॥ १० ॥
मुमुक्षवो नरास्सर्वे ज्ञानाभ्यासेऽधिकारिणः ।
स्त्रीशूद्राणां तथान्येषां नाधिकारो विगर्हितः ॥ ११ ॥
देशभाषान्तरेणापि तेषां सोप्युपकारकः ।
ज्ञानस्य च विचारोऽयं सन्निकृष्टं हि साधनम् ॥ १२ ॥
विचारभिन्नमार्गश्च न साक्षाज्ज्ञानसिद्धये ।
विचारजननद्वारेत्याहुर्वेदान्तवेदिनः ॥ १३ ॥
योगोपास्त्यादयोप्यन्ये सन्ति विज्ञानहेतवः ।
तदालम्बो भवत्येव विचारानधिकारिणाम् ॥ १४ ॥
योगोपास्त्याद्यशक्तानां जपस्तुत्यादिकीर्तनम् ।
ज्ञानोपायोभवत्येव जिज्ञासानिष्ठितं यदि ॥ १५ ॥
तस्मादयत्नतोज्ञानं सर्वेषां येन हेतुना ।
तादृशं नामसाहस्रं रमणस्य महात्मनः ॥ १६ ॥
त्वयि प्रीत्यैव वक्ष्यामि हिताय जगतां शृणु ।
नाभक्ताय प्रदातव्यमिदं मोक्षसुखप्रदम् ॥ १७ ॥
अस्य श्रीरमणदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । गौतमो ऋषिः । अनुष्टुप्छन्दः । श्रीरमणपरमात्मादेवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । "श्रीरमणाय नमः" इति मन्त्रप्रत्येकवर्णेन हृदयादि न्यासः । ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः ।
ध्यानम्
ध्यायेच्छारदचन्द्रसुन्दरमुखं ताम्रारविन्देक्षणं
भक्ताभीष्टवराभयप्रदकरं कौपीनमात्रोज्ज्वलम् ।
स्वात्मानन्दरसानुभूतिविवशं सर्वानवद्याङ्गकं
श्रीमन्तं रमणेश्वरं गुरुवरं योगासनाध्यासितम् ॥
अरुणजलजनेत्रं मुग्धमन्दस्मितास्यं
तरुणतपनभासं पूर्णबोधप्रसादम् ।
अरुणशिखरिसानुप्राङ्गणे सञ्चरन्तं
रमणमरुणमूर्तिं चिन्तयेदिष्टसिद्ध्यै ॥
- १ॐ अरुणेशमहाशक्तिनिपातप्रतिबोधिताय नमः
- २ॐ अचिन्त्यपरनिर्वाणस्थितये नमः
- ३ॐ अव्यक्तशक्तिकाय नमः
- ४ॐ अनभ्यासश्रमावाप्तसमस्तनिगमागमाय नमः
- ५ॐ अरुणाचलनाथीय पञ्चरत्नप्रकाशकाय नमः
- ६ॐ अनाहतान्यहृदयस्थानबोधनपण्डिताय नमः
- ७ॐ अकारादिक्षकारान्तमातृकामन्त्रमालिकाय नमः
- ८ॐ अन्तर्गतमहाशक्तये नमः
- ९ॐ अणिमादिगुणान्विताय नमः
- १०ॐ अभ्यासातिशयज्ञाताय नमः
- ११ॐ अत्याश्चर्यचरित्रकाय नमः
- १२ॐ अतिवर्णाश्रमाचाराय नमः
- १३ॐ अचिन्त्यशक्तये नमः
- १४ॐ अमोघदृशे नमः
- १५ॐ अङ्गावन्त्यादिदेशीय मुमुक्षुजनताश्रयाय नमः
- १६ॐ अन्तर्मुखाय नमः
- १७ॐ अन्तरारामाय नमः
- १८ॐ अन्तर्यामिने नमः
- १९ॐ अहमर्थदृशे नमः
- २०ॐ अहमर्थैकलक्ष्यार्थाय नमः
- २१ॐ अरुणाद्रिमयाय नमः
- २२ॐ अरुणाय नमः
- २३ॐ अपीताम्बाङ्गनिर्माल्यपयःपानैकजीविताय नमः
- २४ॐ अध्यात्मयोगनिलयाय नमः
- २५ॐ अदीनात्मने नमः
- २६ॐ अघमर्षणाय नमः
- २७ॐ अकायाय नमः
- २८ॐ भक्तकायस्थाय नमः
- २९ॐ कालचक्रप्रवर्तकाय नमः
- ३०ॐ अक्षिपेयामृताम्बोधये नमः
- ३१ॐ आहूयैश्वर्यदायकाय नमः
- ३२ॐ आजानुबाहवे नमः
- ३३ॐ अक्षोभ्याय नमः
- ३४ॐ आत्मवते नमः
- ३५ॐ अनसूयकाय नमः
- ३६ॐ आवर्तक्षेत्रसञ्जाताय नमः
- ३७ॐ आर्तरक्षणतत्पराय नमः
- ३८ॐ इतिहासपुराणज्ञाय नमः
- ३९ॐ इष्टापूर्तफलप्रदाय नमः
- ४०ॐ इडापिङ्गलिकामध्यसुषुम्नाग्रन्थिभेदकाय नमः
- ४१ॐ इडापिङ्गलिकामध्यसुषुम्नामध्यभासुराय नमः
- ४२ॐ इष्टार्थदाननिपुणाय नमः
- ४३ॐ इन्द्रभोगविरक्तधिये नमः
- ४४ॐ ईशानाय नमः
- ४५ॐ ईषणाहीनाय नमः
- ४६ॐ ईतिबाधाभयापहाय नमः
- ४७ॐ उपास्यमूर्तये नमः
- ४८ॐ उत्साहसम्पन्नाय नमः
- ४९ॐ उरुविक्रमाय नमः
- ५०ॐ उदासीनवदासीनाय नमः
- ५१ॐ उत्तमज्ञानदेशिकाय नमः
- ५२ॐ ऊर्ध्वरेतसे नमः
- ५३ॐ ऊर्ध्वगतये नमः
- ५४ॐ उटजस्थाय नमः
- ५५ॐ उदारधिये नमः
- ५६ॐ ऋषये नमः
- ५७ॐ ऋषिगणस्तुत्याय नमः
- ५८ॐ ऋजुबुद्धये नमः
- ५९ॐ ऋजुप्रियाय नमः
- ६०ॐ ऋतम्भराय नमः
- ६१ॐ ऋतप्रज्ञाय नमः
- ६२ॐ ऋजुमार्गप्रदर्शकाय नमः
- ६३ॐ एवमित्यविनिर्णेयाय नमः
- ६४ॐ एनःकूटविनाशनाय नमः
- ६५ॐ ऐश्वर्यदाननिपुणाय नमः
- ६६ॐ औदार्यगुणमण्डिताय नमः
- ६७ॐ ओङ्कारपदलक्ष्यार्थाय नमः
- ६८ॐ औपम्यपरिवर्जिताय नमः
- ६९ॐ कटाक्षस्यन्दिकरुणाय नमः
- ७०ॐ कटिबद्धालमल्लकाय नमः
- ७१ॐ कमनीयचरित्राढ्याय नमः
- ७२ॐ कर्मविदे नमः
- ७३ॐ कविपुङ्गवाय नमः
- ७४ॐ कर्माकर्मविभागज्ञाय नमः
- ७५ॐ कर्मलेपविवर्जिताय नमः
- ७६ॐ कलिदोषहराय नमः
- ७७ॐ कम्राय नमः
- ७८ॐ कर्मयोगप्रवर्तकाय नमः
- ७९ॐ कर्मन्दिप्रवराय नमः
- ८०ॐ कल्याय नमः
- ८१ॐ कल्याणगुणमण्डिताय नमः
- ८२ॐ कान्तिपत्तनसन्दृष्टारुणज्योतिःप्रहर्षिताय नमः
- ८३ॐ कामहन्त्रे नमः
- ८४ॐ कान्तमूर्तये नमः
- ८५ॐ कालात्मने नमः
- ८६ॐ कालसूत्रहृते नमः
- ८७ॐ काङ्क्षाहीनाय नमः
- ८८ॐ कालकाङ्क्षिणे नमः
- ८९ॐ काशीवासफलप्रदाय नमः
- ९०ॐ काश्मीरदेश्यसेव्याङ्घ्रये नमः
- ९१ॐ नेपालीयसमर्चिताय नमः
- ९२ॐ कामकारनिराकर्त्रे नमः
- ९३ॐ कृतकृत्यत्वकारकाय नमः
- ९४ॐ काव्यकण्ठसुधीदृष्ट कार्तिकेयस्वरूपधृते नमः
- ९५ॐ किङ्करीकृत भूपालाय नमः
- ९६ॐ कीर्तिमते नमः
- ९७ॐ कीर्तिवर्धनाय नमः
- ९८ॐ कुमाराय नमः
- ९९ॐ कुतलामोदाय नमः
- १००ॐ कुकुटुम्बिने नमः
- १०१ॐ कुलोद्गताय नमः
- १०२ॐ कुष्ठापस्माररोगघ्नाय नमः
- १०३ॐ कुसुमारामनिष्ठिताय नमः
- १०४ॐ कृपाळवे नमः
- १०५ॐ कृपणालम्बाय नमः
- १०६ॐ कृशानुसदृशाय नमः
- १०७ॐ कृशाय नमः
- १०८ॐ केरलान्ध्रादिभाषज्ञाय नमः
- १०९ॐ केरलान्ध्रजनेडिताय नमः
- ११०ॐ कैवल्यपदनिश्रेणये नमः
- १११ॐ कैवल्यसुखदायकाय नमः
- ११२ॐ कोऽहं नाहं सोऽहमिति स्वात्मान्वेषणमार्गदृशे नमः
- ११३ॐ कोऽहंविमर्शब्रह्मास्त्रनाशिताशेषविभ्रमाय नमः
- ११४ॐ कोशालयप्रतिष्ठात्रे नमः
- ११५ॐ कोशवते नमः
- ११६ॐ कोशवीक्षित्रे नमः
- ११७ॐ क्षमावते नमः
- ११८ॐ क्षिप्रसन्तुष्टाय नमः
- ११९ॐ क्षपिताशेषकल्मषाय नमः
- १२०ॐ क्षतकर्मणे नमः
- १२१ॐ क्षतविद्याय नमः
- १२२ॐ क्षीणभक्तजनावनाय नमः
- १२३ॐ क्षामनाशिने नमः
- १२४ॐ क्षुधाहीनाय नमः
- १२५ॐ क्षुद्रघ्नाय नमः
- १२६ॐ क्षितिमण्डनाय नमः
- १२७ॐ क्षेत्रज्ञाय नमः
- १२८ॐ क्षेमदाय नमः
- १२९ॐ क्षेमाय नमः
- १३०ॐ क्षेमार्थिजनवन्दिताय नमः
- १३१ॐ क्षेत्राटनपरिश्रान्तभक्तक्षिप्रप्रसादनाय नमः
- १३२ॐ क्ष्म्रौं मन्त्रबीजतत्त्वज्ञाय नमः
- १३३ॐ क्षेत्राजीवफलप्रदाय नमः
- १३४ॐ गम्भीराय नमः
- १३५ॐ गर्विताय नमः
- १३६ॐ गर्वविहीनाय नमः
- १३७ॐ गर्वनाशनाय नमः
- १३८ॐ गद्यपद्यप्रियाय नमः
- १३९ॐ गम्याय नमः
- १४०ॐ गायत्रीमन्त्रबोधिताय नमः
- १४१ॐ गिरीशाय नमः
- १४२ॐ गीष्पतये नमः
- १४३ॐ गुण्याय नमः
- १४४ॐ गुणातीताय नमः
- १४५ॐ गुणाकराय नमः
- १४६ॐ गृहिणे नमः
- १४७ॐ गृहविनिर्मुक्ताय नमः
- १४८ॐ ग्रहातिग्रहसञ्जयिने नमः
- १४९ॐ गीतोपदेशसारादि ग्रन्थकृते नमः
- १५०ॐ ग्रन्थिभेदकाय नमः
- १५१ॐ गुरुमूर्ततपोनिष्ठाय नमः
- १५२ॐ नैसर्गिकसुहृद्वराय नमः
- १५३ॐ गृहिमुक्त्यधिकारित्वव्यवस्थापनतत्पराय नमः
- १५४ॐ गोविन्दाय नमः
- १५५ॐ गोकुलत्रात्रे नमः
- १५६ॐ गोष्ठीवते नमः
- १५७ॐ गोधनान्विताय नमः
- १५८ॐ चराचरहिताय नमः
- १५९ॐ चक्षुरुत्सवाय नमः
- १६०ॐ चतुराय नमः
- १६१ॐ चलाय नमः
- १६२ॐ चतुर्वर्गचतुर्भद्रप्रदाय नमः
- १६३ॐ चरमदेहभृते नमः
- १६४ॐ चाण्डालचटकश्वाहिकिटिकीशहितङ्कराय नमः
- १६५ॐ चित्तानुवर्तिने नमः
- १६६ॐ चिन्मुद्रिणे नमः
- १६७ॐ चिन्मयाय नमः
- १६८ॐ चित्तनाशकाय नमः
- १६९ॐ चिरन्तनाय नमः
- १७०ॐ चिदाकाशाय नमः
- १७१ॐ चिन्ताहीनाय नमः
- १७२ॐ चिदूर्जिताय नमः
- १७३ॐ चोरहणे नमः
- १७४ॐ चोरदृशे नमः
- १७५ॐ चोरचपेटाघातनन्दिताय नमः
- १७६ॐ छलच्छद्मवचोहीनाय नमः
- १७७ॐ शत्रुजिते नमः
- १७८ॐ शत्रुतापनाय नमः
- १७९ॐ छन्नाकाराय नमः
- १८०ॐ छान्दसेड्याय नमः
- १८१ॐ छिन्नकर्मादि बन्धनाय नमः
- १८२ॐ छिन्नद्वैधाय नमः
- १८३ॐ छिन्नमोहाय नमः
- १८४ॐ छिन्नहृदे नमः
- १८५ॐ छिन्नकल्मषाय नमः
- १८६ॐ जगद्गुरवे नमः
- १८७ॐ जगत्प्राणाय नमः
- १८८ॐ जगदीशाय नमः
- १८९ॐ जगत्प्रियाय नमः
- १९०ॐ जयन्तीजाय नमः
- १९१ॐ जन्महीनाय नमः
- १९२ॐ जयदाय नमः
- १९३ॐ जनमोहनाय नमः
- १९४ॐ जाग्रत्स्वप्नसुषुप्त्यादि साक्षिणे नमः
- १९५ॐ जाड्यविनाशकाय नमः
- १९६ॐ जातिवर्णभिदाशून्याय नमः
- १९७ॐ जितात्मने नमः
- १९८ॐ जितभूतकाय नमः
- १९९ॐ जितेन्द्रियाय नमः
- २००ॐ जितप्राणाय नमः
- २०१ॐ जितान्तःशत्रुसञ्चयाय नमः
- २०२ॐ जीवब्रह्मैक्यविदे नमः
- २०३ॐ जीवन्मुक्ताय नमः
- २०४ॐ जीवत्वनाशकाय नमः
- २०५ॐ ज्योतिर्लिङ्गमयज्योतिषे नमः
- २०६ॐ समलोष्टाश्मकाञ्चनाय नमः
- २०७ॐ जेत्रे नमः
- २०८ॐ ज्यायसे नमः
- २०९ॐ ज्ञानमूर्तये नमः
- २१०ॐ ज्ञानिने नमः
- २११ॐ ज्ञानमहानिधये नमः
- २१२ॐ ज्ञानज्ञातृज्ञेयरूपत्रिपुटी भावनोज्झिताय नमः
- २१३ॐ ज्ञातसर्वागमाय नमः
- २१४ॐ ज्ञानगम्याय नमः
- २१५ॐ ज्ञातेयसन्नुताय नमः
- २१६ॐ ज्ञानविज्ञानतृप्तात्मने नमः
- २१७ॐ ज्ञानसञ्छिन्नसंशयाय नमः
- २१८ॐ ज्ञानाग्निदग्धकर्मणे नमः
- २१९ॐ ज्ञानोपायप्रदर्शकाय नमः
- २२०ॐ ज्ञानयज्ञविधिप्रीताय नमः
- २२१ॐ ज्ञानावस्थितमानसाय नमः
- २२२ॐ ज्ञाताऽज्ञातान्यचिन्मात्राय नमः
- २२३ॐ ज्ञानवृद्धोपलालिताय नमः
- २२४ॐ तत्त्वज्ञाय नमः
- २२५ॐ तत्त्वविन्नेत्रे नमः
- २२६ॐ तत्त्वमस्यादिलक्षिताय नमः
- २२७ॐ तत्त्वभाषणसन्तुष्टाय नमः
- २२८ॐ तत्त्वबोधकदेशिकाय नमः
- २२९ॐ तत्पदार्थैकसंलीनाय नमः
- २३०ॐ तत्त्वान्वेषणतत्पराय नमः
- २३१ॐ तपनाय नमः
- २३२ॐ तपनीयाङ्गाय नमः
- २३३ॐ तमस्सन्तापचन्द्रमसे नमः
- २३४ॐ तपस्विने नमः
- २३५ॐ तापसाराध्याय नमः
- २३६ॐ तपःक्लिष्टतनूद्वहाय नमः
- २३७ॐ तपस्तत्त्वार्थसारज्ञाय नमः
- २३८ॐ तपोमूर्तये नमः
- २३९ॐ तपोमयाय नमः
- २४०ॐ तपोबलसमाकृष्ट भक्तसङ्घसमावृताय नमः
- २४१ॐ तापत्रयाग्निसन्तप्त जनसञ्जीवनामृताय नमः
- २४२ॐ तातादेशाप्तशोणाद्रये नमः
- २४३ॐ तातारुणमहेश्वराय नमः
- २४४ॐ तातान्तिकसमागन्त्रे नमः
- २४५ॐ तातान्वेषणतत्पराय नमः
- २४६ॐ तितिक्षवे नमः
- २४७ॐ तीर्थविदे नमः
- २४८ॐ तीर्थाय नमः
- २४९ॐ तुरीयाय नमः
- २५०ॐ तुष्टमानसाय नमः
- २५१ॐ तुल्यनिन्दास्तुतये नमः
- २५२ॐ तूष्णींशीलाय नमः
- २५३ॐ तृष्णाविवर्जिताय नमः
- २५४ॐ तेजस्विने नमः
- २५५ॐ त्यक्तविषयाय नमः
- २५६ॐ त्रयीभावार्थकोविदाय नमः
- २५७ॐ त्रिदिवेशमुखोपास्याय नमः
- २५८ॐ त्रिवर्गाय नमः
- २५९ॐ त्रिगुणात्मकाय नमः
- २६०ॐ त्रैलोक्यबुधसम्पूज्याय नमः
- २६१ॐ त्रैलोक्यग्रासबृंहिताय नमः
- २६२ॐ त्रैलोक्यसृष्टिस्थितिकृते नमः
- २६३ॐ त्रैगुण्यविषयोज्झिताय नमः
- २६४ॐ त्रैगुण्यविषवेगघ्नाय नमः
- २६५ॐ दक्षाय नमः
- २६६ॐ दग्धवपुर्धराय नमः
- २६७ॐ दर्शनीयाय नमः
- २६८ॐ दयामूर्तये नमः
- २६९ॐ दक्षिणास्याय नमः
- २७०ॐ दमान्विताय नमः
- २७१ॐ दण्डधृते नमः
- २७२ॐ दण्डनीतिस्थाय नमः
- २७३ॐ दक्षिणाय नमः
- २७४ॐ दम्भवर्जिताय नमः
- २७५ॐ दहराकाशमध्यस्थ चिदाकाशप्रतिष्ठिताय नमः
- २७६ॐ दशदिक्पालसम्पूज्याय नमः
- २७७ॐ दशदिग्व्यापिसद्यशसे नमः
- २७८ॐ दक्षिणद्वीपविख्याताय नमः
- २७९ॐ दाक्षिणात्यकलाकवये नमः
- २८०ॐ दारिद्र्यध्वंसकाय नमः
- २८१ॐ दान्ताय नमः
- २८२ॐ दारितक्लेशसन्ततये नमः
- २८३ॐ दासीदासभराय नमः
- २८४ॐ दिव्याय नमः
- २८५ॐ दिष्ट्याबुद्धाय नमः
- २८६ॐ दिगम्बराय नमः
- २८७ॐ दीर्घदर्शिने नमः
- २८८ॐ दीप्यमानाय नमः
- २८९ॐ दीनबन्धवे नमः
- २९०ॐ दृगात्मकाय नमः
- २९१ॐ दृग्दृश्यभेदधीशून्याय नमः
- २९२ॐ दर्शनाय नमः
- २९३ॐ दृप्तखण्डकाय नमः
- २९४ॐ देववन्द्याय नमः
- २९५ॐ देवतेशाय नमः
- २९६ॐ दोषज्ञाय नमः
- २९७ॐ दोष नाशनाय नमः
- २९८ॐ द्वादशार्णमनुध्येयाय नमः
- २९९ॐ द्वादशान्तस्थलस्थिताय नमः
- ३००ॐ दुर्विगाह्याय नमः
- ३०१ॐ दुराधर्षाय नमः
- ३०२ॐ दुराचारनिवर्तकाय नमः
- ३०३ॐ दैविकाय नमः
- ३०४ॐ द्राविडाय नमः
- ३०५ॐ द्वीपान्तरविख्यातवैभवाय नमः
- ३०६ॐ द्वितीयातिथिसम्भूताय नमः
- ३०७ॐ द्वैतभावविमुक्तधिये नमः
- ३०८ॐ द्वैताद्वैतमतातीताय नमः
- ३०९ॐ द्वैतसन्तमसापहाय नमः
- ३१०ॐ धनदाय नमः
- ३११ॐ धर्मसूक्ष्मज्ञाय नमः
- ३१२ॐ धर्मराजे नमः
- ३१३ॐ धार्मिकप्रियाय नमः
- ३१४ॐ धात्रे नमः
- ३१५ॐ धातृसमस्रीकाय नमः
- ३१६ॐ धातुशुद्धिविधायकाय नमः
- ३१७ॐ धारणाशक्तिमते नमः
- ३१८ॐ धीराय नमः
- ३१९ॐ धुरीणाय नमः
- ३२०ॐ धृतिवर्धनाय नमः
- ३२१ॐ धीरोदात्तगुणोपेताय नमः
- ३२२ॐ ध्याननिष्ठाय नमः
- ३२३ॐ ध्रुवस्मृतये नमः
- ३२४ॐ नमज्जनोद्धारणकृते नमः
- ३२५ॐ नरवाहनसन्निभाय नमः
- ३२६ॐ नवनीतसमस्वान्ताय नमः
- ३२७ॐ नतसाधुजनाश्रयाय नमः
- ३२८ॐ नरनारीगणोपेताय नमः
- ३२९ॐ नगसानुकृताश्रमाय नमः
- ३३०ॐ नममेत्यव्यययुताय नमः
- ३३१ॐ नवीनाय नमः
- ३३२ॐ नष्टमानसाय नमः
- ३३३ॐ नयनानन्ददाय नमः
- ३३४ॐ नम्याय नमः
- ३३५ॐ नामोच्चारणमुक्तिदाय नमः
- ३३६ॐ नागस्वाम्यनुजाय नमः
- ३३७ॐ नागसुन्दरज्येष्ठताङ्गताय नमः
- ३३८ॐ नादबिन्दुकलाभिज्ञाय नमः
- ३३९ॐ नादब्रह्मप्रतिष्ठिताय नमः
- ३४०ॐ नादप्रियाय नमः
- ३४१ॐ नारदादिपूज्याय नमः
- ३४२ॐ नामविवर्जिताय नमः
- ३४३ॐ नामिने नमः
- ३४४ॐ नामजपप्रीताय नमः
- ३४५ॐ नास्तिकत्वविघातकृते नमः
- ३४६ॐ नासाग्रन्यस्तदृशे नमः
- ३४७ॐ नामब्रह्मातीताय नमः
- ३४८ॐ निरञ्जनाय नमः
- ३४९ॐ निरञ्जनाश्रयाय नमः
- ३५०ॐ नित्यतृप्ताय नमः
- ३५१ॐ निःश्रेयसप्रदाय नमः
- ३५२ॐ निर्यत्नसिद्धनित्यश्रिये नमः
- ३५३ॐ नित्यसिद्धस्वरूपदृशे नमः
- ३५४ॐ निर्ममाय नमः
- ३५५ॐ निरहङ्काराय नमः
- ३५६ॐ निरवद्याय नमः
- ३५७ॐ निराश्रयाय नमः
- ३५८ॐ नित्यानन्दाय नमः
- ३५९ॐ निरातङ्काय नमः
- ३६०ॐ निष्प्रपञ्चाय नमः
- ३६१ॐ निरामयाय नमः
- ३६२ॐ निर्मलाय नमः
- ३६३ॐ निश्चलाय नमः
- ३६४ॐ नित्याय नमः
- ३६५ॐ निर्मोहाय नमः
- ३६६ॐ निरुपाधिकाय नमः
- ३६७ॐ निस्सङ्गाय नमः
- ३६८ॐ निगमस्तुत्याय नमः
- ३६९ॐ निरीहाय नमः
- ३७०ॐ निरुपप्लवाय नमः
- ३७१ॐ नित्यशुद्धाय नमः
- ३७२ॐ नित्यबुद्धाय नमः
- ३७३ॐ नित्यमुक्ताय नमः
- ३७४ॐ निरन्तराय नमः
- ३७५ॐ निर्विकाराय नमः
- ३७६ॐ निर्गुणात्मने नमः
- ३७७ॐ निष्पापाय नमः
- ३७८ॐ निष्परिग्रहाय नमः
- ३७९ॐ निर्भवाय नमः
- ३८०ॐ निस्स्तुतये नमः
- ३८१ॐ निघ्नाय नमः
- ३८२ॐ निजानन्दैकनिर्भराय नमः
- ३८३ॐ निग्रहानुग्रहसमाय नमः
- ३८४ॐ निकृतिज्ञाय नमः
- ३८५ॐ निदानविदे नमः
- ३८६ॐ निर्ग्रन्थाय नमः
- ३८७ॐ निर्नमस्काराय नमः
- ३८८ॐ निस्तुलये नमः
- ३८९ॐ निरयापहाय नमः
- ३९०ॐ निर्वासनाय नमः
- ३९१ॐ निर्व्यसनाय नमः
- ३९२ॐ निर्योगक्षेमचिन्तनाय नमः
- ३९३ॐ निर्बीजध्यानसंवेद्याय नमः
- ३९४ॐ निर्वादाय नमः
- ३९५ॐ निश्शिरोरुहाय नमः
- ३९६ॐ पञ्चाक्षरमनुध्येयाय नमः
- ३९७ॐ पञ्चपातकनाशनाय नमः
- ३९८ॐ पञ्चस्कन्धीमताभिज्ञाय नमः
- ३९९ॐ पञ्चकोशविलक्षणाय नमः
- ४००ॐ पञ्चाग्निविद्यामार्गज्ञाय नमः
- ४०१ॐ पञ्चकृत्यपरायणाय नमः
- ४०२ॐ पञ्चवक्त्राय नमः
- ४०३ॐ पञ्चतपसे नमः
- ४०४ॐ पञ्चताकारणोद्धराय नमः
- ४०५ॐ पञ्चोपचारसम्पूज्याय नमः
- ४०६ॐ पञ्चभूतविमर्दनाय नमः
- ४०७ॐ पञ्चविंशतितत्त्वात्मने नमः
- ४०८ॐ महापञ्चदशाक्षराय नमः
- ४०९ॐ पराशरकुलोद्भूताय नमः
- ४१०ॐ पण्डिताय नमः
- ४११ॐ पण्डितप्रियाय नमः
- ४१२ॐ परमेष्ठिने नमः
- ४१३ॐ परेशानाय नमः
- ४१४ॐ परिपूर्णाय नमः
- ४१५ॐ परात्पराय नमः
- ४१६ॐ परस्मै ज्योतिषे नमः
- ४१७ॐ परस्मै धाम्ने नमः
- ४१८ॐ परमात्मने नमः
- ४१९ॐ परायणाय नमः
- ४२०ॐ पतिव्रताभीष्टदायिने नमः
- ४२१ॐ पर्यङ्कस्थाय नमः
- ४२२ॐ परार्थविदे नमः
- ४२३ॐ पवित्रपादाय नमः
- ४२४ॐ पापारये नमः
- ४२५ॐ परार्थैकप्रयोजनाय नमः
- ४२६ॐ पालीतीर्थतटोल्लासिने नमः
- ४२७ॐ पाश्चात्यद्वीपविश्रुताय नमः
- ४२८ॐ पित्रे नमः
- ४२९ॐ पितृहिताय नमः
- ४३०ॐ पित्तनाशकाय नमः
- ४३१ॐ पितृमोचकाय नमः
- ४३२ॐ पितृव्यान्वेषिताय नमः
- ४३३ॐ पीनाय नमः
- ४३४ॐ पातालेशालयस्थिताय नमः
- ४३५ॐ पुनर्वसूदिताय नमः
- ४३६ॐ पुण्याय नमः
- ४३७ॐ पुण्यकृते नमः
- ४३८ॐ पुरुषोत्तमाय नमः
- ४३९ॐ पुन्नागतरुवत्क्षेत्रिणे नमः
- ४४०ॐ पुण्यापुण्यविवर्जिताय नमः
- ४४१ॐ पूतात्मने नमः
- ४४२ॐ पृथुकप्रीताय नमः
- ४४३ॐ पृथुदाय नमः
- ४४४ॐ पुरोहिताय नमः
- ४४५ॐ प्रतिमाकृतसान्निध्याय नमः
- ४४६ॐ प्रतिग्रहपराङ्मुखाय नमः
- ४४७ॐ प्रमादिवत्सरोद्भूताय नमः
- ४४८ॐ प्रकृतिस्थाय नमः
- ४४९ॐ प्रमाणविदे नमः
- ४५०ॐ प्रतीकोपास्तिविषयाय नमः
- ४५१ॐ प्रत्युत्तरविचक्षणाय नमः
- ४५२ॐ प्रतीचे नमः
- ४५३ॐ प्रशान्ताय नमः
- ४५४ॐ प्रत्यक्षाय नमः
- ४५५ॐ प्रश्रिताय नमः
- ४५६ॐ प्रतिभानवते नमः
- ४५७ॐ प्रदक्षिणाप्रीतमनसे नमः
- ४५८ॐ प्रवालाद्रिसमाश्रयाय नमः
- ४५९ॐ प्राच्यप्रतीच्यदेशीयविबुधाग्रण्यवन्दिताय नमः
- ४६०ॐ प्रस्थानभेदसम्बोद्ध्याय नमः
- ४६१ॐ प्रांशवे नमः
- ४६२ॐ प्राणरोधकाय नमः
- ४६३ॐ प्रसूतिदिनवृद्धस्त्रीदर्शितज्योतिराकृतये नमः
- ४६४ॐ प्रार्थितार्थप्रदाय नमः
- ४६५ॐ प्राज्ञाय नमः
- ४६६ॐ प्रावारकनिगूहिताय नमः
- ४६७ॐ प्रातःस्मर्तव्यचारित्राय नमः
- ४६८ॐ प्राप्तप्राप्तव्यनिर्वृताय नमः
- ४६९ॐ प्रायणस्मृतिसम्प्राप्याय नमः
- ४७०ॐ प्रियहीनाय नमः
- ४७१ॐ प्रियंवदाय नमः
- ४७२ॐ प्रेक्षावते नमः
- ४७३ॐ प्रेष्यरहिताय नमः
- ४७४ॐ फलभूताय नमः
- ४७५ॐ फलप्रदाय नमः
- ४७६ॐ बहुश्रुताय नमः
- ४७७ॐ बहुमताय नमः
- ४७८ॐ बहुपाकिने नमः
- ४७९ॐ बहुप्रदाय नमः
- ४८०ॐ बलवते नमः
- ४८१ॐ बन्धुमते नमः
- ४८२ॐ बालरूपाय नमः
- ४८३ॐ बाल्यविचेष्टिताय नमः
- ४८४ॐ बालभानुप्रतीकाशाय नमः
- ४८५ॐ बालसन्न्यासिशब्दिताय नमः
- ४८६ॐ ब्रह्मचर्यतपोयोगश्रुतप्रज्ञासमन्विताय नमः
- ४८७ॐ ब्रह्मण्याय नमः
- ४८८ॐ ब्रह्मविदे नमः
- ४८९ॐ ब्रह्मणे नमः
- ४९०ॐ ब्रह्मसायुज्यदायकाय नमः
- ४९१ॐ ब्रह्मार्पितमनोबुद्धये नमः
- ४९२ॐ ब्राह्मणस्वामिनामकाय नमः
- ४९३ॐ ब्रह्मासनस्थिताय नमः
- ४९४ॐ ब्रह्मसूत्रविदे नमः
- ४९५ॐ भगवते नमः
- ४९६ॐ भवाय नमः
- ४९७ॐ भयकृते नमः
- ४९८ॐ भयसंहर्त्रे नमः
- ४९९ॐ भवादाय नमः
- ५००ॐ भक्तभाविताय नमः
- ५०१ॐ भारूपाय नमः
- ५०२ॐ भावनाग्राह्याय नमः
- ५०३ॐ भावज्ञाय नमः
- ५०४ॐ भाग्यवर्धनाय नमः
- ५०५ॐ भारतीय महाभाग्याय नमः
- ५०६ॐ भारतख्यातिपोषकाय नमः
- ५०७ॐ भारतोद्यज्ज्ञानदीपाय नमः
- ५०८ॐ भावनाभेदकृन्तनाय नमः
- ५०९ॐ भिदाशून्याय नमः
- ५१०ॐ भिदाध्वंसिने नमः
- ५११ॐ भावुकाय नमः
- ५१२ॐ भिक्षुकेश्वराय नमः
- ५१३ॐ भूतिदाय नमः
- ५१४ॐ भूतिकृते नमः
- ५१५ॐ भूमिनाथपूर्णांशसम्भवाय नमः
- ५१६ॐ भौमब्रह्मणे नमः
- ५१७ॐ भ्रमध्वंसिने नमः
- ५१८ॐ भूहृत्क्षेत्रलक्षिताय नमः
- ५१९ॐ भूतिभूषित सर्वाङ्गाय नमः
- ५२०ॐ मङ्गलाय नमः
- ५२१ॐ मङ्गलप्रदाय नमः
- ५२२ॐ मनसे नमः
- ५२३ॐ बुद्धये नमः
- ५२४ॐ अहङ्काराय नमः
- ५२५ॐ प्रकृतये नमः
- ५२६ॐ परस्मै पुंसे नमः
- ५२७ॐ महाशक्तये नमः
- ५२८ॐ महासिद्धये नमः
- ५२९ॐ महोदाराय नमः
- ५३०ॐ महाद्युतये नमः
- ५३१ॐ महाकर्त्रे नमः
- ५३२ॐ महाभोक्त्रे नमः
- ५३३ॐ महायोगिने नमः
- ५३४ॐ महामतये नमः
- ५३५ॐ महामान्याय नमः
- ५३६ॐ महाभागाय नमः
- ५३७ॐ महासेनमहांशजाय नमः
- ५३८ॐ मर्यादाकृते नमः
- ५३९ॐ महादेवाय नमः
- ५४०ॐ महारूपिणे नमः
- ५४१ॐ महायशसे नमः
- ५४२ॐ महोद्यमाय नमः
- ५४३ॐ महोत्साहाय नमः
- ५४४ॐ ममताग्रहपीडनाय नमः
- ५४५ॐ महामन्त्राय नमः
- ५४६ॐ महायन्त्राय नमः
- ५४७ॐ महावाक्योपदेशकाय नमः
- ५४८ॐ महावाक्यार्थतत्त्वज्ञाय नमः
- ५४९ॐ महामोहनिवारकाय नमः
- ५५०ॐ मायाविने नमः
- ५५१ॐ मानदाय नमः
- ५५२ॐ मानिने नमः
- ५५३ॐ मातृमुक्तिविधायकाय नमः
- ५५४ॐ मानावमानसाम्यात्मने नमः
- ५५५ॐ मालूराधस्तपस्स्थिताय नमः
- ५५६ॐ मधूकद्रुतलस्थायिने नमः
- ५५७ॐ मातृमते नमः
- ५५८ॐ मातृभक्तिमते नमः
- ५५९ॐ मात्रालयप्रतिष्ठात्रे नमः
- ५६०ॐ मार्गिताय नमः
- ५६१ॐ मार्गबान्धवाय नमः
- ५६२ॐ मार्गणीयाय नमः
- ५६३ॐ मार्गदर्शिने नमः
- ५६४ॐ मार्गशीर्षकृतोदयाय नमः
- ५६५ॐ मार्गितात्मने नमः
- ५६६ॐ मार्गशून्याय नमः
- ५६७ॐ मितभुजे नमः
- ५६८ॐ मितसञ्चराय नमः
- ५६९ॐ मितस्वप्नावबोधाय नमः
- ५७०ॐ मिथ्याबाह्यनिरीक्षकाय नमः
- ५७१ॐ मुनये नमः
- ५७२ॐ मुक्ताय नमः
- ५७३ॐ मुक्तिदायिने नमः
- ५७४ॐ मेधाविने नमः
- ५७५ॐ मेध्यभोजनाय नमः
- ५७६ॐ मौनव्याख्यानकृते नमः
- ५७७ॐ मौनिने नमः
- ५७८ॐ मौनभाषाविशारदाय नमः
- ५७९ॐ मौनामौनद्वयातीताय नमः
- ५८०ॐ मौनदाय नमः
- ५८१ॐ मौनिषुप्रियाय नमः
- ५८२ॐ यज्ञकृते नमः
- ५८३ॐ यज्ञभुजे नमः
- ५८४ॐ यज्ञाय नमः
- ५८५ॐ यजमानाय नमः
- ५८६ॐ यथार्थविदे नमः
- ५८७ॐ यतात्मने नमः
- ५८८ॐ यतिसम्पूज्याय नमः
- ५८९ॐ यतिप्राप्याय नमः
- ५९०ॐ यशस्कराय नमः
- ५९१ॐ यमाद्यष्टाङ्गयोगज्ञाय नमः
- ५९२ॐ यजुश्शाखिने नमः
- ५९३ॐ यतीश्वराय नमः
- ५९४ॐ यवनानुग्रहकराय नमः
- ५९५ॐ यक्षाय नमः
- ५९६ॐ यमनिषूदनाय नमः
- ५९७ॐ यात्राविरहिताय नमः
- ५९८ॐ यानानारूढाय नमः
- ५९९ॐ याज्ञिकप्रियाय नमः
- ६००ॐ यातनानाशनाय नमः
- ६०१ॐ याच्नाहीनाय नमः
- ६०२ॐ याचितदायकाय नमः
- ६०३ॐ युक्तकृते नमः
- ६०४ॐ युक्तभुजे नमः
- ६०५ॐ युक्तस्वप्नबोधाय नमः
- ६०६ॐ युगादिकृते नमः
- ६०७ॐ योगीशाय नमः
- ६०८ॐ योगपुरुषाय नमः
- ६०९ॐ योगतत्त्वविवेचकाय नमः
- ६१०ॐ योगासनाय नमः
- ६११ॐ योगभूमिसमारोहणसाधकाय नमः
- ६१२ॐ योगिगम्याय नमः
- ६१३ॐ योगफलाय नमः
- ६१४ॐ योगभ्रष्टशुभप्रदाय नमः
- ६१५ॐ योगप्रशंसिने नमः
- ६१६ॐ योगस्थाय नमः
- ६१७ॐ योगक्षेमधुरन्धराय नमः
- ६१८ॐ रक्षकाय नमः
- ६१९ॐ रमणाय नमः
- ६२०ॐ रम्याय नमः
- ६२१ॐ रमणीयाङ्गसंहतये नमः
- ६२२ॐ रमेशक्लेशसन्दृष्ट ज्योतिरक्लेशदर्शनाय नमः
- ६२३ॐ रजोपहाय नमः
- ६२४ॐ रजोमूर्तये नमः
- ६२५ॐ रसिकाय नमः
- ६२६ॐ रसशेवधये नमः
- ६२७ॐ रहस्याय नमः
- ६२८ॐ रञ्जनाय नमः
- ६२९ॐ रस्याय नमः
- ६३०ॐ रत्नगर्भाय नमः
- ६३१ॐ रसोदयाय नमः
- ६३२ॐ राजविद्यागुरवे नमः
- ६३३ॐ राजविद्याविदे नमः
- ६३४ॐ राजमानिताय नमः
- ६३५ॐ राजसाहारनिर्मुक्ताय नमः
- ६३६ॐ राजसज्ञानदूरगाय नमः
- ६३७ॐ रागद्वेषविनिर्मुक्ताय नमः
- ६३८ॐ रसालाश्रमकोकिलाय नमः
- ६३९ॐ रामाभिरामाय नमः
- ६४०ॐ राजश्रिये नमः
- ६४१ॐ राज्ञे नमः
- ६४२ॐ राज्यहितङ्कराय नमः
- ६४३ॐ राजभोगप्रदाय नमः
- ६४४ॐ राष्ट्रभाषाविदे नमः
- ६४५ॐ राजवल्लभाय नमः
- ६४६ॐ रुदितद्वेषणाय नमः
- ६४७ॐ रुद्राय नमः
- ६४८ॐ लक्ष्मीवते नमः
- ६४९ॐ लक्ष्मीवर्धनाय नमः
- ६५०ॐ लज्जालवे नमः
- ६५१ॐ ललिताय नमः
- ६५२ॐ लब्धलब्धव्याय नमः
- ६५३ॐ लघुसिद्धिदाय नमः
- ६५४ॐ लयविदे नमः
- ६५५ॐ लब्धकामौघाय नमः
- ६५६ॐ लाभालाभसमाशयाय नमः
- ६५७ॐ लयाधिष्ठानतत्त्वज्ञाय नमः
- ६५८ॐ लयपूर्वसमाधिमते नमः
- ६५९ॐ लास्यप्रियाय नमः
- ६६०ॐ लिङ्गरूपिणे नमः
- ६६१ॐ लिङ्गोत्थाय नमः
- ६६२ॐ लिङ्गवर्जिताय नमः
- ६६३ॐ लिपिलेखचणाय नमः
- ६६४ॐ लोकशिक्षकाय नमः
- ६६५ॐ लोकरक्षकाय नमः
- ६६६ॐ लोकायतमताभिज्ञाय नमः
- ६६७ॐ लोकवार्ताविवर्जिताय नमः
- ६६८ॐ लोकोदासीनभावस्थाय नमः
- ६६९ॐ लोकोत्तरगुणोत्तराय नमः
- ६७०ॐ लोकाध्यक्षाय नमः
- ६७१ॐ लोकपूज्याय नमः
- ६७२ॐ लोकासारत्वबोधकाय नमः
- ६७३ॐ लोकाकर्षणशक्तात्मशक्तिमत् कान्तपर्वताय नमः
- ६७४ॐ लोकानुत्सादकाय नमः
- ६७५ॐ लोकप्रमाणाय नमः
- ६७६ॐ लोकसङ्ग्रहिणे नमः
- ६७७ॐ लोकबोधप्रकाशार्थ शोणोद्यज्ज्ञानभास्कराय नमः
- ६७८ॐ वरिष्ठाय नमः
- ६७९ॐ वरदाय नमः
- ६८०ॐ वक्त्रे नमः
- ६८१ॐ वङ्गदेश्य जनाश्रयाय नमः
- ६८२ॐ वन्दारुजनमन्दाराय नमः
- ६८३ॐ वर्तमानैककालविदे नमः
- ६८४ॐ वनवासरसाभिज्ञाय नमः
- ६८५ॐ वलित्रयविभूषिताय नमः
- ६८६ॐ वसुमते नमः
- ६८७ॐ वस्तुतत्त्वज्ञाय नमः
- ६८८ॐ वन्द्याय नमः
- ६८९ॐ वत्सतरीप्रियाय नमः
- ६९०ॐ वर्णाश्रमपरित्रात्रे नमः
- ६९१ॐ वर्णाश्रममतातिगाय नमः
- ६९२ॐ वाक्यज्ञाय नमः
- ६९३ॐ वाक्यकुशलाय नमः
- ६९४ॐ वाङ्मनोबुद्ध्यगोचराय नमः
- ६९५ॐ वाद्यगीतप्रियाय नमः
- ६९६ॐ वाजश्रवसे नमः
- ६९७ॐ वापीप्रतिष्ठकाय नमः
- ६९८ॐ वाहनागारनिष्ठावते नमः
- ६९९ॐ वाजिमेधफलप्रदाय नमः
- ७००ॐ वक्षोदक्षिणभागस्थ हृदयस्थानदर्शकाय नमः
- ७०१ॐ वचद्भूमन्त्रसंसेव्याय नमः
- ७०२ॐ विचारैकोपदेशकृते नमः
- ७०३ॐ विचारमात्रनिरताय नमः
- ७०४ॐ विवेकिजनतादृताय नमः
- ७०५ॐ विदितात्मने नमः
- ७०६ॐ विधेयात्मने नमः
- ७०७ॐ विस्मितेशादिवीक्षिताय नमः
- ७०८ॐ विरूपाक्षगुहावासिने नमः
- ७०९ॐ विश्वात्मने नमः
- ७१०ॐ विश्वभुजे नमः
- ७११ॐ विभवे नमः
- ७१२ॐ विविक्तसेविने नमः
- ७१३ॐ विघ्नेशचैत्यप्राकारसंस्थिताय नमः
- ७१४ॐ विध्यदृष्टमहोदर्शिने नमः
- ७१५ॐ विज्ञानानन्दसुन्दराय नमः
- ७१६ॐ विघसाशिने नमः
- ७१७ॐ विशुद्धात्मने नमः
- ७१८ॐ विपर्यासनिरासकाय नमः
- ७१९ॐ विभूतिसितफालाढ्याय नमः
- ७२०ॐ विरोधोक्तिविनाकृताय नमः
- ७२१ॐ विश्वम्भराय नमः
- ७२२ॐ विश्ववैद्याय नमः
- ७२३ॐ विश्वास्याय नमः
- ७२४ॐ विस्मयान्विताय नमः
- ७२५ॐ वीणागेयाय नमः
- ७२६ॐ वीतमायाय नमः
- ७२७ॐ वीर्यवते नमः
- ७२८ॐ वीतसंशयाय नमः
- ७२९ॐ वृद्धिह्रासविनाभूताय नमः
- ७३०ॐ वृद्धाय नमः
- ७३१ॐ वृत्तिनिरोधकाय नमः
- ७३२ॐ वृत्तिदाय नमः
- ७३३ॐ वृत्तिबोधेद्धाय नमः
- ७३४ॐ वेणुवाद्यवशंवदाय नमः
- ७३५ॐ वेदवेदान्ततत्त्वज्ञाय नमः
- ७३६ॐ वेषदोषप्रकाशकाय नमः
- ७३७ॐ व्यक्ताव्यक्तस्वरूपज्ञाय नमः
- ७३८ॐ व्यङ्ग्यवाक्यप्रयोगविदे नमः
- ७३९ॐ व्याप्ताखिलाय नमः
- ७४०ॐ व्यवस्थाकृते नमः
- ७४१ॐ व्यवसायविबोधकाय नमः
- ७४२ॐ वैज्ञानिकाग्रण्यै नमः
- ७४३ॐ वैश्वानराय नमः
- ७४४ॐ व्याघ्राजिनस्थिताय नमः
- ७४५ॐ शरण्याय नमः
- ७४६ॐ शर्मदाय नमः
- ७४७ॐ शक्तिपातबुद्धाय नमः
- ७४८ॐ शमान्विताय नमः
- ७४९ॐ शरीरवद्भासमानाय नमः
- ७५०ॐ शर्मण्यजनवन्दिताय नमः
- ७५१ॐ शास्त्रजालमहारण्यवृथाटननिषेधकाय नमः
- ७५२ॐ शास्त्राभ्यासफलीभूतज्ञानविज्ञानतत्पराय नमः
- ७५३ॐ शास्त्रोल्लङ्घनविद्वेषिणे नमः
- ७५४ॐ शास्त्रमार्गाविलङ्घनाय नमः
- ७५५ॐ शान्तात्मने नमः
- ७५६ॐ शान्तिदाय नमः
- ७५७ॐ शान्तिधनाय नमः
- ७५८ॐ शान्तोपदेशकाय नमः
- ७५९ॐ शाण्डिल्योपास्तिलक्ष्यार्थाय नमः
- ७६०ॐ शास्त्रयोनये नमः
- ७६१ॐ प्रजापतये नमः
- ७६२ॐ शिवङ्कराय नमः
- ७६३ॐ शिवतमाय नमः
- ७६४ॐ शिष्टेष्टाय नमः
- ७६५ॐ शिष्टपूजिताय नमः
- ७६६ॐ शिवप्रकाशसन्तुष्टाय नमः
- ७६७ॐ शिवाद्वैतप्रतिष्ठिताय नमः
- ७६८ॐ शिवगङ्गातताकस्थाय नमः
- ७६९ॐ शिवज्ञानप्रदायकाय नमः
- ७७०ॐ शीताचलप्रान्त्यपूज्याय नमः
- ७७१ॐ शीप्रातीरजनाश्रयाय नमः
- ७७२ॐ शुभाशुभपरित्यागिने नमः
- ७७३ॐ शुभाशुभविमत्सराय नमः
- ७७४ॐ शुक्लकृष्णगतिज्ञानिने नमः
- ७७५ॐ शुभंयवे नमः
- ७७६ॐ शिशिरात्मकाय नमः
- ७७७ॐ शुकवत् जन्मसंसिद्धाय नमः
- ७७८ॐ शेषाद्रिस्वामिवत्सलाय नमः
- ७७९ॐ शैववैष्णवशाक्तादि विरोधप्रतिरोधकाय नमः
- ७८०ॐ शृङ्गारादि रसालम्बाय नमः
- ७८१ॐ शृङ्गाररसविप्रियाय नमः
- ७८२ॐ श्रवणाध्यर्थतत्त्वज्ञाय नमः
- ७८३ॐ श्रवणानन्दभाषिताय नमः
- ७८४ॐ शोणेशालयसञ्चारिणे नमः
- ७८५ॐ शोणेशाय नमः
- ७८६ॐ शोणतीर्थविदे नमः
- ७८७ॐ शोकमोहाद्यसंस्पृष्टाय नमः
- ७८८ॐ शोणक्षेत्राधिदैवताय नमः
- ७८९ॐ श्रीदाय नमः
- ७९०ॐ श्रीशाय नमः
- ७९१ॐ श्रीनिवासाय नमः
- ७९२ॐ श्रीकण्ठमततत्त्वविदे नमः
- ७९३ॐ श्रीविद्यामन्त्रतत्त्वज्ञाय नमः
- ७९४ॐ श्रीवैष्णवमतप्रियाय नमः
- ७९५ॐ श्रुतितात्पर्यनिर्वक्त्रे नमः
- ७९६ॐ श्रुतमात्रावधारणाय नमः
- ७९७ॐ श्रुतश्रोतव्यसन्तुष्टाय नमः
- ७९८ॐ श्रौतमार्गसमर्थकाय नमः
- ७९९ॐ षडध्वध्वान्तविध्वंसिने नमः
- ८००ॐ षडूर्मिभयभञ्जनाय नमः
- ८०१ॐ षड्ग्रन्थिभेदचतुराय नमः
- ८०२ॐ षड्गुणिने नमः
- ८०३ॐ षट्प्रमाणवते नमः
- ८०४ॐ षट्कोणमध्यनिलयाय नमः
- ८०५ॐ षडरिघ्नाय नमः
- ८०६ॐ षडाश्रयाय नमः
- ८०७ॐ षण्डत्वघ्नाय नमः
- ८०८ॐ षडाधारनिर्ध्याताय नमः
- ८०९ॐ षडानादिविदे नमः
- ८१०ॐ सर्वज्ञाय नमः
- ८११ॐ सर्वविदे नमः
- ८१२ॐ सर्वाय नमः
- ८१३ॐ सार्वाय नमः
- ८१४ॐ सर्वमनस्स्थिताय नमः
- ८१५ॐ सदसत् निर्णयज्ञानिने नमः
- ८१६ॐ सर्वभूतसमाशयाय नमः
- ८१७ॐ सर्वश्रुतये नमः
- ८१८ॐ सर्वचक्षुषे नमः
- ८१९ॐ सर्वाननकरादिमते नमः
- ८२०ॐ सर्वेन्द्रियगुणाभासाय नमः
- ८२१ॐ सर्वसम्बन्धवर्जिताय नमः
- ८२२ॐ सर्वभृते नमः
- ८२३ॐ सर्वकृते नमः
- ८२४ॐ सर्वहराय नमः
- ८२५ॐ सर्वहितेरताय नमः
- ८२६ॐ सर्वारम्भपरित्यागिने नमः
- ८२७ॐ सगुणध्यायितारकाय नमः
- ८२८ॐ सर्वभूतनिशाबुद्धाय नमः
- ८२९ॐ सर्वजागरनिद्रिताय नमः
- ८३०ॐ सर्वाश्चर्यमयाय नमः
- ८३१ॐ सभ्याय नमः
- ८३२ॐ सङ्कल्पघ्नाय नमः
- ८३३ॐ सदातनाय नमः
- ८३४ॐ सर्गादिमध्यनिधनाय नमः
- ८३५ॐ सकृत्स्मृतिविमुक्तिदाय नमः
- ८३६ॐ संयमिने नमः
- ८३७ॐ सत्यसन्धाय नमः
- ८३८ॐ संस्कार परिवर्जिताय नमः
- ८३९ॐ समाय नमः
- ८४०ॐ समविभक्ताङ्गाय नमः
- ८४१ॐ समदृशे नमः
- ८४२ॐ समसंस्थिताय नमः
- ८४३ॐ समर्थाय नमः
- ८४४ॐ समरद्वेषिणे नमः
- ८४५ॐ समर्यादाय नमः
- ८४६ॐ समाहिताय नमः
- ८४७ॐ समयज्ञाय नमः
- ८४८ॐ सदानन्दाय नमः
- ८४९ॐ समाहृतनिजेन्द्रियाय नमः
- ८५०ॐ सत्तासंविन्मयज्योतिषे नमः
- ८५१ॐ सम्प्रदायप्रवर्तकाय नमः
- ८५२ॐ समस्तवृत्तिमूलाहंवृत्तिनाशोपदेशकाय नमः
- ८५३ॐ सम्राजे नमः
- ८५४ॐ समृद्धाय नमः
- ८५५ॐ सम्बुद्धाय नमः
- ८५६ॐ सर्वश्रुतिमनोहराय नमः
- ८५७ॐ सरळाय नमः
- ८५८ॐ सरसाय नमः
- ८५९ॐ सर्वरसाय नमः
- ८६०ॐ सर्वानुभूतियुजे नमः
- ८६१ॐ सर्वेश्वराय नमः
- ८६२ॐ सर्वनिधये नमः
- ८६३ॐ सर्वात्मने नमः
- ८६४ॐ सर्वसाधकाय नमः
- ८६५ॐ सहजप्राप्तकर्मानुष्ठानत्यागनिषेधकाय नमः
- ८६६ॐ सहिष्णवे नमः
- ८६७ॐ सात्त्विकाहाराय नमः
- ८६८ॐ सात्त्विकज्ञानिवीक्षिताय नमः
- ८६९ॐ सत्त्वाधिकमनोबुद्धिसुखधैर्यविवर्धकाय नमः
- ८७०ॐ सात्त्विकत्यागयोगज्ञाय नमः
- ८७१ॐ सात्त्विकाराध्यवैभवाय नमः
- ८७२ॐ सार्धषोडशवर्षाप्तपारिव्राज्याय नमः
- ८७३ॐ विरक्तधिये नमः
- ८७४ॐ सामगानप्रियाय नमः
- ८७५ॐ साम्यवैषम्यमतिकृन्तनाय नमः
- ८७६ॐ साधिताखिलसिद्धीशाय नमः
- ८७७ॐ सामविदे नमः
- ८७८ॐ सामगायनाय नमः
- ८७९ॐ सिद्धार्थाय नमः
- ८८०ॐ सिद्धसङ्कल्पाय नमः
- ८८१ॐ सिद्धिदाय नमः
- ८८२ॐ सिद्धसाधनाय नमः
- ८८३ॐ सिद्ध्यसिद्धिसमाय नमः
- ८८४ॐ सिद्धाय नमः
- ८८५ॐ सिद्धसङ्घसमर्चिताय नमः
- ८८६ॐ सिसाधयिषुलोकेड्याय नमः
- ८८७ॐ सहायाम्बासहायवते नमः
- ८८८ॐ सुन्दराय नमः
- ८८९ॐ सुन्दरक्षेत्रविद्याभ्यासविलासभृते नमः
- ८९०ॐ सुन्दरेश्वरलीलाकृते नमः
- ८९१ॐ सुन्दरानन्दवर्धनाय नमः
- ८९२ॐ सुरर्षिसन्नुताय नमः
- ८९३ॐ सूक्ष्माय नमः
- ८९४ॐ सूरिदृश्यपदस्थिताय नमः
- ८९५ॐ सुदर्शनाय नमः
- ८९६ॐ सुहृदे नमः
- ८९७ॐ सूरये नमः
- ८९८ॐ सूनृतोक्तिवदावदाय नमः
- ८९९ॐ सूत्रविदे नमः
- ९००ॐ सूत्रकृते नमः
- ९०१ॐ सूत्राय नमः
- ९०२ॐ सृष्टिवैतथ्यबोधकाय नमः
- ९०३ॐ सृष्टिवाक्यमहावाक्यैक्यकण्ठ्यप्रतिपादकाय नमः
- ९०४ॐ सृष्टिहेतुमनोनाशिने नमः
- ९०५ॐ सृष्ट्यधिष्ठाननिष्ठिताय नमः
- ९०६ॐ स्रक्चन्दनादिविषयविरागिणे नमः
- ९०७ॐ स्वजनप्रियाय नमः
- ९०८ॐ सेवानम्रस्वभक्तौघसद्योमुक्तिप्रदायकाय नमः
- ९०९ॐ सोमसूर्याग्न्यप्रकाश्यस्वप्रकाशस्वरूपदृशे नमः
- ९१०ॐ सौन्दर्याम्बातपस्सम्पत्परीपाकफलायिताय नमः
- ९११ॐ सौहित्यविमुखाय नमः
- ९१२ॐ स्कन्दाश्रमवासकुतूहलिने नमः
- ९१३ॐ स्कन्दालयतपोनिष्ठाय नमः
- ९१४ॐ स्तव्यस्तावकवर्जिताय नमः
- ९१५ॐ सहस्रस्तम्भसंयुक्त मण्डपान्तरमाश्रिताय नमः
- ९१६ॐ स्तैन्यस्तेनाय नमः
- ९१७ॐ स्तोत्रशस्त्रगेयाय नमः
- ९१८ॐ स्मृतिकराय नमः
- ९१९ॐ स्मृतये नमः
- ९२०ॐ सामरस्यविधानज्ञाय नमः
- ९२१ॐ सङ्घसौभ्रात्रबोधकाय नमः
- ९२२ॐ स्वभावभद्राय नमः
- ९२३ॐ मध्यस्थाय नमः
- ९२४ॐ स्त्रीसन्न्यासविधायकाय नमः
- ९२५ॐ स्तिमितोदधिवज्ज्ञानशक्तिपूरितविग्रहाय नमः
- ९२६ॐ स्वात्मतत्त्वसुखस्फूर्तितुन्दिलस्वस्वरूपकाय नमः
- ९२७ॐ स्वस्वधर्मरतश्लाघिने नमः
- ९२८ॐ स्वभुवे नमः
- ९२९ॐ स्वच्छन्दचेष्टिताय नमः
- ९३०ॐ स्वस्वरूपपरिज्ञानपरामृतपदस्थिताय नमः
- ९३१ॐ स्वाध्यायज्ञानयज्ञेज्याय नमः
- ९३२ॐ स्वतस्सिद्धस्वरूपदृशे नमः
- ९३३ॐ स्वस्तिकृते नमः
- ९३४ॐ स्वस्तिभुजे नमः
- ९३५ॐ स्वामिने नमः
- ९३६ॐ स्वापजाग्रद्विवर्जिताय नमः
- ९३७ॐ हन्तृहन्तव्यताशून्यशुद्धस्वात्मोपदेशकाय नमः
- ९३८ॐ हस्तपादाद्यसङ्ग्राह्यनिर्लिप्तपरमार्थदृशे नमः
- ९३९ॐ हत्यादिपापशमनाय नमः
- ९४०ॐ हानिवृद्धिविवर्जिताय नमः
- ९४१ॐ हितकृते नमः
- ९४२ॐ हूणदेशीयजनवर्णित वैभवाय नमः
- ९४३ॐ हृदयब्रह्मतत्त्वज्ञाय नमः
- ९४४ॐ हृदयान्वेषदेशनाय नमः
- ९४५ॐ हृदयस्थाय नमः
- ९४६ॐ हृदयाकाशस्वरूपिणे नमः
- ९४७ॐ हृद्गुहाशयाय नमः
- ९४८ॐ हार्दाकाशान्तर्गतबाह्याकाशादिवस्तुदृशे नमः
- ९४९ॐ हृदयस्थानतत्त्वज्ञाय नमः
- ९५०ॐ हृदहंनाश पण्डिताय नमः
- ९५१ॐ हेयोपादेयरहिताय नमः
- ९५२ॐ हेमन्तर्तुकृतोदयाय नमः
- ९५३ॐ हरिब्रह्मेन्द्रदुष्प्रापस्वाराज्योर्जितशासनाय नमः
- ९५४ॐ हतासुरप्रकृतिकाय नमः
- ९५५ॐ हंसाय नमः
- ९५६ॐ हृद्याय नमः
- ९५७ॐ हिरण्मयाय नमः
- ९५८ॐ हार्दविद्याफलीभूताय नमः
- ९५९ॐ हार्दसन्तमसापहाय नमः
- ९६०ॐ सेतवे नमः
- ९६१ॐ सीम्ने नमः
- ९६२ॐ समुद्राय नमः
- ९६३ॐ समाभ्यधिकवर्जिताय नमः
- ९६४ॐ पुराणाय नमः
- ९६५ॐ पुरुषाय नमः
- ९६६ॐ पूर्णाय नमः
- ९६७ॐ अनन्तरूपाय नमः
- ९६८ॐ सनातनाय नमः
- ९६९ॐ ज्योतिषे नमः
- ९७०ॐ प्रकाशाय नमः
- ९७१ॐ प्रथिताय नमः
- ९७२ॐ स्वयंभानाय नमः
- ९७३ॐ स्वयंप्रभवे नमः
- ९७४ॐ सत्याय नमः
- ९७५ॐ ज्ञानाय नमः
- ९७६ॐ सुखाय नमः
- ९७७ॐ स्वस्थाय नमः
- ९७८ॐ स्वानुभवे नमः
- ९७९ॐ परदैवताय नमः
- ९८०ॐ महर्षये नमः
- ९८१ॐ महाग्रासाय नमः
- ९८२ॐ महात्मने नमः
- ९८३ॐ भगवते नमः
- ९८४ॐ वशिने नमः
- ९८५ॐ अहमर्थाय नमः
- ९८६ॐ अप्रमेयात्मने नमः
- ९८७ॐ तत्त्वाय नमः
- ९८८ॐ उत्तम निर्वाणाय नमः
- ९८९ॐ अनाख्यवस्तुने नमः
- ९९०ॐ मुक्तात्मने नमः
- ९९१ॐ बन्धमुक्तिविवर्जिताय नमः
- ९९२ॐ अदृश्याय नमः
- ९९३ॐ दृश्यनेत्रे नमः
- ९९४ॐ मूलाचार्याय नमः
- ९९५ॐ सुखासनाय नमः
- ९९६ॐ अन्तर्यामिने नमः
- ९९७ॐ पारशून्याय नमः
- ९९८ॐ भूम्ने नमः
- ९९९ॐ भोजयित्रे नमः
- १०००ॐ रसाय नमः
उपसंहारः -
कोऽहं मार्ग धनुष्पाणिः नाहं तत्त्व सुदर्शनः ।
सोऽहं बोध महाशङ्खो भगवान् रमणोऽवतु ॥ १ ॥
इति ते नामसहस्रं रमणस्य महात्मनः ।
कथितं कृपया देवि गोप्याद् गोप्यतरं मया ॥ २ ॥
य इदं नामसहस्रं भक्त्या पठति मानवः ।
तस्य मुक्तिर्यत्नेन सिध्यत्येव न संशयः ॥ ३ ॥
विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् ।
वैराग्य कामो लभते वैराग्यं भवतारकम् ॥ ४ ॥
येन येन च यो योऽर्थी स स तं तं समश्नुते ।
सर्व पापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥ ५ ॥
दुर्देश कालोत्थ दुरामयार्ताः
दौर्भाग्य तापत्रय सन्निरुद्धाः ।
नराः पठन्तो रमणस्य नाम
साहस्रमीयुः सुखमस्त दुःखम् ॥ ६ ॥
इति श्री गौतमऋषि प्रोक्तं श्री रमणसहस्रनामस्तोत्राधार नामावलिः सम्पूर्णा । शुभमस्तु