- १ॐ शुक्राय नमः
- २ॐ शुचये नमः
- ३ॐ शुभगुणाय नमः
- ४ॐ शुभदाय नमः
- ५ॐ शुभलक्षणाय नमः
- ६ॐ शोभनाक्षाय नमः
- ७ॐ शुभ्ररूपाय नमः
- ८ॐ शुद्धस्फटिकभास्वराय नमः
- ९ॐ दीनार्तिहरकाय नमः
- १०ॐ दैत्यगुरवे नमः
- ११ॐ देवाभिवन्दिताय नमः
- १२ॐ काव्यासक्ताय नमः
- १३ॐ कामपालाय नमः
- १४ॐ कवये नमः
- १५ॐ कल्याणदायकाय नमः
- १६ॐ भद्रमूर्तये नमः
- १७ॐ भद्रगुणाय नमः
- १८ॐ भार्गवाय नमः
- १९ॐ भक्तपालनाय नमः
- २०ॐ भोगदाय नमः
- २१ॐ भुवनाध्यक्षाय नमः
- २२ॐ भुक्तिमुक्तिफलप्रदाय नमः
- २३ॐ चारुशीलाय नमः
- २४ॐ चारुरूपाय नमः
- २५ॐ चारुचन्द्रनिभाननाय नमः
- २६ॐ निधये नमः
- २७ॐ निखिलशास्त्रज्ञाय नमः
- २८ॐ नीतिविद्याधुरन्धराय नमः
- २९ॐ सर्वलक्षणसम्पन्नाय नमः
- ३०ॐ सर्वावगुणवर्जिताय नमः
- ३१ॐ समानाधिकनिर्मुक्ताय नमः
- ३२ॐ सकलागमपारगाय नमः
- ३३ॐ भृगवे नमः
- ३४ॐ भोगकराय नमः
- ३५ॐ भूमिसुरपालनतत्पराय नमः
- ३६ॐ मनस्विने नमः
- ३७ॐ मानदाय नमः
- ३८ॐ मान्याय नमः
- ३९ॐ मायातीताय नमः
- ४०ॐ महाशयाय नमः
- ४१ॐ बलिप्रसन्नाय नमः
- ४२ॐ अभयदाय नमः
- ४३ॐ बलिने नमः
- ४४ॐ बलपराक्रमाय नमः
- ४५ॐ भवपाशपरित्यागाय नमः
- ४६ॐ बलिबन्धविमोचकाय नमः
- ४७ॐ घनाशयाय नमः
- ४८ॐ घनाध्यक्षाय नमः
- ४९ॐ कम्बुग्रीवाय नमः
- ५०ॐ कलाधराय नमः
- ५१ॐ कारुण्यरससम्पूर्णाय नमः
- ५२ॐ कल्याणगुणवर्धनाय नमः
- ५३ॐ श्वेताम्बराय नमः
- ५४ॐ श्वेतवपुषे नमः
- ५५ॐ चतुर्भुजसमन्विताय नमः
- ५६ॐ अक्षमालाधराय नमः
- ५७ॐ अचिन्त्याय नमः
- ५८ॐ अक्षीणगुणभासुराय नमः
- ५९ॐ नक्षत्रगणसञ्चाराय नमः
- ६०ॐ नयदाय नमः
- ६१ॐ नीतिमार्गदाय नमः
- ६२ॐ वर्षप्रदाय नमः
- ६३ॐ हृषीकेशाय नमः
- ६४ॐ क्लेशनाशकराय नमः
- ६५ॐ कवये नमः
- ६६ॐ चिन्तितार्थप्रदाय नमः
- ६७ॐ शान्तमतये नमः
- ६८ॐ चित्तसमाधिकृते नमः
- ६९ॐ आधिव्याधिहराय नमः
- ७०ॐ भूरिविक्रमाय नमः
- ७१ॐ पुण्यदायकाय नमः
- ७२ॐ पुराणपुरुषाय नमः
- ७३ॐ पूज्याय नमः
- ७४ॐ पुरुहूतादिसन्नुताय नमः
- ७५ॐ अजेयाय नमः
- ७६ॐ विजितारातये नमः
- ७७ॐ विविधाभरणोज्ज्वलाय नमः
- ७८ॐ कुन्दपुष्पप्रतीकाशाय नमः
- ७९ॐ मन्दहासाय नमः
- ८०ॐ महामतये नमः
- ८१ॐ मुक्ताफलसमानाभाय नमः
- ८२ॐ मुक्तिदाय नमः
- ८३ॐ मुनिसन्नुताय नमः
- ८४ॐ रत्नसिंहासनारूढाय नमः
- ८५ॐ रथस्थाय नमः
- ८६ॐ रजतप्रभाय नमः
- ८७ॐ सूर्यप्राग्देशसञ्चाराय नमः
- ८८ॐ सुरशत्रुसुहृदे नमः
- ८९ॐ कवये नमः
- ९०ॐ तुलावृषभराशीशाय नमः
- ९१ॐ दुर्धराय नमः
- ९२ॐ धर्मपालकाय नमः
- ९३ॐ भाग्यदाय नमः
- ९४ॐ भव्यचारित्राय नमः
- ९५ॐ भवपाशविमोचकाय नमः
- ९६ॐ गौडदेशेश्वराय नमः
- ९७ॐ गोप्त्रे नमः
- ९८ॐ गुणिने नमः
- ९९ॐ गुणविभूषणाय नमः
- १००ॐ ज्येष्ठानक्षत्रसम्भूताय नमः
- १०१ॐ ज्येष्ठाय नमः
- १०२ॐ श्रेष्ठाय नमः
- १०३ॐ शुचिस्मिताय नमः
- १०४ॐ अपवर्गप्रदाय नमः
- १०५ॐ अनन्ताय नमः
- १०६ॐ सन्तानफलदायकाय नमः
- १०७ॐ सर्वैश्वर्यप्रदाय नमः
- १०८ॐ सर्वगीर्वाणगणसन्नुताय नमः