मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

द्वादशोऽध्यायः

3
आश्वलायनश्रौतसूत्रम् · 12

प्रथमः खण्डः

गवामयनेनादित्यानामयनं व्याख्यातं

॥१॥

सर्वे त्वभिप्लवास्त्रिवृत्पञ्चदशाः

॥२॥

मासाश्च पृष्ठ्यमध्यमा नव । षष्ठसप्तमोत्तमान् वर्जयित्वा

॥३॥

बृहस्पतिसवेन्द्रस्तुतौ चाभिजिद्विश्वजितोः स्थाने

॥४॥

सप्तमस्य च मासस्योत्तमयोरभिप्लवयोः स्थाने त्रिवृद्व्यल्हो दशरात्र उद्भिद्बलभिदौ च

॥५॥

उत्तमस्य च मासस्यादौ येऽभिप्लवास्त्रय उद्धृत्य तेषां मध्यममथ स्युः पृष्ठ्यमध्यमाः

॥६॥

समूढो दशरात्रः

॥७॥

द्वितीयः खण्डः

आदित्यानामयनेनाङ्गिरसामयनं व्याख्यातं

॥१॥

त्रिवृतस्त्वभिप्लवाः सर्वे

॥२॥

पृष्ठ्यादयश्चाद्या मासाः पञ्च पूर्वस्य पक्षसः

॥३॥

चत्वारस्तूत्तरस्य पृष्ठ्यान्ता अष्टमादयः

॥४॥

उत्तमस्य च मासस्यादौ ये षडहास्त्रयः पृष्ठ्यान्ता एवं तेऽपि स्युः

॥५॥

पूर्वौ स्यातामभिप्लवौ

॥६॥

तृतीयः खण्डः

दृतिवातवतोरयनं

॥१॥

प्रायणीयोऽतिरात्रः

॥२॥

त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासं

॥३॥

व्रतं विषुवत्स्थाने

॥४॥

एतैरेव मासैः प्रतिलोमैः पक्ष उत्तरं

॥५॥

उदयनीयोऽतिरात्रः

॥६॥

एतेषामेवाह्नामतिरात्राविति

॥७॥

अपरमन्यत्राप्यादिष्टैः कालपूरणेन चेत् संस्थानियमः

॥८॥

चतुर्थः खण्डः

कुण्डपायिनामयनं

॥१॥

मासन्दीक्षिता भवन्ति

॥२॥

ते मासि सोमं क्रीणन्ति

॥३॥

तेषां द्वादशोपसदो भवन्ति

॥४॥

सोममुपनह्य प्रवर्ग्यपात्राण्यत्साद्योपनह्य वा मासमग्निहोत्रं जुह्वति

॥५॥

मासं दर्शपूर्णमासाभ्यां यजन्ते

॥६॥

मासं वैश्वदेवेन

॥७॥

मासं वरुणप्रघासैः । मासं साकमेधैः

॥८॥

मासं शुनासीरीयेण

॥९॥

यदहर्मासः पूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मात्सादनादि वौपवसथिकं कर्म कृत्वा श्वोभूते प्रसुनुयुः

॥१०॥

तद्धैक उपसद्भ्य एवानन्तरं कुर्वन्ति तथादृष्टत्वात् सौत्यान्मासानग्निहोत्रादीन् वदन्तः

॥११॥

तदनुपपन्नं

॥१२॥

पश्वर्थं ह्यग्निप्रणयनन्तस्य च श्वःसुत्यानिमित्तं

॥१३॥

अतिप्रणीतचर्यायां च वैगुण्यं दर्शपूर्णमासयोः । तथाग्निहोत्रस्य

॥१४॥

सदो हविर्धानान्याग्नीध्रीयाग्नीषोमप्रणयनवसतीवरीग्रहणानि पश्वर्थानि भवन्ति सुत्यार्थान्येके

॥१५॥

तत्कालाश्चैव तद्गुणाः

॥१६॥

सिद्धस्वभावानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः

॥१७॥

सगुणानां ह्येव कर्मणामुद्धार उपजनो वा

॥१८॥

सुब्रह्मण्या त्वत्यन्तं

॥१९॥

अनवधृतेहकालसंशयत्वात्

॥२०॥

उत्सर्गमेके सुत्योपसद्गुणत्वात्

॥२१॥

क्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थाने दोषः

॥२२॥

त्रिवृता मासं । पञ्चदशेन मासं । सप्तदशेन मासं । एकविंशेन मासं । त्रिणवेन मासं । अष्टादशत्रयस्त्रिंशानि । द्वादशाहस्य दशाहानि । महाव्रतञ्चातिरात्रश्च

॥२३॥

सर्वेण यज्ञेन यजन्ते य एतदुपयन्ति

॥२४॥

पञ्चमः खण्डः

सर्पाणामयनं

॥१॥

गोआयुषी ईदृशी स्तोमे

॥२॥

अनुलोमे षण्मासान् । प्रतिलोमे षट्

॥३॥

ज्योतिर्द्वादशीस्तोमो विषुवत्स्थाने

॥४॥

प्रकाशकामा उपेयुः

॥५॥

त्रैवर्षिकं प्रजाकामाः

॥६॥

गवामयनं प्रथमः संवत्सरः । अथादित्यानां । अथाङ्गिरसां

॥७॥

चत्वारि तापश्चितानि

॥८॥

क्षुल्लकतापश्चितं प्रथमं संवत्सरं सदीक्षोपसत्कं

॥९॥

तस्य चत्वारः सौत्या मासाः गवामयनस्य प्रथमषष्ठसप्तमोत्तमाः

॥१०॥

त्रैवर्षिकं तापश्चितं । तस्य सौत्यः संवत्सरः

॥११॥

उक्तो गवामयनेन । ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतञ्चतुर्विंशानां वैकैकं

॥१२॥

द्वादशवर्षिकं तापश्चितं । तस्य चत्वारः सौत्याः संवत्सराः । गवामयनशस्याः पूर्वेणैव न्यायेन

॥१३॥

षट्त्रिंशद्वर्षिकं महातापश्चितं । तस्य द्वादश सौत्याः संवत्सराः । गवामयनशंस्याः पूर्वेणैव न्यायेन । अपि वोत्तरस्य पक्षसो द्वाविंशतिः सवनमासा भवेयुः । त्रयोविंशतिः पूर्वस्य

॥१४॥

प्रजापतेर्द्वादशसंवत्सरं

॥१५॥

एकैकेन नव नव वर्षाणि

॥१७॥

एतैरेव स्तोमैः साध्यानां शतसंवत्सरं । एकैकेन पञ्चविंशतिः पञ्चविंशतिर्वर्षाणि

॥१८॥

एतैरेव स्तोमैर्विश्वसृजां सहस्रसंवत्सरं एकैकेनार्द्धतृतीयान्यर्द्धतृतीयानि वर्षशतानि

॥१९॥

अग्नेः

॥२०॥

अग्निष्टोमसहस्रं

॥२१॥

सहस्रसाव्यमित्येतदाचक्षते

॥२२॥

षष्ठः खण्डः

अथ सारस्वतानि

॥१॥

सरस्वत्याः पश्चिम उदकान्ते दीक्षेरन्

॥२॥

ते तत्रैव दीक्षोपसदः कृत्वा प्रायणीयञ्च सरस्वतीं दक्षिणेन तीरेण शम्याप्रासे शम्याप्रासेऽहरहर्यजमाना अनुव्रजेयुः

॥३॥

संहार्यं उलूखलबुध्नो यूपः

॥४॥

चक्रीवन्ति सदोहविर्धानानि

॥५॥

आग्नीध्रीयं पत्नीशालञ्च

॥६॥

दक्षिणपुरस्तादाहवनीयस्यावस्थाय ब्रह्मा शम्यां प्रहरेत् । सा यत्र निपतेत् तद्गार्हपत्यस्यायतनं । ततोऽधिविहारः

॥७॥

विषमे चेन्निपतेदुद्धृत्य समे विहरेयुः

॥८॥

अप्सु चेद्वारुणं पुरोडाशं निर्वपेयुः । आपांनप्त्रे चरुं । अपान्नपादा ह्यस्थादुपस्थं समन्या यन्त्युपयन्त्यन्या इति । आतः समानं सर्वेषां

॥९॥

मित्रावरुणयोरयनं

॥१०॥

कुण्डपायिनामयनस्याद्यान् षण्मासानावर्त्तयन्तो व्रजेयः

॥११॥

मासि मासि च गोआयुषी उपेयुः । आयुरयुग्मेषु । गौर्युग्मेषु

॥१२॥

इति न प्रथमः कल्पः

॥१३॥

अथ द्वितीयः

॥१४॥

यथामावास्यायामतिरात्रः स्यात् तथा दीक्षेरन्

॥१५॥

तेऽमावास्यायामतिरात्रं संस्थाप्य तदहरेवामावास्यस्य सान्नाय्यवत्सानपाकुर्युः

॥१६॥

तं पक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः तं पूर्वपक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः । पौर्णमासेनोत्तरं व्रजित्वाऽमावास्यायामायुषमुपेयुः

॥१७॥

एवमावर्त्तयन्तो व्रजेयुः

॥१८॥

इन्द्राग्नोरयनं

॥१९॥

गोआयुषीभ्यां

॥२०॥

अर्यम्णोरयनं त्रिकद्रुकैः

॥२१॥

सरस्वतीपरिसर्पणस्य शस्यमुक्तं गवामयनेन

॥२२॥

एकपातीनि त्वहान्यतिरात्राः

॥२३॥

पृष्ठ्याहश्चतुर्थं

॥२४॥

इति नु गतयः

॥२५॥

अथोत्थानानि

॥२६॥

प्लाक्षं प्रस्रवणं प्राप्योत्थानं

॥२७॥

तेयमुनायाङ्कारपचवेऽवभृथमभ्युपेयुः

॥२८॥

उदेत्याग्नये कामायेष्टिर्वैराजतन्त्रा

॥२९॥

तस्यामश्वीञ्च पुरुषीं च धेनुके दद्युः

॥३०॥

एतद्वोत्थानं

॥३१॥

ऋषभैकशतानां वा गवां सहस्रभावे

॥३२॥

सर्वस्वज्यान्यां

॥३३॥

गृहपतिमरणे वा । ज्यान्यां तूत्तिष्ठन्तो विश्वजिताऽतिरात्रेणोत्तिष्ठेयुः । गृहपतिमरण आयुषा । गवा गवां सहस्रभावे

॥३४॥

इति शस्यं

॥३५॥

सप्तमः खण्डः

अथ सवनीयाः

॥१॥

क्रतुपशवो वात्यन्तं

॥२॥

आग्नेयो वैन्द्राग्नो वा

॥३॥

आग्नेयं वा रथन्तरपृष्ठेषु

॥४॥

ऐन्द्रं बृहत्पृष्ठेषु

॥५॥

एकादशिनान् वा

॥६॥

प्रायणीयोदयनीययोरतिरात्रयोः समस्तानालभेरन् । ऐन्द्राग्नमन्तर्द्धो वा

॥७॥

अन्वहं वैकैकश एकादशिनान्

॥८॥

न त्वेवैकादशिनीं न्यूनामालभेरन्

॥९॥

एतेन चेत् पश्वयनेनेयुस्तृतीयेऽहनि दशरात्रस्य द्वात्रिंशतमेकादशिन्यः सन्तिष्ठन्तेऽत एतस्मिन् नवरात्रेऽतिरिक्तपशूनालभेरन्

॥१०॥

वैष्णवं वामनमेकविंशे

॥११॥

ऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिंशे । द्यावापृथिवीयां धेनुञ्चतुर्विंशे । तस्या एव वत्सं वायव्यं चतुश्चत्वारिंशे । आदित्यां वशामष्टाचत्वारिंशे । मैत्रावरुणीमविवाक्ये

॥१२॥

वैश्वकर्मणमृषभं महाव्रते । आग्नेयमुदयनीयेऽतिरात्रे

॥१३॥

अपि वैकादशिनीमेव त्रयस्त्रिंशीं पूरयेयुः । अभिजिद्विश्वजिद्विषुवन्ति द्विपशूनि स्युः

॥१४॥

अष्टमः खण्डः

अथ सत्रिधर्माः

॥१॥

दीक्षणादिपित्र्याणां दैवानाञ्च धर्माणां प्राकृतानां निवृत्तिः

॥२॥

सर्वशश्च वर्जयेयुर्ग्रामचर्यां

॥३॥

सरणं

॥४॥

विवृतस्मयनं

॥५॥

स्त्र्यभिहासं

॥६॥

अनार्याभिभाषणं

॥७॥

अनृतं क्रोधं अपां प्रगाहणं

॥८॥

अभिवर्षणं

॥९॥

आरोहणं च वृक्षस्य नावो वा

॥१०॥

रथस्य वा

॥११॥

दीक्षिताभिवादनं

॥१२॥

दीक्षितस्त्वौपसदं

॥१३॥

उभौ सुन्वन्तं

॥१४॥

समसिद्धान्ताः पूर्वारम्भिणं

॥१५॥

अभितप्ततरं वा

॥१६॥

सर्वसाम्ये यथावयः

॥१७॥

नृत्यगीतवादितानि

॥१८॥

अन्यांश्चाव्रत्योपचारान्

॥१९॥

न चैनान् बहिर्वेदिसदोऽभ्याश्रावयेयुः

॥२०॥

नोदक्यान्

॥२१॥

नो एवाभ्युदियान्नाभ्यस्तमियात्

॥२२॥

तेषाञ्चेत् किञ्चिदापदोपनमेत् त्वमग्ने व्रतपा असीति जपेत्

॥२३॥

आख्याय वेतरेषूपहवँ ल्लीप्सेत

॥२४॥

अवकीर्णिनं तैरेव दीक्षितद्रव्यैरपर्युप्य पुनर्द्दीक्षयेयुः

॥२५॥

आग्रयणकाले नवानां सवनीयान् निर्वपेयुः

॥२६॥

दीक्षोपसत्सु व्रतदुघ आदयेयुः

॥२७॥

तेषां व्रत्यानि

॥२८॥

पयो दीक्षासु

॥२९॥

व्यतिनीय कालमुपसदाञ्चतुर्थमेकस्या दुग्धेन

॥३०॥

तावदव त्रिभिस्तनैः । तावद्द्वाभ्यां । एकेन तावदेव

॥३१॥

सुत्यासु हविरुछिष्टभक्षा एव स्युः

॥३२॥

धानाः करम्भः परिवापः पुरोडाशः पयस्येति तेषां यद्यत् कामयीरंस्तत्तदुपविगुल्फयेयुः

॥३३॥

आशिरदुघो दध्यर्थं

॥३४॥

सौम्यं वा विगुल्फं निर्वपेयुरिति शौनको यावच्छरावं मन्येरन्

॥३५॥

वैश्वदेवमेके

॥३६॥

बार्हस्पत्यमेके

॥३७॥

सर्वान् वाऽनुसवनं

॥३८॥

अपि वान्यत्र सिद्धङ्गार्हपत्ये पुनरधिश्रित्योपव्रतयेरन्

॥३९॥

अन्यान् वा पथ्यान् भक्षानामूलफलेभ्यः

॥४०॥

एतेन वर्त्तयेयुः पशुना च

॥४१॥

नवमः खण्डः

तस्य विभागं वक्ष्यामः

॥१॥

हनू सजिह्वे प्रस्तोतुः

॥२॥

श्येनं वक्ष उद्गातुः

॥३॥

कण्ठः काकुद्रः प्रतिहर्त्तुः

॥४॥

दक्षिणा श्रोणिर्होतुः । सव्या ब्रह्मणः । दक्षिणं सक्थि मैत्रावरुणस्य । सव्यं ब्राह्मणाच्छंसिनः । दक्षिणं पार्श्वं सांसमध्वर्योः

॥५॥

सव्यमुपगातॄणां । सव्योंऽसः प्रतिप्रस्थातुः । दक्षिणं दोर्नेष्टुः । सव्यं पोतुः

॥६॥

दक्षिण ऊरुरच्छावाकस्य । सव्य आग्नीध्रस्य । दक्षिणो बाहुरात्रेयस्यः । सव्यः सदस्यस्य । सदञ्चानूकञ्च गृहपतेः

॥७॥

दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य

॥८॥

सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्य । ओष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्यात्

॥९॥

जाघनीं पत्नीभ्यो हरन्ति । तां ब्राह्मणाय दद्युः

॥१०॥

स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः

॥११॥

तिस्रश्चैव कीकसा अर्द्धं च वैकर्त्तस्योन्नेतुः । द्वयोस्तूक्तयोः सूत्रयोस्त्रीणि त्रीणि । अर्द्धञ्चैव वैकर्त्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्यात्

॥१२॥

यद्यब्राह्मणः स्यात्

॥१३॥

शिरः सुब्रह्मण्यायै । यः श्वःसुत्यां प्राह तस्याजिनं । इडा सर्वेषां । होतुर्वा । ता वा एताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति षट्त्रिंशदक्षरा वै बृहती

॥१४॥

बार्हताः स्वर्गलोकास्तत् प्राणेषु चैव तत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति

॥१६॥

स एषः स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोन्यथा तद्यथा सेलगावा पापकृतो वा पशुं विमथ्नीरंस्तादृक्तत्

॥१७॥

तां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्द्देवभागो विदाञ्चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्याया मनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयते

॥१८॥

दशमः खण्डः

सर्व समानगोत्राः स्युरिति गाणगारिः कथ ह्याप्रीसूक्तानि भवेयुः कथं प्रयाजा इति

॥१॥

अपि नानागोत्राः स्युरिति शौनकस्तन्त्राणां व्यापित्वात्

॥२॥

गृहपतिगोत्रान्वया विशेषाः

॥३॥

तस्य राद्धिमनु राद्धिः सर्वेषां

॥४॥

प्रवरास्त्वावर्त्तेरन्नावापधर्मित्वात्

॥५॥

जामदग्ना वत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौर्वजामदग्नेति

॥६॥

अथ हाजामदग्नानां भार्गवच्यावनाप्नवानेति

॥७॥

आर्ष्टिषेणानां भार्गवच्यावनाप्नवानार्ष्टिषेणानूपेति

॥८॥

विदानां भार्गवच्यावनाप्नवानौर्ववैदेति

॥९॥

यस्कवाधौलमौनमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति

॥१०॥

श्यैतानां भार्गववैन्यपार्थेति

॥११॥

मित्रयुवां वाध्र्यश्वेति त्रिप्रवरं वा भार्गवदैवोदासवाध्र्यश्वेति

॥१२॥

शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवशौनहोत्रगार्त्समदेति

॥१३॥

एकादशः खण्डः

गोतमानामाङ्गिरसायास्यगौतमेति । उचथ्यानामाङ्गिरसौचथ्यगौतमेति । रहूगणानामाङ्गिरसराहूगण्यगौतमेति । सोमराजकानामाङ्गिरससौमराज्यगौतमेति । वामदेवानामाङ्गिरसवामदेव्यगौतमेति । बृहदुक्थानामाङ्गिरसबार्हदुक्थगौतमेति । पृषदश्वानामाङ्गिरसपार्षदश्वरुवैपेति । अष्टादंष्ट्रं हैके ब्रुवतेऽतीत्याङ्गिरसमष्टादंष्ट्रपार्षदश्ववैरूपेति

॥१॥

ऋक्षाणामाङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति

॥२॥

कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति

॥३॥

दीर्घतमसामाङ्गिरसौचथ्यदैर्घतमसेति

॥४॥

भरद्वाजाग्निवेश्यानामाङ्गिरसबार्हस्पत्यभारद्वाजेति

॥५॥

द्वादशः खण्डः

मुद्गलानामाङ्गिरसभार्म्यश्वमौद्गल्येति । तार्क्ष्यं हैके ब्रुवतेऽतीत्याङ्गिरसन्तार्क्ष्यभार्म्यश्वमौद्गल्येति

॥१॥

विष्णुवृद्धानामाङ्गिरसपौरुकुत्स्यत्रासदस्यवेति । गर्गाणामाङ्गिरसबार्हस्पत्यभारद्वाजगार्ग्यशैन्येति । आङ्गिरसशैन्यगार्ग्येति वा

॥२॥

हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामाङ्गिरसाम्बरीषयौवनाश्वेति

॥३॥

मन्धातारं हैके ब्रुवतेऽतीत्याङ्गिरसं मान्धात्राम्बरीषयौवनाश्वेति

॥४॥

संकृतिपूतिमाषतण्डिशम्बुशैवगवानामाङ्गिरसगौरिवीतसांकृत्येति

॥५॥

शाक्त्यो वा मूलं शाक्त्यगौरिवीतसांकृत्येति

॥६॥

त्रयोदशः खण्डः

कण्वानामाङ्गिरसाजमील्हकण्वेति । घोरमु हैके ब्रुवतेऽवकृष्याजमील्हमाङ्गिरसघौरकाण्वेति

॥१॥

कपीनामाङ्गिरसामहीयवोरुक्षयसेति । अथ य एते द्विप्रवाचना यथैतच्छौङ्गशैशिरयः भरद्वाजाहशुङ्गाः कताः शैशिरयः

॥२॥

तेषामुभयतः प्रवृणीतैकमितरतो द्वावितरतः

॥३॥

द्वौ वेतरतस्त्रीनितरतः

॥४॥

नहि चतुर्णां प्रवरोऽस्ति न पञ्चानामतिप्रवरणं

॥५॥

आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति

॥६॥

चतुर्दशः खण्डः

अत्रीणामात्रेयार्चनानसश्यावाश्वेति । गविष्ठिराणामात्रेयगाविष्ठिरपौर्वातिथेति

॥१॥

चिकितगालवकालबवमनुतन्तुकुशिकानां वैश्वामित्रदेवरातौदलेति

॥२॥

श्रौमतकामकायनानां वैश्वामित्रदैवश्रवसदैवतरसेति

॥३॥

धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधानञ्चयेति । अजानां वैश्वामित्रमाधुच्छन्दसाज्येति । रोहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति । अष्टकानां वैश्वामित्रमाधुच्छन्दसाष्टकेति

॥४॥

पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति

॥५॥

कतानां वैश्वामित्रकात्यात्कीलेति । अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाथिनरैणवेति । वेणूनां वैश्वामित्रगाथिनवैणवेति । शालङ्कायनशालाक्षलोहिताक्षलोहितजह्नूनां वैश्वामित्रशालङ्कायनकौशिकेति

॥६॥

कश्यपानां काश्यपावत्सारासितेति । निध्रुवाणां काश्यपावत्सारनैध्रुवेति । रेभाणां काश्यपावत्साररैभ्येति । शण्डिलानां शाण्डिलासितदैवलेति

॥७॥

काश्यपासितदैवलेति वा

॥८॥

पञ्चदशः खण्डः

वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः

॥१॥

उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति । पराशराणां वासिष्ठशाक्त्यपाराशर्येति । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति

॥२॥

अगस्तीनामागस्त्यदार्ढच्युतेध्मवाहेति । सोमवाहो वोत्तम आगस्त्यदार्ढाच्यतसोमवाहेति

॥३॥

पुरोहितप्रवरो राज्ञां

॥४॥

अथ यदि सार्ष्टं प्रवृणीरन् मानवैलपौरूरवसेति

॥५॥

इति सत्राणि

॥६॥

तान्यदक्षिणानि

॥७॥

तेषामन्ते ज्योतिष्टोमः पृष्ठ्यशमनीयः

॥८॥

सहस्रदक्षिणः

॥९॥

अन्यो वा प्रज्ञातदक्षिणः

॥१०॥

दक्षिणावता पृष्ठ्यानि शमयेरन्निति विज्ञायते

॥११॥

स एव हेतुः प्रकृतिभावे प्रकृतिभावे । नमो ब्रह्मणे नमो ब्रह्मणे

॥१२॥

नम आचार्येभ्यो नम आचार्येभ्यः

॥१३॥

नमः शौनकाय नमः शौनकाय

॥१४॥