प्रथमः खण्डः
Devanāgarīगवामयनेनादित्यानामयनं व्याख्यातं
॥१॥ IAST
Devanāgarīसर्वे त्वभिप्लवास्त्रिवृत्पञ्चदशाः
॥२॥ IAST
Devanāgarīमासाश्च पृष्ठ्यमध्यमा नव । षष्ठसप्तमोत्तमान् वर्जयित्वा
॥३॥ IAST
Devanāgarīबृहस्पतिसवेन्द्रस्तुतौ चाभिजिद्विश्वजितोः स्थाने
॥४॥ IAST
Devanāgarīसप्तमस्य च मासस्योत्तमयोरभिप्लवयोः स्थाने त्रिवृद्व्यल्हो दशरात्र उद्भिद्बलभिदौ च
॥५॥ IAST
Devanāgarīउत्तमस्य च मासस्यादौ येऽभिप्लवास्त्रय उद्धृत्य तेषां मध्यममथ स्युः पृष्ठ्यमध्यमाः
॥६॥ IAST
Devanāgarīसमूढो दशरात्रः
॥७॥ IAST
द्वितीयः खण्डः
Devanāgarīआदित्यानामयनेनाङ्गिरसामयनं व्याख्यातं
॥१॥ IAST
Devanāgarīत्रिवृतस्त्वभिप्लवाः सर्वे
॥२॥ IAST
Devanāgarīपृष्ठ्यादयश्चाद्या मासाः पञ्च पूर्वस्य पक्षसः
॥३॥ IAST
Devanāgarīचत्वारस्तूत्तरस्य पृष्ठ्यान्ता अष्टमादयः
॥४॥ IAST
Devanāgarīउत्तमस्य च मासस्यादौ ये षडहास्त्रयः पृष्ठ्यान्ता एवं तेऽपि स्युः
॥५॥ IAST
Devanāgarīपूर्वौ स्यातामभिप्लवौ
॥६॥ IAST
तृतीयः खण्डः
Devanāgarīदृतिवातवतोरयनं
॥१॥ IAST
Devanāgarīप्रायणीयोऽतिरात्रः
॥२॥ IAST
Devanāgarīत्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासं
॥३॥ IAST
Devanāgarīव्रतं विषुवत्स्थाने
॥४॥ IAST
Devanāgarīएतैरेव मासैः प्रतिलोमैः पक्ष उत्तरं
॥५॥ IAST
Devanāgarīउदयनीयोऽतिरात्रः
॥६॥ IAST
Devanāgarīएतेषामेवाह्नामतिरात्राविति
॥७॥ IAST
Devanāgarīअपरमन्यत्राप्यादिष्टैः कालपूरणेन चेत् संस्थानियमः
॥८॥ IAST
चतुर्थः खण्डः
Devanāgarīकुण्डपायिनामयनं
॥१॥ IAST
Devanāgarīमासन्दीक्षिता भवन्ति
॥२॥ IAST
Devanāgarīते मासि सोमं क्रीणन्ति
॥३॥ IAST
Devanāgarīतेषां द्वादशोपसदो भवन्ति
॥४॥ IAST
Devanāgarīसोममुपनह्य प्रवर्ग्यपात्राण्यत्साद्योपनह्य वा मासमग्निहोत्रं जुह्वति
॥५॥ IAST
Devanāgarīमासं दर्शपूर्णमासाभ्यां यजन्ते
॥६॥ IAST
Devanāgarīमासं वैश्वदेवेन
॥७॥ IAST
Devanāgarīमासं वरुणप्रघासैः । मासं साकमेधैः
॥८॥ IAST
Devanāgarīमासं शुनासीरीयेण
॥९॥ IAST
Devanāgarīयदहर्मासः पूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मात्सादनादि वौपवसथिकं कर्म कृत्वा श्वोभूते प्रसुनुयुः
॥१०॥ IAST
Devanāgarīतद्धैक उपसद्भ्य एवानन्तरं कुर्वन्ति तथादृष्टत्वात् सौत्यान्मासानग्निहोत्रादीन् वदन्तः
॥११॥ IAST
Devanāgarīतदनुपपन्नं
॥१२॥ IAST
Devanāgarīपश्वर्थं ह्यग्निप्रणयनन्तस्य च श्वःसुत्यानिमित्तं
॥१३॥ IAST
Devanāgarīअतिप्रणीतचर्यायां च वैगुण्यं दर्शपूर्णमासयोः । तथाग्निहोत्रस्य
॥१४॥ IAST
Devanāgarīसदो हविर्धानान्याग्नीध्रीयाग्नीषोमप्रणयनवसतीवरीग्रहणानि पश्वर्थानि भवन्ति सुत्यार्थान्येके
॥१५॥ IAST
Devanāgarīतत्कालाश्चैव तद्गुणाः
॥१६॥ IAST
Devanāgarīसिद्धस्वभावानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः
॥१७॥ IAST
Devanāgarīसगुणानां ह्येव कर्मणामुद्धार उपजनो वा
॥१८॥ IAST
Devanāgarīसुब्रह्मण्या त्वत्यन्तं
॥१९॥ IAST
Devanāgarīअनवधृतेहकालसंशयत्वात्
॥२०॥ IAST
Devanāgarīउत्सर्गमेके सुत्योपसद्गुणत्वात्
॥२१॥ IAST
Devanāgarīक्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थाने दोषः
॥२२॥ IAST
Devanāgarīत्रिवृता मासं । पञ्चदशेन मासं । सप्तदशेन मासं । एकविंशेन मासं । त्रिणवेन मासं । अष्टादशत्रयस्त्रिंशानि । द्वादशाहस्य दशाहानि । महाव्रतञ्चातिरात्रश्च
॥२३॥ IAST
Devanāgarīसर्वेण यज्ञेन यजन्ते य एतदुपयन्ति
॥२४॥ IAST
पञ्चमः खण्डः
Devanāgarīसर्पाणामयनं
॥१॥ IAST
Devanāgarīगोआयुषी ईदृशी स्तोमे
॥२॥ IAST
Devanāgarīअनुलोमे षण्मासान् । प्रतिलोमे षट्
॥३॥ IAST
Devanāgarīज्योतिर्द्वादशीस्तोमो विषुवत्स्थाने
॥४॥ IAST
Devanāgarīप्रकाशकामा उपेयुः
॥५॥ IAST
Devanāgarīत्रैवर्षिकं प्रजाकामाः
॥६॥ IAST
Devanāgarīगवामयनं प्रथमः संवत्सरः । अथादित्यानां । अथाङ्गिरसां
॥७॥ IAST
Devanāgarīचत्वारि तापश्चितानि
॥८॥ IAST
Devanāgarīक्षुल्लकतापश्चितं प्रथमं संवत्सरं सदीक्षोपसत्कं
॥९॥ IAST
Devanāgarīतस्य चत्वारः सौत्या मासाः गवामयनस्य प्रथमषष्ठसप्तमोत्तमाः
॥१०॥ IAST
Devanāgarīत्रैवर्षिकं तापश्चितं । तस्य सौत्यः संवत्सरः
॥११॥ IAST
Devanāgarīउक्तो गवामयनेन । ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतञ्चतुर्विंशानां वैकैकं
॥१२॥ IAST
Devanāgarīद्वादशवर्षिकं तापश्चितं । तस्य चत्वारः सौत्याः संवत्सराः । गवामयनशस्याः पूर्वेणैव न्यायेन
॥१३॥ IAST
Devanāgarīषट्त्रिंशद्वर्षिकं महातापश्चितं । तस्य द्वादश सौत्याः संवत्सराः । गवामयनशंस्याः पूर्वेणैव न्यायेन । अपि वोत्तरस्य पक्षसो द्वाविंशतिः सवनमासा भवेयुः । त्रयोविंशतिः पूर्वस्य
॥१४॥ IAST
Devanāgarīप्रजापतेर्द्वादशसंवत्सरं
॥१५॥ IAST
Devanāgarīएकैकेन नव नव वर्षाणि
॥१७॥ IAST
Devanāgarīएतैरेव स्तोमैः साध्यानां शतसंवत्सरं । एकैकेन पञ्चविंशतिः पञ्चविंशतिर्वर्षाणि
॥१८॥ IAST
Devanāgarīएतैरेव स्तोमैर्विश्वसृजां सहस्रसंवत्सरं एकैकेनार्द्धतृतीयान्यर्द्धतृतीयानि वर्षशतानि
॥१९॥ IAST
IAST
Devanāgarīअग्निष्टोमसहस्रं
॥२१॥ IAST
Devanāgarīसहस्रसाव्यमित्येतदाचक्षते
॥२२॥ IAST
षष्ठः खण्डः
Devanāgarīअथ सारस्वतानि
॥१॥ IAST
Devanāgarīसरस्वत्याः पश्चिम उदकान्ते दीक्षेरन्
॥२॥ IAST
Devanāgarīते तत्रैव दीक्षोपसदः कृत्वा प्रायणीयञ्च सरस्वतीं दक्षिणेन तीरेण शम्याप्रासे शम्याप्रासेऽहरहर्यजमाना अनुव्रजेयुः
॥३॥ IAST
Devanāgarīसंहार्यं उलूखलबुध्नो यूपः
॥४॥ IAST
Devanāgarīचक्रीवन्ति सदोहविर्धानानि
॥५॥ IAST
Devanāgarīआग्नीध्रीयं पत्नीशालञ्च
॥६॥ IAST
Devanāgarīदक्षिणपुरस्तादाहवनीयस्यावस्थाय ब्रह्मा शम्यां प्रहरेत् । सा यत्र निपतेत् तद्गार्हपत्यस्यायतनं । ततोऽधिविहारः
॥७॥ IAST
Devanāgarīविषमे चेन्निपतेदुद्धृत्य समे विहरेयुः
॥८॥ IAST
Devanāgarīअप्सु चेद्वारुणं पुरोडाशं निर्वपेयुः । आपांनप्त्रे चरुं । अपान्नपादा ह्यस्थादुपस्थं समन्या यन्त्युपयन्त्यन्या इति । आतः समानं सर्वेषां
॥९॥ IAST
Devanāgarīमित्रावरुणयोरयनं
॥१०॥ IAST
Devanāgarīकुण्डपायिनामयनस्याद्यान् षण्मासानावर्त्तयन्तो व्रजेयः
॥११॥ IAST
Devanāgarīमासि मासि च गोआयुषी उपेयुः । आयुरयुग्मेषु । गौर्युग्मेषु
॥१२॥ IAST
Devanāgarīइति न प्रथमः कल्पः
॥१३॥ IAST
Devanāgarīअथ द्वितीयः
॥१४॥ IAST
Devanāgarīयथामावास्यायामतिरात्रः स्यात् तथा दीक्षेरन्
॥१५॥ IAST
Devanāgarīतेऽमावास्यायामतिरात्रं संस्थाप्य तदहरेवामावास्यस्य सान्नाय्यवत्सानपाकुर्युः
॥१६॥ IAST
Devanāgarīतं पक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः तं पूर्वपक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः । पौर्णमासेनोत्तरं व्रजित्वाऽमावास्यायामायुषमुपेयुः
॥१७॥ IAST
Devanāgarīएवमावर्त्तयन्तो व्रजेयुः
॥१८॥ IAST
Devanāgarīइन्द्राग्नोरयनं
॥१९॥ IAST
Devanāgarīगोआयुषीभ्यां
॥२०॥ IAST
Devanāgarīअर्यम्णोरयनं त्रिकद्रुकैः
॥२१॥ IAST
Devanāgarīसरस्वतीपरिसर्पणस्य शस्यमुक्तं गवामयनेन
॥२२॥ IAST
Devanāgarīएकपातीनि त्वहान्यतिरात्राः
॥२३॥ IAST
Devanāgarīपृष्ठ्याहश्चतुर्थं
॥२४॥ IAST
Devanāgarīइति नु गतयः
॥२५॥ IAST
Devanāgarīअथोत्थानानि
॥२६॥ IAST
Devanāgarīप्लाक्षं प्रस्रवणं प्राप्योत्थानं
॥२७॥ IAST
Devanāgarīतेयमुनायाङ्कारपचवेऽवभृथमभ्युपेयुः
॥२८॥ IAST
Devanāgarīउदेत्याग्नये कामायेष्टिर्वैराजतन्त्रा
॥२९॥ IAST
Devanāgarīतस्यामश्वीञ्च पुरुषीं च धेनुके दद्युः
॥३०॥ IAST
Devanāgarīएतद्वोत्थानं
॥३१॥ IAST
Devanāgarīऋषभैकशतानां वा गवां सहस्रभावे
॥३२॥ IAST
Devanāgarīसर्वस्वज्यान्यां
॥३३॥ IAST
Devanāgarīगृहपतिमरणे वा । ज्यान्यां तूत्तिष्ठन्तो विश्वजिताऽतिरात्रेणोत्तिष्ठेयुः । गृहपतिमरण आयुषा । गवा गवां सहस्रभावे
॥३४॥ IAST
IAST
सप्तमः खण्डः
IAST
Devanāgarīक्रतुपशवो वात्यन्तं
॥२॥ IAST
Devanāgarīआग्नेयो वैन्द्राग्नो वा
॥३॥ IAST
Devanāgarīआग्नेयं वा रथन्तरपृष्ठेषु
॥४॥ IAST
Devanāgarīऐन्द्रं बृहत्पृष्ठेषु
॥५॥ IAST
Devanāgarīएकादशिनान् वा
॥६॥ IAST
Devanāgarīप्रायणीयोदयनीययोरतिरात्रयोः समस्तानालभेरन् । ऐन्द्राग्नमन्तर्द्धो वा
॥७॥ IAST
Devanāgarīअन्वहं वैकैकश एकादशिनान्
॥८॥ IAST
Devanāgarīन त्वेवैकादशिनीं न्यूनामालभेरन्
॥९॥ IAST
Devanāgarīएतेन चेत् पश्वयनेनेयुस्तृतीयेऽहनि दशरात्रस्य द्वात्रिंशतमेकादशिन्यः सन्तिष्ठन्तेऽत एतस्मिन् नवरात्रेऽतिरिक्तपशूनालभेरन्
॥१०॥ IAST
Devanāgarīवैष्णवं वामनमेकविंशे
॥११॥ IAST
Devanāgarīऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिंशे । द्यावापृथिवीयां धेनुञ्चतुर्विंशे । तस्या एव वत्सं वायव्यं चतुश्चत्वारिंशे । आदित्यां वशामष्टाचत्वारिंशे । मैत्रावरुणीमविवाक्ये
॥१२॥ IAST
Devanāgarīवैश्वकर्मणमृषभं महाव्रते । आग्नेयमुदयनीयेऽतिरात्रे
॥१३॥ IAST
Devanāgarīअपि वैकादशिनीमेव त्रयस्त्रिंशीं पूरयेयुः । अभिजिद्विश्वजिद्विषुवन्ति द्विपशूनि स्युः
॥१४॥ IAST
अष्टमः खण्डः
Devanāgarīअथ सत्रिधर्माः
॥१॥ IAST
Devanāgarīदीक्षणादिपित्र्याणां दैवानाञ्च धर्माणां प्राकृतानां निवृत्तिः
॥२॥ IAST
Devanāgarīसर्वशश्च वर्जयेयुर्ग्रामचर्यां
॥३॥ IAST
IAST
Devanāgarīविवृतस्मयनं
॥५॥ IAST
Devanāgarīस्त्र्यभिहासं
॥६॥ IAST
Devanāgarīअनार्याभिभाषणं
॥७॥ IAST
Devanāgarīअनृतं क्रोधं अपां प्रगाहणं
॥८॥ IAST
IAST
Devanāgarīआरोहणं च वृक्षस्य नावो वा
॥१०॥ IAST
IAST
Devanāgarīदीक्षिताभिवादनं
॥१२॥ IAST
Devanāgarīदीक्षितस्त्वौपसदं
॥१३॥ IAST
Devanāgarīउभौ सुन्वन्तं
॥१४॥ IAST
Devanāgarīसमसिद्धान्ताः पूर्वारम्भिणं
॥१५॥ IAST
Devanāgarīअभितप्ततरं वा
॥१६॥ IAST
Devanāgarīसर्वसाम्ये यथावयः
॥१७॥ IAST
Devanāgarīनृत्यगीतवादितानि
॥१८॥ IAST
Devanāgarīअन्यांश्चाव्रत्योपचारान्
॥१९॥ IAST
Devanāgarīन चैनान् बहिर्वेदिसदोऽभ्याश्रावयेयुः
॥२०॥ IAST
IAST
Devanāgarīनो एवाभ्युदियान्नाभ्यस्तमियात्
॥२२॥ IAST
Devanāgarīतेषाञ्चेत् किञ्चिदापदोपनमेत् त्वमग्ने व्रतपा असीति जपेत्
॥२३॥ IAST
Devanāgarīआख्याय वेतरेषूपहवँ ल्लीप्सेत
॥२४॥ IAST
Devanāgarīअवकीर्णिनं तैरेव दीक्षितद्रव्यैरपर्युप्य पुनर्द्दीक्षयेयुः
॥२५॥ IAST
Devanāgarīआग्रयणकाले नवानां सवनीयान् निर्वपेयुः
॥२६॥ IAST
Devanāgarīदीक्षोपसत्सु व्रतदुघ आदयेयुः
॥२७॥ IAST
Devanāgarīतेषां व्रत्यानि
॥२८॥ IAST
Devanāgarīपयो दीक्षासु
॥२९॥ IAST
Devanāgarīव्यतिनीय कालमुपसदाञ्चतुर्थमेकस्या दुग्धेन
॥३०॥ IAST
Devanāgarīतावदव त्रिभिस्तनैः । तावद्द्वाभ्यां । एकेन तावदेव
॥३१॥ IAST
Devanāgarīसुत्यासु हविरुछिष्टभक्षा एव स्युः
॥३२॥ IAST
Devanāgarīधानाः करम्भः परिवापः पुरोडाशः पयस्येति तेषां यद्यत् कामयीरंस्तत्तदुपविगुल्फयेयुः
॥३३॥ IAST
Devanāgarīआशिरदुघो दध्यर्थं
॥३४॥ IAST
Devanāgarīसौम्यं वा विगुल्फं निर्वपेयुरिति शौनको यावच्छरावं मन्येरन्
॥३५॥ IAST
Devanāgarīवैश्वदेवमेके
॥३६॥ IAST
Devanāgarīबार्हस्पत्यमेके
॥३७॥ IAST
Devanāgarīसर्वान् वाऽनुसवनं
॥३८॥ IAST
Devanāgarīअपि वान्यत्र सिद्धङ्गार्हपत्ये पुनरधिश्रित्योपव्रतयेरन्
॥३९॥ IAST
Devanāgarīअन्यान् वा पथ्यान् भक्षानामूलफलेभ्यः
॥४०॥ IAST
Devanāgarīएतेन वर्त्तयेयुः पशुना च
॥४१॥ IAST
नवमः खण्डः
Devanāgarīतस्य विभागं वक्ष्यामः
॥१॥ IAST
Devanāgarīहनू सजिह्वे प्रस्तोतुः
॥२॥ IAST
Devanāgarīश्येनं वक्ष उद्गातुः
॥३॥ IAST
Devanāgarīकण्ठः काकुद्रः प्रतिहर्त्तुः
॥४॥ IAST
Devanāgarīदक्षिणा श्रोणिर्होतुः । सव्या ब्रह्मणः । दक्षिणं सक्थि मैत्रावरुणस्य । सव्यं ब्राह्मणाच्छंसिनः । दक्षिणं पार्श्वं सांसमध्वर्योः
॥५॥ IAST
Devanāgarīसव्यमुपगातॄणां । सव्योंऽसः प्रतिप्रस्थातुः । दक्षिणं दोर्नेष्टुः । सव्यं पोतुः
॥६॥ IAST
Devanāgarīदक्षिण ऊरुरच्छावाकस्य । सव्य आग्नीध्रस्य । दक्षिणो बाहुरात्रेयस्यः । सव्यः सदस्यस्य । सदञ्चानूकञ्च गृहपतेः
॥७॥ IAST
Devanāgarīदक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य
॥८॥ IAST
Devanāgarīसव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्य । ओष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्यात्
॥९॥ IAST
Devanāgarīजाघनीं पत्नीभ्यो हरन्ति । तां ब्राह्मणाय दद्युः
॥१०॥ IAST
Devanāgarīस्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः
॥११॥ IAST
Devanāgarīतिस्रश्चैव कीकसा अर्द्धं च वैकर्त्तस्योन्नेतुः । द्वयोस्तूक्तयोः सूत्रयोस्त्रीणि त्रीणि । अर्द्धञ्चैव वैकर्त्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्यात्
॥१२॥ IAST
Devanāgarīयद्यब्राह्मणः स्यात्
॥१३॥ IAST
Devanāgarīशिरः सुब्रह्मण्यायै । यः श्वःसुत्यां प्राह तस्याजिनं । इडा सर्वेषां । होतुर्वा । ता वा एताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति षट्त्रिंशदक्षरा वै बृहती
॥१४॥ IAST
Devanāgarīबार्हताः स्वर्गलोकास्तत् प्राणेषु चैव तत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति
॥१६॥ IAST
Devanāgarīस एषः स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोन्यथा तद्यथा सेलगावा पापकृतो वा पशुं विमथ्नीरंस्तादृक्तत्
॥१७॥ IAST
Devanāgarīतां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्द्देवभागो विदाञ्चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्याया मनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयते
॥१८॥ IAST
दशमः खण्डः
Devanāgarīसर्व समानगोत्राः स्युरिति गाणगारिः कथ ह्याप्रीसूक्तानि भवेयुः कथं प्रयाजा इति
॥१॥ IAST
Devanāgarīअपि नानागोत्राः स्युरिति शौनकस्तन्त्राणां व्यापित्वात्
॥२॥ IAST
Devanāgarīगृहपतिगोत्रान्वया विशेषाः
॥३॥ IAST
Devanāgarīतस्य राद्धिमनु राद्धिः सर्वेषां
॥४॥ IAST
Devanāgarīप्रवरास्त्वावर्त्तेरन्नावापधर्मित्वात्
॥५॥ IAST
Devanāgarīजामदग्ना वत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौर्वजामदग्नेति
॥६॥ IAST
Devanāgarīअथ हाजामदग्नानां भार्गवच्यावनाप्नवानेति
॥७॥ IAST
Devanāgarīआर्ष्टिषेणानां भार्गवच्यावनाप्नवानार्ष्टिषेणानूपेति
॥८॥ IAST
Devanāgarīविदानां भार्गवच्यावनाप्नवानौर्ववैदेति
॥९॥ IAST
Devanāgarīयस्कवाधौलमौनमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति
॥१०॥ IAST
Devanāgarīश्यैतानां भार्गववैन्यपार्थेति
॥११॥ IAST
Devanāgarīमित्रयुवां वाध्र्यश्वेति त्रिप्रवरं वा भार्गवदैवोदासवाध्र्यश्वेति
॥१२॥ IAST
Devanāgarīशुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवशौनहोत्रगार्त्समदेति
॥१३॥ IAST
एकादशः खण्डः
Devanāgarīगोतमानामाङ्गिरसायास्यगौतमेति । उचथ्यानामाङ्गिरसौचथ्यगौतमेति । रहूगणानामाङ्गिरसराहूगण्यगौतमेति । सोमराजकानामाङ्गिरससौमराज्यगौतमेति । वामदेवानामाङ्गिरसवामदेव्यगौतमेति । बृहदुक्थानामाङ्गिरसबार्हदुक्थगौतमेति । पृषदश्वानामाङ्गिरसपार्षदश्वरुवैपेति । अष्टादंष्ट्रं हैके ब्रुवतेऽतीत्याङ्गिरसमष्टादंष्ट्रपार्षदश्ववैरूपेति
॥१॥ IAST
Devanāgarīऋक्षाणामाङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति
॥२॥ IAST
Devanāgarīकक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति
॥३॥ IAST
Devanāgarīदीर्घतमसामाङ्गिरसौचथ्यदैर्घतमसेति
॥४॥ IAST
Devanāgarīभरद्वाजाग्निवेश्यानामाङ्गिरसबार्हस्पत्यभारद्वाजेति
॥५॥ IAST
द्वादशः खण्डः
Devanāgarīमुद्गलानामाङ्गिरसभार्म्यश्वमौद्गल्येति । तार्क्ष्यं हैके ब्रुवतेऽतीत्याङ्गिरसन्तार्क्ष्यभार्म्यश्वमौद्गल्येति
॥१॥ IAST
Devanāgarīविष्णुवृद्धानामाङ्गिरसपौरुकुत्स्यत्रासदस्यवेति । गर्गाणामाङ्गिरसबार्हस्पत्यभारद्वाजगार्ग्यशैन्येति । आङ्गिरसशैन्यगार्ग्येति वा
॥२॥ IAST
Devanāgarīहरितकुत्सपिङ्गशङ्खदर्भभैमगवानामाङ्गिरसाम्बरीषयौवनाश्वेति
॥३॥ IAST
Devanāgarīमन्धातारं हैके ब्रुवतेऽतीत्याङ्गिरसं मान्धात्राम्बरीषयौवनाश्वेति
॥४॥ IAST
Devanāgarīसंकृतिपूतिमाषतण्डिशम्बुशैवगवानामाङ्गिरसगौरिवीतसांकृत्येति
॥५॥ IAST
Devanāgarīशाक्त्यो वा मूलं शाक्त्यगौरिवीतसांकृत्येति
॥६॥ IAST
त्रयोदशः खण्डः
Devanāgarīकण्वानामाङ्गिरसाजमील्हकण्वेति । घोरमु हैके ब्रुवतेऽवकृष्याजमील्हमाङ्गिरसघौरकाण्वेति
॥१॥ IAST
Devanāgarīकपीनामाङ्गिरसामहीयवोरुक्षयसेति । अथ य एते द्विप्रवाचना यथैतच्छौङ्गशैशिरयः भरद्वाजाहशुङ्गाः कताः शैशिरयः
॥२॥ IAST
Devanāgarīतेषामुभयतः प्रवृणीतैकमितरतो द्वावितरतः
॥३॥ IAST
Devanāgarīद्वौ वेतरतस्त्रीनितरतः
॥४॥ IAST
Devanāgarīनहि चतुर्णां प्रवरोऽस्ति न पञ्चानामतिप्रवरणं
॥५॥ IAST
Devanāgarīआङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति
॥६॥ IAST
चतुर्दशः खण्डः
Devanāgarīअत्रीणामात्रेयार्चनानसश्यावाश्वेति । गविष्ठिराणामात्रेयगाविष्ठिरपौर्वातिथेति
॥१॥ IAST
Devanāgarīचिकितगालवकालबवमनुतन्तुकुशिकानां वैश्वामित्रदेवरातौदलेति
॥२॥ IAST
Devanāgarīश्रौमतकामकायनानां वैश्वामित्रदैवश्रवसदैवतरसेति
॥३॥ IAST
Devanāgarīधनञ्जयानां वैश्वामित्रमाधुच्छन्दसधानञ्चयेति । अजानां वैश्वामित्रमाधुच्छन्दसाज्येति । रोहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति । अष्टकानां वैश्वामित्रमाधुच्छन्दसाष्टकेति
॥४॥ IAST
Devanāgarīपूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति
॥५॥ IAST
Devanāgarīकतानां वैश्वामित्रकात्यात्कीलेति । अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाथिनरैणवेति । वेणूनां वैश्वामित्रगाथिनवैणवेति । शालङ्कायनशालाक्षलोहिताक्षलोहितजह्नूनां वैश्वामित्रशालङ्कायनकौशिकेति
॥६॥ IAST
Devanāgarīकश्यपानां काश्यपावत्सारासितेति । निध्रुवाणां काश्यपावत्सारनैध्रुवेति । रेभाणां काश्यपावत्साररैभ्येति । शण्डिलानां शाण्डिलासितदैवलेति
॥७॥ IAST
Devanāgarīकाश्यपासितदैवलेति वा
॥८॥ IAST
पञ्चदशः खण्डः
Devanāgarīवासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः
॥१॥ IAST
Devanāgarīउपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति । पराशराणां वासिष्ठशाक्त्यपाराशर्येति । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति
॥२॥ IAST
Devanāgarīअगस्तीनामागस्त्यदार्ढच्युतेध्मवाहेति । सोमवाहो वोत्तम आगस्त्यदार्ढाच्यतसोमवाहेति
॥३॥ IAST
Devanāgarīपुरोहितप्रवरो राज्ञां
॥४॥ IAST
Devanāgarīअथ यदि सार्ष्टं प्रवृणीरन् मानवैलपौरूरवसेति
॥५॥ IAST
Devanāgarīइति सत्राणि
॥६॥ IAST
Devanāgarīतान्यदक्षिणानि
॥७॥ IAST
Devanāgarīतेषामन्ते ज्योतिष्टोमः पृष्ठ्यशमनीयः
॥८॥ IAST
Devanāgarīसहस्रदक्षिणः
॥९॥ IAST
Devanāgarīअन्यो वा प्रज्ञातदक्षिणः
॥१०॥ IAST
Devanāgarīदक्षिणावता पृष्ठ्यानि शमयेरन्निति विज्ञायते
॥११॥ IAST
Devanāgarīस एव हेतुः प्रकृतिभावे प्रकृतिभावे । नमो ब्रह्मणे नमो ब्रह्मणे
॥१२॥ IAST
Devanāgarīनम आचार्येभ्यो नम आचार्येभ्यः
॥१३॥ IAST
Devanāgarīनमः शौनकाय नमः शौनकाय
॥१४॥ IAST