मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

आञ्जनेय अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

आञ्जनेयो महावीरो हनुमान् मारुतात्मजः ।

तत्त्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥

॥१॥

अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः ।

सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥

॥२॥

परविद्यापरीहर्ता परशौर्यविनाशकः ।

परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥

॥३॥

सर्वग्रहविनाशी च भीमसेनसहायकृत् ।

सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥

॥४॥

पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् ।

सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मिकस्तथा ॥

॥५॥

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः ।

बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः ॥

॥६॥

कपिसेनानायकश्च भविष्यच्चतुराननः ।

कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥

॥७॥

चञ्चलद्वालसन्नद्धो लम्बमानशिखोज्ज्वलः ।

गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥

॥८॥

कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः ।

सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥

॥९॥

वानरः केसरीसूनुः सीताशोकनिवारणः ।

अञ्जनागर्भसम्भूतो बालार्कसदृशाननः ॥

॥१०॥

विभीषणप्रियकरो दशग्रीवकुलान्तकः ।

लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥

॥११॥

चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः ।

अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥

॥१२॥

लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः ।

गन्धमादनशैलस्थो लङ्कापुरविदाहकः ॥

॥१३॥

सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः ।

सुरार्चितो महातेजो रामचूडामणिप्रदः ॥

॥१४॥

कामरूपी पिङ्गलाक्षो वर्धिमैनाकपूजितः ।

कबलीकृतमार्तण्डमण्डलो विजितेन्द्रियः ॥

॥१५॥

रामसुग्रीवसन्धाता महिरावणमर्दनः ।

स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥

॥१६॥

चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः ।

सञ्जीवननगाहर्ता शुचिर्वाग्मी धृतव्रतः ॥

॥१७॥

कालनेमिप्रमथनो हरिमर्कटमर्कटः ।

दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहः ॥

॥१८॥

योगी रामकथालोलः सीतान्वेषणपण्डितः ।

वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥

॥१९॥

इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः ।

पार्थध्वजाग्रसंवासी शरपञ्जरहेलकः ॥

॥२०॥

दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः ।

सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥

॥२१॥

इति श्री-आञ्जनेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्