पारम्परिकम्
ॐ अस्य श्री-आपदुद्धारक-द्वादशमुख-हनुमान् स्तोत्र-महामन्त्रस्य विभीषण ऋषिः। अनुष्टुप् छन्दः। श्री-द्वादशमुख-प्रचण्ड-हनुमान् देवता। मारुतात्मज इति बीजम्। अञ्जनासूनुरिति शक्तिः। वायुपुत्रेति कीलकम्। श्रीहनुमत्प्रसादसिद्धिद्वारा सर्वापन्निवारणार्थे जपे विनियोगः।
ध्यानम्
उष्ट्रारूढ-सुवर्चलासहचरन् सुग्रीवमित्राञ्जना-
सूनो वायुकुमार केसरितनूजाक्षादिदैत्यान्तक ।
सीताशोकहराग्निनन्दन सुमित्रासम्भवप्राणद
श्रीभीमाग्रज शम्भुपुत्र हनुमान् सूर्यास्य तुभ्यं नमः ॥
॥१॥खड्गं खेटक-भिन्दिपाल-परशुं पाश-त्रिशूल-द्रुमान्
चक्रं शङ्ख-गदा-फलाङ्कुश-सुधाकुम्भान् हलं पर्वतम् ।
टङ्कं पर्वतकार्मुकाहिडमरूनेतानि दिव्यायुधान्
एवं विंशतिबाहुभिश्च दधतं ध्यायेद्धनूमत्प्रभुम् ॥
॥२॥स्तोत्रम्
ॐ नमो भगवते तुभ्यं नमो मारुतसूनवे ।
नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ॥
॥३॥नमो वानरवीराय सुग्रीवसख्यकारिणे ।
लङ्काविदाहकायाथ हेलासागरतारिणे ॥
॥४॥सीताशोकविनाशाय राममुद्राधराय च ।
रावणस्य कुलच्छेदकारिणे ते नमो नमः ॥
॥५॥मेघनादमखध्वंसकारिणे ते नमो नमः ।
अशोकवनविध्वंसकारिणे भयहारिणे ॥
॥६॥वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥
॥७॥ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥
॥८॥अक्षस्य वधकर्त्रे च ब्रह्मशक्तिनिवारिणे ।
लक्ष्मणाङ्गमहाशक्ति-घात-क्षत-विनाशिने ॥
॥९॥रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः ।
ऋक्षवानरवीरौघ-प्राणदायक ते नमः ॥
॥१०॥परसैन्यबलघ्नाय शस्त्रास्त्रविघनाय च ।
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥
॥११॥महाभयरिपुघ्नाय भक्तत्राणैककारिणे ।
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥
॥१२॥पयः-पाषाण-तरण-कारणाय नमो नमः ।
बालार्कमण्डलग्रासकारिणे भवतारिणे ॥
॥१३॥नखायुधाय भीमाय दन्तायुधधराय च ।
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ॥
॥१४॥प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने ।
करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ॥
॥१५॥बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ।
विहङ्गमाय शर्वाय वज्रदेहाय ते नमः ॥
॥१६॥कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥
॥१७॥कृत्या-क्षत-व्यथघ्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञा-पार्थसङ्ग्राम-सङ्ख्ये सञ्जयधारिणे ॥
॥१८॥भक्तानां दिव्यवादेषु सङ्ग्रामे जयदायिने ।
किलकिल्याबूबुरोच्चघोरशब्दकराय च ॥
॥१९॥सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे
सदा वनफलाहार-सत्तृप्ताय विशेषतः
महार्णव-शिला-बद्ध-सेतवे ते नमो नमः ॥
॥२०॥वादे विवादे सङ्ग्रामे भये घोरे महावने ।
सिंहव्याघ्रादि चौरेभ्यः स्तोत्रपाठाद् भयं न हि ॥
॥२१॥दिव्ये भूतभये व्याधौ गृहे स्थावरजङ्गमे ।
राजशस्त्रभये चोग्रबाधा ग्रहभयेषु च ॥
॥२२॥जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः ॥
॥२३॥सर्वथा वै त्रिकालं च पठनीयमिमं स्तवम् ।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥
॥२४॥विनतायाः स्वमातुश्च दासीत्वस्य निवृत्तये ।
सुधार्णं यातुकामाय महापौरुषशालिने ॥
॥२५॥विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम् ।
ये पठन्ति सदा भक्त्या सिद्धयस्तत्करे स्थिताः ॥
॥२६॥इति श्री-सुदर्शनसंहितायां श्री-विभीषणगरुडसंवादे श्री-विभीषणकृतम् आपदुद्धारक श्री-द्वादशमुख-हनुमान् स्तोत्रं सम्पूर्णम्